2023-02-17 12:58:48 by ambuda-bot
This page has not been fully proofread.
निदर्शनालंकारः १९ ] अलंकारचन्द्रिकासहितः
इत्यत्र
नाया न क्षतिः । तयोर्बिम्बप्रतिबिम्बभावापञ्नवस्तुविशिष्टव्यवहाररूपत्वात् ।
अतएव निदर्शनाया रूपकाद्भेद: रूपके ह्यविशिष्टयोरेव मुखचन्द्रादिकयो-
रैक्यारोपः ।
।
५९
प्रस्तुताप्रस्तुतवृत्तान्तयोरेकैकपदोपात्तत्वेऽपि वाक्यार्थवृत्तिनिदर्श-
'अङ्घ्रिदण्डो हरेरूर्ध्वमुत्क्षिप्तो बलिनिग्रहे ।
विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः ॥'
इति विशिष्ट रूपकोदाहरणेऽपि न बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्ट-
रूपता । विधिविष्टरकमलश्लिष्टत्वरूपसाधारणधर्मवत्तासंपादनार्थमेव तद्विशे-
षणोपादानात् । यहातुः सौम्यतेत्यादि निदर्शनोदाहरणेषु दातृपूर्णेन्द्वादीनामा-
नन्दकरत्वादिनेवात्र विशेषणयोर्बिम्बप्रतिबिम्बभावाभावात् । यत्रतु विषय-
विशेषणानां परस्परसादृश्येन बिम्बप्रतिबिम्बभावोऽस्ति ।
'ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी-
न्यन्तर्धान
व्यसनरसिका रात्रिकापालिकीयम् ।
द्वीपापं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ॥ '
-
रैक्यारोप इत्येव लक्षणमस्त्वित्याशङ्ख्याह–अतएवेति ॥ एतादृशविशेषण वि-
वक्षणादेवेत्यर्थः । भेदो व्यावृत्तिः । तथाच तदभावे रूपकेऽतिप्रसङ्गः
स्यादिति भावः । कथमनेन तद्वारणं तत्राह – रूपके इति ॥ अविशिष्टयोर्वि-
म्ब प्रतिबिम्बभावापन्नवस्त्वविशिष्टयोः । बिम्बप्रतिबिम्बभावापन्नेत्यस्य व्यावृत्तिं
दर्शयति – अङ्घ्रिदण्ड इत्यादि ॥ बलेदैत्यविशेषस्य निग्रहे बन्धने कर्तव्ये
ऊर्ध्वमुक्षिप्तो हरेरण्डो वो युष्माकं मुदेऽस्त्विति संबन्धः । कीदृशः । विधे-
ब्रह्मणो विटर आसनं तद्रूपस्य पद्मस्य नालदण्ड इत्यर्थः ॥ विशिष्टरूपकेति ॥
ऊर्ध्वोत्क्षिप्तत्व विशिष्टाङ्गिदण्ड विधि विष्टरपद्मसंबन्धित्व विशिष्टनालदण्डसंबन्धिरूप-
केत्यर्थः ॥ विशेषणेति ॥ ऊर्ध्वोत्क्षिप्तत्व रूपोपमेय विशेषण विधि विष्टरपद्मसं-
बन्धित्वरूपोपमानविशेषणयोरित्यर्थः । एवकारसूचितबिम्ब प्रतिबिम्बभावव्यति-
रेकं स्फुटयति – यद्दातुरिति ॥ अभावादिति ॥ सादृश्याभावादिति भा
वः । रूपकविशेषेऽतिव्याप्तिमाशय परिहरति – यत्रत्वित्यादिना ॥ यत्र
वित्यस्य इति सावयवरूपकोदाहरणे इत्यग्रेतनेनान्वयः । विषय विषयिविशेषणा-
नामारोपविषयारोप्यमाणसंबन्धिनां विशेषणानाम् ॥ ज्योत्स्नेति ॥ इयं रात्रि-
रेव कापालिकी योगिनी द्वीपाद्वीपान्तरं भ्रमतीत्यन्वयः । एतत्प्रधानरूपकम् ।
एतदङ्गभूतान्यपराणि विशेषणैः प्रतिपाद्यन्ते । यथा ज्योत्स्नारूपेण भस्मना छु-
रणमङ्गलेपस्तेन धवला तारकारूपाण्यस्थीनि बिभ्रती अन्तर्धानस्य व्यसने कौ-
तुके रसिका चन्द्ररूपे मुद्राकपाले न्यस्तं लाञ्छनस्य छलेन सिद्धाञ्जनस्य परिमलं
चूर्ण दधती धारयन्ती । दीक्षाकालगृहीतोपकरणेषु मुद्रोपपदनाम्ना पाखण्डानां
-
१ 'अस्तु न: ' . २ 'विशिष्टरूपक'.