This page has been fully proofread twice.

त्तयोः साम्ये पर्यवस्यति । द्वितीयनिदर्शनायामप्यन्यधर्मोऽन्यत्रासम्भवन्धर्मिणोः साम्ये पर्यवस्यति । तृतीयनिदर्शनायां तु स्वक्रियया परान्प्रति सदसदर्थबोधनं सम्भवदेव समतां गर्भीकरोति । बोधयन् गृहमेधिन इत्यादौ हिकारीषोऽग्निरध्यापयतीतिवत्समर्थाचरणे णिचः प्रयोगः । ततश्च यथा कारीषोऽग्निः शीतापनयनेन बटूनध्ययनसमर्थान्करोति एवं वर्ण्यमानः पर्वतः स्वयमुपमानभावेन गृहमेधिन उक्तबोधनसमर्थान्कर्तुं क्षमते। यथायं पर्वतः समागतं रविं शिरसा सम्भावयत्येवं गृहमेधी समागतं सन्तमुचितपूजया सम्भावयेदिति । अतः सम्भवति बोधन सम्बन्ध इति ॥ ५५ ॥ ५६ ॥
 
---------------
 
व्यतिरेकालंकारः २०४
 
व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।
शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः ॥ ५७ ॥
 
अयमुपमेयाधिक्यपर्यवसायी व्यतिरेकः । यथावा --
 
पल्लवतः कल्पतरोरे विशेष:षः करस्य ते वीर ।
भूषयति कर्णमेकः परस्तु कर्णं तिरस्कुरुते ॥
 
न्न्यूनत्वपर्यवसायी यथा --
 
रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै-
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्तथा मामपि ।
 
[commentary]
 
त्रयविषये केचिदित्यस्येति व्यवहरन्तीत्यनेनान्वयः ॥ धर्मिणोरिति ॥ धर्मयोः साम्यमात्रेण चमत्कारानिष्पत्तेस्तत्कृतबिम्बप्रतिबिम्बभावेन धर्मिणोः साम्यावगतिरिति भावः ॥ गर्भीकरोतीति ॥ स्वविशेषणत्वेन स्वीकरोतीत्यर्थः । दृष्टान्ततया बोधनस्यैव तत्र विवक्षितत्वात् । एतदेवोपपादयति -- बोधयन्त्रिनित्यादिना ॥ करीषं शुष्कगोमयं तस्यायंकारीषः । समर्थाचरणे समर्थकरणे । सामर्थ्योत्पादन इति यावत् । भावप्राधान्यात् । उपमानभावेन दृष्टान्तत्वेन । एवं प्रदर्शिते निदर्शनात्रये निदर्शनापदप्रवृत्तिनिमित्तस्यैकस्याभावान्नानार्थ एव निदर्शनाशब्द इति बोध्यम् ॥ ५५ ॥ ५६ ॥ इति निदर्शनालंकारप्रकरणम् ॥ १९॥
 
व्यतिरेकं लक्षयति -- व्यतिरेक इति ॥ विशेषो वैलक्षण्यम् । उपमेयस्याधिक्यमुत्कर्षः ॥ पल्लवत इति ॥ पञ्चम्यर्थे तसिल् । कल्पतरोः पल्लवतः पल्लवादेष वक्ष्यमाणस्ते तव करस्य विशेष इति सम्बन्धः । एकः पल्लवः परो हस्तः कर्णं राधेयं तिरस्कुरुते । दानातिशयेनेति भावः । अत्रोपमेयस्य करस्योत्कर्षः । पूर्वोदाहरणे उन्नतत्वेनौपम्यं शाब्दमिह तु रक्तवत्कोमलादिप्रयुक्तं तद्गम्यमिति भेदः ॥ तन्न्यूनत्वेति ॥ उपमेयन्यूनत्वेत्यर्थः ॥ रक्तस्त्वमिति ॥ अशोकवृक्षं प्रति विरहिणः कस्यचिदुक्तिः हे अशोक, आवयोः सर्वं तुल्यं समानम् । अहं केवलं धात्रा विधात्रा सशोकः शोकसहितः कृतः, त्वं तु शोकरहित इत्य-