2023-04-22 10:05:28 by Bharadwajraki
This page has been fully proofread twice.
इत्यत्र प्रस्तुताप्रस्तुतवृत्तान्तयोरेकैकपदोपात्तत्वेऽपि वाक्यार्थवृत्तिनिदर्शनाया न क्षतिः । तयोर्बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टव्यवहाररूपत्वात् । अतएव निदर्शनाया रूपकाद्भेद: रूपके ह्यविशिष्टयोरेव मुखचन्द्रादिकयोरैक्यारोपः ।
'अङ्घ्रिदण्डो हरेरूर्ध्वमुत्क्षिप्तो बलिनिग्रहे ।
विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः[^१] ॥'
इति विशिष्टे[^२] रूपकोदाहरणेऽपि न बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टरूपता । विधिविष्टरकमलश्लिष्टत्वरूपसाधारणधर्मवत्तासंपादनार्थमेव तद्विशेषणोपादानात् । यद्दातुः सौम्यतेत्यादिनिदर्शनोदाहरणेषु दातृपूर्णेन्द्वादीनामानन्दकरत्वादिनेवात्र विशेषणयोर्बिम्बप्रतिबिम्बभावाभावात् । यत्रतु विषयविशेषणानां परस्परसादृश्येन बिम्बप्रतिबिम्बभावोऽस्ति ।
'ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी-
न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् ।
द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ॥'
[commentary]
रैक्यारोप इत्येव लक्षणमस्त्वित्याशङ्क्याह -- अतएवेति ॥ एतादृशविशेषणविवक्षणादेवेत्यर्थः । भेदो व्यावृत्तिः । तथाच तदभावे रूपकेऽतिप्रसङ्गः स्यादिति भावः । कथमनेन तद्वारणं तत्राह -- रूपके इति ॥ अविशिष्टयोर्विबिम्बप्रतिबिम्बभावापन्नवस्त्वविशिष्टयोः ।बिम्बप्रतिबिम्बभावापन्नेत्यस्य व्यावृत्तिं दर्शयति – अङ्घ्रिदण्ड इत्यादि ॥ बलेर्दैत्यविशेषस्य निग्रहे बन्धने कर्तव्ये ऊर्ध्वमुक्षिप्तो हरेरङ्घ्रिदण्डो वो युष्माकं मुदेऽस्त्विति सम्बन्धः । कीदृशः । विधेर्ब्रह्मणो विष्टर आसनं तद्रूपस्य पद्मस्य नालदण्ड इत्यर्थः ॥ विशिष्टरूपकेति ॥
ऊर्ध्वोत्क्षिप्तत्वविशिष्टाङ्गिघ्रिदण्डविधिविष्टरपद्मसम्बन्धित्वविशिष्टनालदण्डसम्बन्धिरूपकेत्यर्थः ॥ विशेषणेति ॥ ऊर्ध्वोत्क्षिप्तत्वरूपोपमेयविशेषणविधिविष्टरपद्मसम्बन्धित्वरूपोपमानविशेषणयोरित्यर्थः । एवकारसूचितबिम्बप्रतिबिम्बभावव्यतिरेकं स्फुटयति -- यद्दातुरिति ॥ अभावादिति ॥ सादृश्याभावादिति भावः । रूपकविशेषेऽतिव्याप्तिमाशङ्क्य परिहरति -- यत्रत्वित्यादिना ॥ यत्र त्वित्यस्य इति सावयवरूपकोदाहरणे इत्यग्रेतनेनान्वयः । विषयविषयिविशेषणा-नामारोपविषयारोप्यमाणसम्बन्धिनां विशेषणानाम् ॥ ज्योत्स्नेति ॥ इयं रात्रिरेव कापालिकी योगिनी द्वीपाद्द्वीपान्तरं भ्रमतीत्यन्वयः । एतत्प्रधानरूपकम् । एतदङ्गभूतान्यपराणि विशेषणैः प्रतिपाद्यन्ते । यथा ज्योत्स्नारूपेण भस्मना छुरणमङ्गलेपस्तेन धवला तारकारूपाण्यस्थीनि बिभ्रती अन्तर्धानस्य व्यसने कौतुके रसिका चन्द्ररूपे मुद्राकपाले न्यस्तं लाञ्छनस्य छलेन सिद्धाञ्जनस्य परिमलं चूर्णं दधती धारयन्ती । दीक्षाकालगृहीतोपकरणेषु मुद्रोपपदनाम्ना पाखण्डानां
[^१] 'अस्तुन:नः'.
[^२] 'विशिष्टरूपक'
.
'अङ्घ्रिदण्डो हरेरूर्ध्वमुत्क्षिप्तो बलिनिग्रहे ।
विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः[^१] ॥'
इति विशिष्टे[^२] रूपकोदाहरणेऽपि न बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टरूपता । विधिविष्टरकमलश्लिष्टत्वरूपसाधारणधर्मवत्तासंपादनार्थमेव तद्विशेषणोपादानात् । यद्दातुः सौम्यतेत्यादिनिदर्शनोदाहरणेषु दातृपूर्णेन्द्वादीनामानन्दकरत्वादिनेवात्र विशेषणयोर्बिम्बप्रतिबिम्बभावाभावात् । यत्रतु विषयविशेषणानां परस्परसादृश्येन बिम्बप्रतिबिम्बभावोऽस्ति ।
'ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी-
न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् ।
द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ॥'
[commentary]
रैक्यारोप इत्येव लक्षणमस्त्वित्याशङ्क्याह -- अतएवेति ॥ एतादृशविशेषणविवक्षणादेवेत्यर्थः । भेदो व्यावृत्तिः । तथाच तदभावे रूपकेऽतिप्रसङ्गः स्यादिति भावः । कथमनेन तद्वारणं तत्राह -- रूपके इति ॥ अविशिष्टयोर्
ऊर्ध्वोत्क्षिप्तत्वविशिष्टाङ्
[^१] 'अस्तु
[^२] 'विशिष्टरूपक'