This page has been fully proofread twice.

'त्वयि सति शिव दातर्यस्मदभ्यर्थिताना-
मितरमनुसरन्तो दर्शयन्तोऽर्थिमुद्राम् ।
चरमचरणपातैदुर्ग्रहं दोग्धुकामाः
करभमनुसरामः कामधेनौ स्थितायाम् ॥'

'दोर्भ्यामब्धिं तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम् ॥'
 
इत्यादिषु वाक्यभेदाभावेऽपि वाक्यार्थवृत्तिरेव निदर्शना । विशिष्टयोरैक्यारोपसद्भावात् । वाक्यार्थयोः सदृशयोरिति लक्षणा[^१]वयवे वाक्यार्थशब्देन बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टस्वरूपयोः प्रस्तुताप्रस्तुतधर्मयोर्विवक्षितत्वादिति । एवंच --
 
'राजसेवा मनुष्याणामसिधारावलेहनम् ।
पञ्चाननपरिष्वङ्गो व्यालीवदनचुम्बनम् ॥'
 
[commentary]
 
नम् । नत्वेवंरूपेण लक्षणे निवेशः । ताद्रूप्यरूपकातिव्याप्तिवारणायोपमा-कल्पकत्वस्यारोपविशेषणस्यावश्यकत्वेनोपमाकल्पकस्तत्तद्धर्मारोप इत्येतावत एव लक्षणस्य निर्दुष्टत्वात् । तदुक्तम् -- 'अभवन्वस्तुसम्बन्ध उपमापरिकल्पकः' इति । ताद्रूप्यरूपके तु ताद्रूप्यावच्छिन्नाभेद एव विवक्षितो न पुनरुपमेति तद्वारणम् । ननु त्वयि सतीत्याद्युदाहरणे कापि निदर्शना न स्यादन्यधर्मस्यान्यत्रारोपात्, एकवाक्यत्वेन वाक्यार्थभेदाभावाच्च, पदार्थवाक्यार्थनिदर्शनयोरसम्भवादित्याशङ्क्याह -- एवंचेति ॥ उक्तव्यवस्थाश्रयणे चेत्यर्थः ॥ विशिष्टयोरिति ॥ बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टयोरित्यर्थः । तत्र तावत्पूर्वपद्ये भोः शिव,
अस्मदभ्यर्थितानां दातरि त्वयि सति इतरं क्षुद्रं प्रभुमनुसरन्तोऽर्थिनां मुद्रां चिह्नं दर्शयन्तो वयं कामधेनौ स्थितायां दोग्धुकामाश्चरमयोः पाश्चात्त्ययोश्चरणयोः पातैर्दुर्ग्रहं दुःखेन ग्राह्यं करभमुष्ट्रशिशुमनुसराम इत्यर्थके सकलकामदमहेश्वरकालीनक्षुद्रधनिकानुसरणकर्तुः कामधेनुस्थितिकालीनतथाविधकरभानुसरणकर्तुश्चैक्यारोपः । तत्रोपमानकोटिविशेषणयोः कामधेनुकरभयोरुपमेयकोटिविशेषणयोश्च महेश्वरक्षुद्रधनिकयोर्यथाक्रमं विबिम्बप्रतिबिम्वभावो बोध्यः । एवमनुसरणयोरपि । एवं दोर्भ्यामित्यत्राप्यब्धिगुणसमूहयोर्बिम्बप्रतिबिम्बभावो बोध्यः ॥ नन्वियं व्यवस्था मूलविरुद्धेत्याशङ्कयाह -- वाक्यार्थयोरिति ॥ ननु वाक्यार्थशब्दस्यावान्तरवाक्यार्थसाधारणानेकपदार्थपरत्वेनैवोक्तोदाहरणसंग्रह-सम्भवादेवंविध-
गुरुतरार्थपरत्वं न युक्तमित्यत आह -- एवंचेति ॥ एवंविधार्थविवक्षणे चेत्यर्थः । अवलेहनं जिह्वया घट्टनम् । पञ्चाननः सिंहस्तस्य परिष्वङ्ग आलिङ्गनम् । व्याली भुजङ्गी । अशक्यत्वं बलवदनिष्टजनकत्वं च साधारणो धर्मः । प्रस्तुतवृत्तान्तो राजसेवा । निदर्शनायास्तल्लक्षणस्य न क्षतिर्नाच्व्याप्तिः । तयोः प्रस्तुताप्रस्तुतवृत्तान्तयोः असिधारादिभिः समं राज्ञो बिम्बप्रतिबिम्बभावात्तद्विशिष्टयोश्चैक्यारोपादिति भावः । एवं तर्हि सदृशयो-
 
[^१] 'लक्षणवाक्ये'.