2023-04-22 10:16:54 by Bharadwajraki
This page has been fully proofread twice.
इति सावयवरूपकोदाहरणे । तत्रापि विषयविषयिणोस्तद्विशेषाणां च प्रत्येकमेवैक्यारोपो नतु ज्योत्स्नादिविशिष्टरात्रिरूपविषयस्य भस्मादिविशिष्टकापालिकीरूपविषयिणश्च विशिष्टरूपेणैक्यारोपोऽस्तीति । तस्माद्वाजसेवा मनुष्याणामित्यादावपि वाक्यार्थवृत्तिनिदर्शनैव युक्ता । मतान्तरे त्विह पदार्थवृत्त्यैव निदर्शनया भाव्यमिति ॥ ५४ ॥
अपरां बोधनं प्राहुः क्रिययाऽसत्सदर्थयोः ।
नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥ ५५ ॥
उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् ।
विभावय[^१]न्समृद्धीनां फलं सुहृदनुग्रहः ॥ ५६ ॥
कस्यचित्किंचित्क्रियाविशिष्टस्य स्वक्रियया परान्प्रत्यसतः सतो वार्थस्य बोधनं यन्निबध्यते तदुपरां निदर्शनामाहुः । असदर्थबोधने उत्तरार्धमुदाहर-
[commentary]
व्यवहार इति चण्डीदासः । मुद्रापरिमलशब्दौ प्रशंसार्थावित्यन्ये । मुद्रा चिह्नं तद्रूपे कपाल इति वार्थः । विषयविषयिणो रात्रिकापालिक्योः । तद्विशेषणानां तत्सम्बन्धिनां ज्योत्स्नाभस्मादीनां यथाश्रुते रात्रिकापालिकीति समासस्योत्तरपदार्थप्रधानतया ज्योत्स्नादीनां रात्रिविशेषणत्वाभावादसंगतेः ॥ प्रत्येकमेवेति ॥ शुद्धस्वरूपेणैवेत्यर्थः ॥ नत्विति ॥ उक्तयुक्त्या विशेषणत्वाभावादिति भावः । वस्तुतो भस्मादेः कापालिकीं प्रत्यपि न विशेषणत्वमपि तु तत्कोटिनिविष्टत्वमेवेत्यपि बोध्यम् । वाक्यार्थशब्दस्य बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टार्थपरत्वमङ्गीकृत्य राजसेवेत्युदाहरणे वाक्यार्थवृत्तिनिदर्शनावमुक्तमुपसंहरति -- तस्मादिति ॥ उक्तलक्षणस्य व्यवस्थितत्वादित्यर्थः ॥ मतान्तरे त्विति ॥ सदृशयोर्वाक्यार्थयोरैक्यारोप इति यथाश्रुतलक्षणाङ्गीकर्तृमते इत्यर्थः । इह राजसेवेत्युदाहरणे ॥ पदार्थवृत्त्यैवेति ॥ उपमाकल्पक एकपदार्थ अपरपदार्थतद्धर्मान्यतरारोप इति तल्लक्षणस्य तदभिमतत्वादिति भावः ॥ ५४ ॥ निदर्शनान्तरमाह -- अपरामिति ॥ पूर्व- विलक्षणामित्यर्थः । निदर्शनामित्यनुषज्यते । क्रिययाऽसत्सदर्थयोर्बोधनमपरां निदर्शनां प्राहुरिति सम्बन्धः । सदसदर्थयोरिति वक्तव्येऽपि छन्दोनुरोधादित्थमभिधानम् । 'समुद्राभ्राद्धः' इत्यादिसौत्रनिर्देशेन पूर्वनिपातविधेरनित्यत्वज्ञापनात् । लक्षणं व्याचष्टे -- कस्यचिदिति ॥ अत्रा-
सतः सतो वेति विभागकथनं नतु लक्षणान्तर्गतम् । उदासीनार्थबोधने चमत्कारित्वाभावेनैवानतिप्रसङ्गात् । स्वक्रियया सहकारिभूतया क्रियाविशिष्टस्य वस्तुनः सम्बन्ध्यर्थस्य बोधनं बोधानुकूलो व्यापारो यन्निबध्यते वर्ण्यते सा निदर्शनेति लक्षणम् । अथ 'निवातपद्मोदरसोदराभ्यां विलोचनाभ्यामवलोकयन्ती । न केवलं यूनि मनोभवेऽपि व्यनक्ति कंचित्तपसः प्रभावम् ॥' इत्यादावतिव्याप्तिः । अवलोकनक्रियाविशिष्टया कामिन्या तपःप्रभावबोधनस्य वर्णनादिति चेन्न ।
[^१] 'विभावनं समृद्धीनां'.
अपरां बोधनं प्राहुः क्रिययाऽसत्सदर्थयोः ।
नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥ ५५ ॥
उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् ।
विभावय[^१]न्समृद्धीनां फलं सुहृदनुग्रहः ॥ ५६ ॥
कस्यचित्किंचित्क्रियाविशिष्टस्य स्वक्रियया परान्प्रत्यसतः सतो वार्थस्य बोधनं यन्निबध्यते तदुपरां निदर्शनामाहुः । असदर्थबोधने उत्तरार्धमुदाहर-
[commentary]
व्यवहार इति चण्डीदासः । मुद्रापरिमलशब्दौ प्रशंसार्थावित्यन्ये । मुद्रा चिह्नं तद्रूपे कपाल इति वार्थः । विषयविषयिणो रात्रिकापालिक्योः । तद्विशेषणानां तत्सम्बन्धिनां ज्योत्स्नाभस्मादीनां यथाश्रुते रात्रिकापालिकीति समासस्योत्तरपदार्थप्रधानतया ज्योत्स्नादीनां रात्रिविशेषणत्वाभावादसंगतेः ॥ प्रत्येकमेवेति ॥ शुद्धस्वरूपेणैवेत्यर्थः ॥ नत्विति ॥ उक्तयुक्त्या विशेषणत्वाभावादिति भावः । वस्तुतो भस्मादेः कापालिकीं प्रत्यपि न विशेषणत्वमपि तु तत्कोटिनिविष्टत्वमेवेत्यपि बोध्यम् । वाक्यार्थशब्दस्य बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टार्थपरत्वमङ्गीकृत्य राजसेवेत्युदाहरणे वाक्यार्थवृत्तिनिदर्शनावमुक्तमुपसंहरति -- तस्मादिति ॥ उक्तलक्षणस्य व्यवस्थितत्वादित्यर्थः ॥ मतान्तरे त्विति ॥ सदृशयोर्वाक्यार्थयोरैक्यारोप इति यथाश्रुतलक्षणाङ्गीकर्तृमते इत्यर्थः । इह राजसेवेत्युदाहरणे ॥ पदार्थवृत्त्यैवेति ॥ उपमाकल्पक एकपदार्थ अपरपदार्थतद्धर्मान्यतरारोप इति तल्लक्षणस्य तदभिमतत्वादिति भावः ॥ ५४ ॥ निदर्शनान्तरमाह -- अपरामिति ॥ पूर्व
[^१] 'विभावनं समृद्धीनां'.