2023-02-17 12:58:48 by ambuda-bot
This page has not been fully proofread.
निदर्शनालंकारः १९ ] अलंकार चन्द्रिकासहितः ।
६१
णम् । तत्र नश्येदिति बोधयदिति वक्तव्ये बोधयदित्यस्य गम्यमानत्वादप्र-
योगः । ततश्च राज्ञा चन्द्रेण सह विरुध्य स्वयं नाशक्रियया विशिष्टं तमः
स्वकीयनाशक्रियया दृष्टान्तभूतया अन्योऽप्येवं राजविरुद्ध श्वेन्नइयेदित्यनिष्टप-
र्यवसायिनमर्थ बोधयदेव नष्टमिति निबन्धनादसदर्थनिदर्शना । तथा उत्तर-
श्लोके सविता स्वोदयसमय एव पद्मेषु लक्ष्मीमादधानः स्वया पद्मलक्ष्म्या
धानक्रियया परान्प्रति समृद्धीनां फलं सुहृदनुग्रह एवेति श्रेयस्करमर्थ बो-
धयन्निबद्ध इति सदर्थनिदर्शना ॥
यथावा-
उन्नतं पदमवाप्य यो लघुर्हेलयैव स पतेदिति ब्रुवन् ।
शैलशेखरगतः पृपद्द्वणश्चारुमारुतधुतः पतत्यधः ॥
अत्र गिरिशेखरगतो वृष्टिबिन्दुगणो मन्दमारुतमात्रेणापि कम्पितः पतन्
घोरुन्नतपदप्राप्तिः पतन हेतुरित्यस दर्थं बोधयन्निबद्ध इत्यसदर्थनिदर्शना ॥
चूडामणिपढ़े धत्ते यो देवं रविमागतम् ।
सतां कार्यातिथेयीति बोधयन्गृह मेधिनः ॥
अत्र समागतं रविं शिरसा संभावयन्नुदयाचल: स्वनिष्ठया रविधारणक्रि-
यया समागतानां सतामेवं गृहमेधिभिरातिथ्यं कार्यमिति सदर्थं बोधयन्नि-
बद्ध इति सदनिदर्शना । अत्र केचित् वाक्यार्थवृत्तिपदार्थवृत्तिनिदर्शना
द्वयमसंभवद्वस्तुसंबन्धनिबन्धनमिति, तृतीया तु संभवद्वस्तुसंबन्धनिबन्ध-
नेति च व्यवहरन्ति । तथाहि । आद्यनिदर्शनायां वाक्यार्थयोरैक्यमसंभव-
·
क्रिययेत्यनेन दृष्टान्तविधया बोधनस्य विवक्षितत्वात् । उक्तोदाहरणे च लिङ्ग-
विधया बोधकत्वेन तदभावात् । इत्थंच दृष्टान्ततया क्रियाविशिष्टस्यार्थबोध-
कत्वं वर्ण्यमानं निदर्शनेति पर्यवसितम् । नश्ये दिल्यत्र बोधनस्यावर्णनात्कथमु-
दाहरणत्वमत आह— तत्रेति ॥ उदाहरण इत्यर्थः । लक्ष्ये लक्षणं संगमयति
- ततश्चेति ॥ बोधनस्य गम्यमानत्वाचेत्यर्थः । दृष्टान्तभूतयेति ॥ दृष्टान्ते
स्वस्मिन् भूतया । विद्यमानयेत्यर्थः । दृष्टान्तो भूतः संजातो ययेति वा । एवं
तमोवच्चन्द्रस्यापि राजत्वं 'सोमो वै ब्राह्मणानां राजा' इत्यादिश्रुतिप्रसिद्धम् । अ-
निष्टपर्यवसायिनमर्थं नाशरूपानिष्टसाधनं राजविरुद्धत्वरूपमर्थम् ॥ उन्नतमिति ॥
यो लघुरल्पबुद्धिरल्पपरिमाणश्च स उन्नतं पदमुत्कर्षमुच्चस्थानं चावाप्य हेलयैव
पतेदिति ब्रुवन्कथयन् शैलशेखरगतो गिरिमस्तकवर्ती पृषद्द्वणो जलबिन्दुस-
मूहश्चारुणा मन्देनापि मारुतेन धुतः कम्पितोऽधः पतत्युत्कर्षाद्धीयते अधोदेशे
च पततीत्यर्थः । ध्रुवमिति पाठे बोधनस्य पूर्ववद्गम्यमानत्वादप्रयोगः । दृषत्कण
इति पाठे पाषाणकण इत्यर्थः ॥ चूडेति ॥ उदयाचल आगतं देवं रविं चूडा-
मणेः पदे स्थाने मस्तके धत्ते धारयति । किं कुर्वन् । गृहमेधिनो गृहस्थान्स-
सामातिथेयी कार्येति बोधयन् । आतिथेयी आतिथ्यम् । अत्र उक्तनिदर्शना-