This page has not been fully proofread.

कुवलयानन्दः । [ निदर्शनालंकारः १९
 
'त्वयि सति शिव दातर्यस्मदभ्यर्थिताना-
मितरमनुसरन्तो दर्शयन्तोऽर्थिमुद्राम् ।
चरमचरणपातै दुर्ग्रहं दोग्धुकामाः
 
करभमनुसरामः कामधेनौ स्थितायाम् ॥'
'दोर्भ्यामब्धि तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम् ॥'
 
इत्यादिषु वाक्यभेदाभावेऽपि वाक्यार्थवृत्तिरेव निदर्शना । विशिष्टयोरै-
क्यारोपसद्भावात् । वाक्यार्थयोः सदृशयोरिति लक्षणांवयवे वाक्यार्थशब्देन
बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टस्वरूपयोः प्रस्तुता प्रस्तुतधर्मयोर्विवक्षित-
स्वादिति । एवंच -
 
'राजसेवा मनुष्याणामसिधारावलेहनम् ।
पञ्चाननपरिष्वङ्गो व्यालीवदनचुम्बनम् ॥'
 
नम् । नत्वेवंरूपेण लक्षणे निवेशः । ताद्रूप्यरूपकातिव्याप्तिवारणायोपमा-
कल्पकत्वस्यारोपविशेषणस्यावश्यकत्वेनोप माकल्पकस्तत्तद्धर्मारोप इत्येतावत एव
लक्षणस्य निर्दुष्टत्वात् । तदुक्तम् – 'अभवन्वस्तुसंबन्ध उपमापरिकल्पकः' इति ।
ताद्रूप्यरूपके तु ताद्रूप्यावच्छिन्नाभेद एव विवक्षितो न पुनरुपमेति तद्वारणम् ।
ननु त्वयि सतीत्याद्युदाहरणे कापि निदर्शना न स्यादन्यधर्मस्यान्यत्रारोपात्,
एकवाक्यत्वेन वाक्यार्थभेदाभावाच्च, पदार्थवाक्यार्थनिदर्शनयोरसंभवादित्याश-
ङ्ख्याह – एवं चेति ॥ उक्तव्यवस्थाश्रयणे चेत्यर्थः ॥ विशिष्टयोरिति ॥
बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टयोरित्यर्थः । तत्र तावत्पूर्वपद्ये भोः शिव,
अस्मदभ्यर्थितानां दातरि त्वयि सति इतरं क्षुद्रं प्रभुमनुसरन्तोऽर्थिनां मुद्रां
चिह्नं दर्शयन्तो वयं कामधेनौ स्थितायां दोग्धुकामाश्चरमयोः पाश्चात्त्ययोश्चरण-
योः पातैर्दुर्ब्रहं दुःखेन ग्राह्यं करभमुष्ट्रशिशुमनुसराम इत्यर्थके सकलकामदम-
हेश्वरकालीन क्षुद्रधनिकानुसरणकर्तुः कामधेनुस्थितिकालीन तथाविधकरभानुसर-
णकर्तुश्चैक्यारोपः । तत्रोपमानकोटिविशेषणयोः कामधेनुकरभयोरुपमेयकोटि-
विशेषणयोश्च महेश्वरक्षुद्रधनिकयोर्यथाक्रमं विम्बप्रतिबिम्वभावो बोध्यः । एवम-
नुसरणयोरपि । एवं दोर्भ्यामित्यत्राप्यव्विगुणसमूहयोर्बिम्ब प्रतिबिम्बभावो बो-
ध्यः ॥ नन्वियं व्यवस्था मूलविरुद्धेत्याशङ्कयाह – वाक्यार्थयोरिति ॥ ननु
वाक्यार्थशब्दस्यावान्तरवाक्यार्थसाधारणानेकपदार्थपरत्वेनैवोक्तोदाहरणसंग्रह-
संभवादेवंविधगुरुतरार्थपरत्वं न युक्तमित्यत आह - एवं चेति ॥ एवंविधार्थवि-
वक्षणे चेत्यर्थः । अवलेहनं जिह्वया घट्टनम् । पञ्चाननः सिंहस्तस्य परिष्वङ्ग
आलिङ्गनम् । व्याली भुजङ्गी । अशक्यत्वं बलवदनिष्टजनकत्वं च सा-
धारणो धर्मः । प्रस्तुतवृत्तान्तो राजसेवा । निदर्शनायास्तलक्षणस्य न क्षतिर्ना-
च्याप्तिः । तयोः प्रस्तुताप्रस्तुतवृत्तान्तयोः असिधारादिभिः समं राज्ञो
बिम्बप्रतिबिम्बभावात्तद्विशिष्टयोश्चैक्यारोपादिति भावः । एवं तर्हि सदृशयो-
१' लक्षणवाक्ये'.