This page has been fully proofread once and needs a second look.

६२
 
कुवलयानन्दः । [ व्यतिरेकालंकारः २०
 
त्तयोः साम्ये पर्यवस्यति । द्वितीय निदर्शनायामप्यन्यधर्मोऽन्यत्रासंसम्भवन्ध-
र्मिणोः साम्ये पर्यवस्यति । तृतीय निदर्शनायां तु स्वक्रियया परान्प्रति सद-
सदर्थबोधनं संसम्भवदेव समतां गर्भीकरोति । बोधयन् गृहमेधिन इत्यादौ हि
कारीपोऽग्निरध्यापयतीतिवत्समर्थाचरणे णिचः प्रयोगः । ततश्च यथा कारी-
षोऽग्निः शीतापनयनेन बटूनध्ययनसमर्थान्करोति एवं वर्ण्यमानः पर्वतः
स्वयमुपमानभावेन गृहमेधिन उक्तबोधनसमर्थान्कर्तुं क्षमते। यथायं पर्वतः
समागतं रविं शिरसा संसम्भावयत्येवं गृहमेधी समागतं सन्तमुचितपूजया
सं
सम्भावयेदिति । अतः संसम्भवति बोधन संसम्बन्ध इति ॥ ५५ ॥ ५६ ॥
 

 
---------------
 
व्यतिरेकालंकारः २०४
 

 
व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।

शैला इवोन्नताः सन्तः किंकिन्तु प्रकृतिकोमलाः ॥ ५७ ॥

 
अयमुपमेयाधिक्यपर्यवसायी व्यतिरेकः । यथावा-
-
 
--
 
पल्
लवतः कल्पतरोरेप विशेष: करस्य ते वीर ।

भूषयति कर्णमेकः परस्तु कर्णं तिरस्कुरुते ॥

 
तन्यूनत्वपर्यवसायी यथा
 
--
 
रक्तस्त्वं नवपल्लवैरहमपि श्लाध्घ्यैः प्रियाया गुण-
णै-
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्तथा मामपि ।
 
www..

 
[
com
 
mentary]
 
त्रयविषये केचिदित्यस्येति व्यवहरन्तीत्यनेनान्वयः ॥ धर्मिणोरिति ॥ धर्मयोः
साम्यमात्रेण चमत्कारा निष्पत्तेस्तत्कृतबिम्बप्रतिबिम्बभावेन धर्मिणोः साम्या-
वगतिरिति भावः ॥ गर्भीकरोतीति ॥ स्वविशेषणत्वेन स्वीकरोतीत्यर्थः ।
दृष्टान्ततया बोधनस्यैव तत्र विवक्षितत्वात् । एतदेवोपपादयति -- बोधयन्त्रि-
त्यादिना ॥ करीषं शुष्कगोमयं तस्यायंकारीषः । समर्थाचरणे समर्थकरणे ।
सामर्थ्योत्पादन इति यावत् । भावप्राधान्यात् । उपमानभावेन दृष्टान्तत्वेन ।
एवं प्रदर्शिते निदर्शनात्रये निदर्शनापदप्रवृत्तिनिमित्तस्यै कस्याभावान्नानार्थ एव
निदर्शनाशब्द इति बोध्यम् ॥ ५५ ॥ ५६ ॥ इति निदर्शनालंकारप्रकरणम् ॥ १९॥

 
व्यतिरेकं लक्षयति -- व्यतिरेक इति ॥ विशेषो वैलक्षण्यम् । उपमेयस्या-
धिक्यमुत्कर्षः ॥ पल्लवत इति ॥ पञ्चम्यर्थे तसिल् । कल्पतरोः पल् । कवतः पल्पतरोः पवतः पल-
वादेष वक्ष्यमाणस्ते तव करस्य विशेष इति संसम्बन्धः । एकः पल्लवः परो हस्तः
कर्ण
कर्णं राधेयं तिरस्कुरुते । दानातिशयेनेति भावः । अत्रोपमेयस्य करस्योत्कर्षः ।
पूर्वोदाहरणे उन्नतत्वेनौपम्यं शाब्दमिह तु रक्तवत्कोमलादिप्रयुक्तं तद्गम्यमिति
मे
भेदः ॥ तभ्न्न्यूनत्वेति ॥ उपमेयन्यूनत्वेत्यर्थः ॥ रक्तस्त्वमिति ॥ अशो-
कवृक्षं प्रति विरहिणः कस्यचिदुक्तिः हे अशोक, आवयोः सर्वं तुल्यं समानम् ।
अहं केवलं धात्रा विधात्रा सशोकः शोकसहितः कृतः, त्वं तु शोकरहित इत्य-
e