2023-04-22 09:41:46 by Bharadwajraki
This page has been fully proofread twice.
अत्राबुधजनसेवाया अरण्यरोदनादीनां यत्तच्याद्भ्द्यामैक्यारोपः ॥ ५३ ॥
पदार्थ[^१]वृत्तिमप्येके वदन्त्यन्यां निदर्शनाम् ।
त्वन्नेत्रयुगुलं धत्ते लीलां नीलाम्बुजन्मनोः ॥ ५४ ॥
अत्र नेत्रयुगुले नीलाम्बुजगतलीलापदार्थारोपो निदर्शना । यथावा --
वियोगे गौडनारीणां यो गण्डतलपाण्डिमा ।
अदृश्यत स खर्जूरीमञ्जरीगर्भरेणुषु ॥
पूर्वस्मिन्नुदाहरणे उपमेये उपमानधर्मारोप इह तूपमाने उपमेयधर्मारोप इति भेदः । उभयत्राप्यन्यधर्मस्यान्यत्रासम्भवेन तत्सदृशधर्माक्षेपादौपम्ये पर्यवसानं तुल्यम् । इयं पदार्थवृत्तिनिदर्शना ललितोपमेति जयदेवेन व्याहृता । यद्यपि वियोगे गौडनारीणामिति श्लोकः प्राचीनैर्वाक्यार्थवृत्तिनिदर्शनायामुदाहृतस्तथापि विशिष्टयोर्धर्मयोरैक्यारोपो वाक्यार्थवृत्तिनिदर्शना । उपमानोपमेययोरन्यतरस्मिन्नन्यतरधर्मारोपः पदार्थवृत्तिनिदर्शनेति व्यवस्थामाश्रित्यास्माभिरिहोदाहृतः । एवंच ।
[commentary]
र्पणम् । स्थले निर्जलप्रदेशे । अब्जं जलजम् । ऊषरे अङ्कुरायोग्यक्षारभूभागे । शुनः पुच्छं श्वपुच्छमवनामितमृजुतासम्पादनाय नम्रीकृतम् । बधिरस्य कर्णे जप एव जापः । प्रलाप इत्यर्थः । अन्धस्य मुखे तत्संमुखं दर्पणो धृतः । इत्येवं निरर्थकत्वेन सदृशानामनेकेषां वाक्यार्थानामबुधजनसेवनरूपप्रकृतवाक्यार्थे ऐक्यारोपः पूर्वत्र त्वेकस्यैवैक्यारोप इति विशेषः ॥ ५३ ॥ पदार्थेति ॥ पदार्थवृत्तिं पदार्थसम्बन्धिनीम् । एके आलंकारिकाः । अन्यां पूर्वोक्तलक्षणाम् ॥ त्वन्नेत्रेति ॥ लीलां शोभाम् । नीलाम्वुबुजन्मनोर्नीलोत्पलयोः ॥ वियोग इति ॥ गौडदेशगतानां नारीणां वियोगे स्वकान्तवियोगकाले यो गण्डतले पाण्डिमा पाण्डुवर्णो भवति स खर्जूरीणां लतानां मञ्जरीगर्भस्थेषु रेणुष्वदृश्यत दृष्ट इत्यन्वयः । उपमाने यथोक्तरेणुरूपे उपमेये उपमानधर्मारोप एव पदार्थनिदर्शनायाः प्राचीनैरुदाहरणात्कथमियं पदार्थनिदर्शनोच्यत इति शङ्कायामाह -- उभयत्रेति ॥ उपमेये उपमानधर्मारोपे उपमाने उपमेयधर्मारोपे चेत्यर्थः । तथा चौपम्यपर्यवसायित्वस्यैव पदार्थनिदर्शनाजीवातुत्वेनारोपविषयस्योपमेयत्वेन निवेशे प्रयोजनाभावादिहापि सा युक्तैवेति भावः । नन्वेवं सति वाक्यार्थनिदर्शनालक्षणस्यात्रातिव्याप्तिरित्याशयवानाह -- यद्यपीति । वियोग-कालीनगौडनारीगण्डतलपाण्डिम्नः खर्जूरीमञ्जरीगर्भरेणुदृष्टपाण्डिम्नश्च यत्तद्भ्या-मैक्यारोपसत्त्वादिति भावः । अर्थविशेषविवक्षयातिव्याप्तिं परिहरन्नेव स्वाभिमतनिदर्शनाद्वयविषयविभागं दर्शयति -- तथापीति ॥ विशिष्टयोर्बिम्बप्रतिबि-
म्बभावापन्नधर्म विशिष्टयोः । एवंच वाक्यार्थशब्देनैतादृशार्थविवक्षणाद्वियोग इत्याद्युहरणे नातिव्याप्तिरिति भावः ॥ उपमानेत्यादि ॥ एतच्च स्वरूपकथ-
[^१] 'गर्भामप्यन्ये'.
कुव० ७
पदार्थ[^१]वृत्तिमप्येके वदन्त्यन्यां निदर्शनाम् ।
त्वन्नेत्रयुगुलं धत्ते लीलां नीलाम्बुजन्मनोः ॥ ५४ ॥
अत्र नेत्रयुगुले नीलाम्बुजगतलीलापदार्थारोपो निदर्शना । यथावा --
वियोगे गौडनारीणां यो गण्डतलपाण्डिमा ।
अदृश्यत स खर्जूरीमञ्जरीगर्भरेणुषु ॥
पूर्वस्मिन्नुदाहरणे उपमेये उपमानधर्मारोप इह तूपमाने उपमेयधर्मारोप इति भेदः । उभयत्राप्यन्यधर्मस्यान्यत्रासम्भवेन तत्सदृशधर्माक्षेपादौपम्ये पर्यवसानं तुल्यम् । इयं पदार्थवृत्तिनिदर्शना ललितोपमेति जयदेवेन व्याहृता । यद्यपि वियोगे गौडनारीणामिति श्लोकः प्राचीनैर्वाक्यार्थवृत्तिनिदर्शनायामुदाहृतस्तथापि विशिष्टयोर्धर्मयोरैक्यारोपो वाक्यार्थवृत्तिनिदर्शना । उपमानोपमेययोरन्यतरस्मिन्नन्यतरधर्मारोपः पदार्थवृत्तिनिदर्शनेति व्यवस्थामाश्रित्यास्माभिरिहोदाहृतः । एवंच ।
[commentary]
र्पणम् । स्थले निर्जलप्रदेशे । अब्जं जलजम् । ऊषरे अङ्कुरायोग्यक्षारभूभागे । शुनः पुच्छं श्वपुच्छमवनामितमृजुतासम्पादनाय नम्रीकृतम् । बधिरस्य कर्णे जप एव जापः । प्रलाप इत्यर्थः । अन्धस्य मुखे तत्संमुखं दर्पणो धृतः । इत्येवं निरर्थकत्वेन सदृशानामनेकेषां वाक्यार्थानामबुधजनसेवनरूपप्रकृतवाक्यार्थे ऐक्यारोपः पूर्वत्र त्वेकस्यैवैक्यारोप इति विशेषः ॥ ५३ ॥ पदार्थेति ॥ पदार्थवृत्तिं पदार्थसम्बन्धिनीम् । एके आलंकारिकाः । अन्यां पूर्वोक्तलक्षणाम् ॥ त्वन्नेत्रेति ॥ लीलां शोभाम् । नीलाम्
[^१] 'गर्भामप्यन्ये'.
कुव० ७