This page has been fully proofread twice.

णम् । तत्र नश्येदिति बोधयदिति वक्तव्ये बोधयदित्यस्य गम्यमानत्वादप्रयोगः । ततश्च राज्ञा चन्द्रेण सह विरुध्य स्वयं नाशक्रियया विशिष्टं तमः स्वकीयनाशक्रियया दृष्टान्तभूतया अन्योऽप्येवं राजविरुद्धश्चेन्नश्येदित्यनिष्टपर्यवसायिनमर्थं बोधयदेव नष्टमिति निबन्धनादसदर्थनिदर्शना । तथा उत्तरश्लोके सविता स्वोदयसमय एव पद्मेषु लक्ष्मीमादधानः स्वया पद्मलक्ष्म्याधानक्रियया परान्प्रति समृद्धीनां फलं सुहृदनुग्रह एवेति श्रेयस्करमर्थं बोधयन्निबद्ध इति सदर्थनिदर्शना ॥
 
यथावा --
 
उन्नतं पदमवाप्य यो लघुर्हेलयैव स पतेदिति ब्रुवन् ।
शैलशेखरगतः पृषद्गणश्चारुमारुतधुतः पतत्यधः ॥
 
अत्र गिरिशेखरगतो वृष्टिबिन्दुगणो मन्दमारुतमात्रेणापि कम्पितः पतन् लघोरुन्नतपदप्राप्तिः पतनहेतुरित्यसदर्थं बोधयन्निबद्ध इत्यसदर्थनिदर्शना ॥
 
चूडामणिपदे धत्ते यो देवं रविमागतम् ।
सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥
 
अत्र समागतं रविं शिरसा सम्भावयन्नुदयाचल: स्वनिष्ठया रविधारणक्रियया समागतानां सतामेवं गृहमेधिभिरातिथ्यं कार्यमिति सदर्थं बोधयन्निबद्ध इति सदर्थनिदर्शना । अत्र केचित् वाक्यार्थवृत्तिपदार्थवृत्तिनिदर्शनाद्वयमसम्भवद्वस्तुसम्बन्धनिबन्धनमिति, तृतीया तु सम्भवद्वस्तुसम्बन्धनिबन्धनेति च व्यवहरन्ति । तथाहि । आद्यनिदर्शनायां वाक्यार्थयोरैक्यमसम्भव-
 
[commentary]
 
क्रिययेत्यनेन दृष्टान्तविधया बोधनस्य विवक्षितत्वात् । उक्तोदाहरणे च लिङ्गविधया बोधकत्वेन तदभावात् । इत्थंच दृष्टान्ततया क्रियाविशिष्टस्यार्थबोधकत्वं वर्ण्यमानं निदर्शनेति पर्यवसितम् । नश्येदित्यत्र बोधनस्यावर्णनात्कथमुदाहरणत्वमत आह -- तत्रेति ॥ उदाहरण इत्यर्थः । लक्ष्ये लक्षणं संगमयति -- ततश्चेति ॥ बोधनस्य गम्यमानत्वाच्चेत्यर्थः । दृष्टान्तभूतयेति ॥ दृष्टान्ते
स्वस्मिन् भूतया । विद्यमानयेत्यर्थः । दृष्टान्तो भूतः संजातो ययेति वा । एवं तमोवच्चन्द्रस्यापि राजत्वं 'सोमो वै ब्राह्मणानां राजा' इत्यादिश्रुतिप्रसिद्धम् । अनिष्टपर्यवसायिनमर्थं नाशरूपानिष्टसाधनं राजविरुद्धत्वरूपमर्थम् ॥ उन्नतमिति ॥ यो लघुरल्पबुद्धिरल्पपरिमाणश्च स उन्नतं पदमुत्कर्षमुच्चस्थानं चावाप्य हेलयैव पतेदिति ब्रुवन्कथयन् शैलशेखरगतो गिरिमस्तकवर्ती पृषद्गणो जलबिन्दुसमूहश्चारुणा मन्देनापि मारुतेन धुतः कम्पितोऽधः पतत्युत्कर्षाद्धीयते अधोदेशे च पततीत्यर्थः । ध्रुवमिति पाठे बोधनस्य पूर्ववद्गम्यमानत्वादप्रयोगः । दृषत्कण इति पाठे पाषाणकण इत्यर्थः ॥ चूडेति ॥ उदयाचल आगतं देवं रविं चूडामणेः पदे स्थाने मस्तके धत्ते धारयति । किं कुर्वन् । गृहमेधिनो गृहस्थान्सतामातिथेयी कार्येति बोधयन् । आतिथेयी आतिथ्यम् । अत्र उक्तनिदर्शना-