This page has not been fully proofread.

६२
 
कुवलयानन्दः । [ व्यतिरेकालंकारः २०
 
त्तयोः साम्ये पर्यवस्यति । द्वितीय निदर्शनायामप्यन्यधर्मोऽन्यत्रासंभवन्ध-
मिणोः साम्ये पर्यवस्यति । तृतीय निदर्शनायां तु स्वक्रियया परान्प्रति सद-
सदर्थबोधनं संभवदेव समतां गर्भीकरोति । बोधयन् गृहमेधिन इत्यादौ हि
कारीपोऽग्निरध्यापयतीतिवत्समर्थाचरणे णिचः प्रयोगः । ततश्च यथा कारी-
षोऽग्निः शीतापनयनेन बटूनध्ययनसमर्थान्करोति एवं वर्ण्यमानः पर्वतः
स्वयमुपमानभावेन गृहमेधिन उक्तबोधनसमर्थान्कर्तुं क्षमते। यथायं पर्वतः
समागतं रविं शिरसा संभावयत्येवं गृहमेधी समागतं सन्तमुचितपूजया
संभावयेदिति । अतः संभवति बोधन संबन्ध इति ॥ ५५ ॥ ५६ ॥
 
व्यतिरेकालंकारः २०४
 
व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।
शैला इवोन्नताः सन्तः किंतु प्रकृतिकोमलाः ॥ ५७ ॥
अयमुपमेयाधिक्यपर्यवसायी व्यतिरेकः । यथावा-
-
 
पलवतः कल्पतरोरेप विशेष: करस्य ते वीर ।
भूषयति कर्णमेकः परस्तु कर्ण तिरस्कुरुते ॥
तन्यूनत्वपर्यवसायी यथा—
 
रक्तस्त्वं नवपल्लवैरहमपि लाध्यैः प्रियाया गुण-
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्तथा मामपि ।
 
www..com
 
त्रयविषये केचिदित्यस्येति व्यवहरन्तीत्यनेनान्वयः ॥ धर्मिणोरिति ॥ धर्मयोः
साम्यमात्रेण चमत्कारा निष्पत्तेस्तत्कृतबिम्बप्रतिबिम्बभावेन धर्मिणोः साम्या-
वगतिरिति भावः ॥ गर्भीकरोतीति ॥ स्वविशेषणत्वेन स्वीकरोतीत्यर्थः ।
दृष्टान्ततया बोधनस्यैव तत्र विवक्षितत्वात् । एतदेवोपपादयति – बोधयन्त्रि-
त्यादिना ॥ करीषं शुष्कगोमयं तस्यायंकारीषः । समर्थाचरणे समर्थकरणे ।
सामर्थ्योत्पादन इति यावत् । भावप्राधान्यात् । उपमानभावेन दृष्टान्तत्वेन ।
एवं प्रदर्शिते निदर्शनात्रये निदर्शनापदप्रवृत्तिनिमित्तस्यै कस्याभावान्नानार्थ एव
निदर्शनाशब्द इति बोध्यम् ॥ ५५ ॥ ५६ ॥ इति निदर्शनालंकारप्रकरणम् ॥१९॥
व्यतिरेकं लक्षयति — व्यतिरेक इति ॥ विशेषो वैलक्षण्यम् । उपमेयस्या-
धिक्यमुत्कर्षः ॥ पल्लवत इति ॥ पञ्चम्यर्थे तसिल । कल्पतरोः पलवतः पल-
वादेष वक्ष्यमाणस्ते तव करस्य विशेष इति संबन्धः । एकः पल्लवः परो हस्तः
कर्ण राधेयं तिरस्कुरुते । दानातिशयेनेति भावः । अत्रोपमेयस्य करस्योत्कर्षः ।
पूर्वोदाहरणे उन्नतत्वेनौपम्यं शाब्दमिह तु रक्तवत्कोमलादिप्रयुक्तं तद्गम्यमिति
मेदः ॥ तभ्यूनत्वेति ॥ उपमेयन्यूनत्वेत्यर्थः ॥ रक्तस्त्वमिति ॥ अशो-
कवृक्षं प्रति विरहिणः कस्यचिदुक्तिः हे अशोक, आवयोः सर्व तुल्यं समानम् ।
अहं केवलं धात्रा विधात्रा सशोकः शोकसहितः कृतः, त्वं तु शोकरहित इत्य-
e