This page has not been fully proofread.

निदर्शनालंकारः १९ ] अलंकारचन्द्रिकासहितः ।
 
५७
 
अनाबुधजनसेवाया अरण्यरोदनादीनां यत्तच्या मैक्यारोपः ॥ ५३ ॥
पदार्थवृत्तिमप्येके वदन्त्यन्यां निदर्शनाम् ।
त्वनेत्रयुगुलं धत्ते लीलां नीलाम्बुजन्मनोः ॥ ५४ ॥
 
अत्र नेत्रयुगुले नीलाम्बुजगतलीलापदार्थारोपो निदर्शना । यथावा-
वियोगे गौडनारीणां यो गण्डतलपाण्डिमा ।
 
अदृश्यत स खर्जूरीमञ्जरीगर्भरेणुषु ॥
 
पूर्वस्मिन्नुदाहरणे उपमेये उपमानधर्मारोप इह तूपमाने उपमेयधर्मारोप
इति भेदः । उभयत्राप्यन्यधर्मस्यान्यत्रासंभवेन तत्सदृशधर्माक्षेपादौपम्ये
पर्यवसानं तुल्यम् । इयं पदार्थवृत्तिनिदर्शना ललितोपमेति जयदेवेन व्या-
हृता । यद्यपि वियोगे गौडनारीणामिति श्लोकः प्राचीनैर्वाक्यार्थवृत्तिनिदर्शना-
यामुदाहृतस्तथापि विशिष्टयोर्धर्मयोरैक्यारोपो वाक्यार्थवृत्तिनिदर्शना ।
उपमानोपमेययोरन्यतरस्मिन्नन्यतरधर्मारोपः पदार्थवृत्तिनिदर्शनेति व्यवस्था-
माश्रित्यास्माभिरिहोदाहृतः । एवंच ।
 
-
 
र्पणम् । स्थले निर्जलप्रदेशे । अब्जं जलजम् । ऊषरे अङ्कुरायोग्यक्षारभूभागे ।
शुनः पुच्छं श्वपुच्छमवनामितमृजुतासंपादनाय नम्रीकृतम् । बधिरस्य कर्णे जप
एव जापः । प्रलाप इत्यर्थः । अन्धस्य मुखे तत्संमुखं दर्पणो धृतः । इत्येवं निर
र्थकत्वेन सदृशानाम नेकेषां वाक्यार्थानामबुधजन सेवन रूपप्रकृतवाक्यार्थे ऐक्या-
रोपः पूर्वत्र त्वेकस्यैवैक्यारोप इति विशेषः ॥ ५३ ॥
 
दार्थेति ॥ पदार्थवृत्तिं पदार्थसंबन्धिनीम् । एके आलंकारिकाः । अन्यां पूर्वो
तलक्षणाम् ॥ त्वन्नेत्रेति ॥ लीलां शोभाम् । नीलाम्वुजन्मनोनीलोत्पलयोः ॥
वियोग इति ॥ गौडदेशगतानां नारीणां वियोगे स्वकान्तवियोगकाले यो ग
ण्डतले पाण्डिमा पाण्डुवर्णो भवति स खर्जूरीणां लतानां मञ्जरीगर्भस्थेषु रेणुष्व-
दृश्यत दृष्ट इत्यन्वयः । उपमाने यथोक्तरेणुरूपे उपमेये उपमानधर्मारोप एव
पदार्थनिदर्शनायाः प्राचीनैरुदाहरणात्कथमियं पदार्थनिदर्शनोच्यत इति शङ्का-
यामाह — उभयत्रेति ॥ उपमेये उपमानधर्मारोपे उपमाने उपमेयधर्मारोपे
चेत्यर्थः । तथा चौपम्यपर्यवसायित्वस्यैव पदार्थ निदर्शनाजीवातुत्वेनारोपविषय-
स्योपमेयत्वेन निवेशे प्रयोजनाभावादिहापि सा युक्तैवेति भावः । नन्वेवं सति
वाक्यार्थनिदर्शनालक्षणस्यात्रातिव्याप्तिरित्याशयवानाह– यद्यपीति । वियोग-
कालीनगौडनारीगण्डतलपाण्डिनः खर्जूरीमञ्जरीगर्भरेणुदृष्टपाण्डिम्नश्च यत्तद्भ्या-
मैक्यारोपसत्त्वादिति भावः । अर्थविशेषविवक्षयातिव्याप्तिं परिहरन्नेव स्वाभिम
तनिदर्शनाद्वयविषयविभागं दर्शयति- तथापीति ॥ विशिष्टयोर्बिम्बप्रतिबि
म्बभावापन्नधर्म विशिष्टयोः । एवंच वाक्यार्थशब्देनैतादृशार्थविवक्षणाद्वियोग
इत्यायुदाहरणे नातिव्याप्तिरिति भावः ॥ उपमानेत्यादि ॥ एतच्च स्वरूपकथ-
१ 'गर्भामप्यन्ये '.
 
कुव० ७
 
C
 
-