2023-04-22 09:31:59 by Bharadwajraki
This page has been fully proofread twice.
धस्तलावधि संस्पर्शमात्रस्य विवक्षितत्वात् । अत्रोदाहरणे पदावृत्तिदीपकाद्विशेषः पूर्ववत्प्रस्तुताप्रस्तुतविषयत्वकृतो दृष्टव्यः । वैधर्म्येणाप्ययं दृश्यते ।
कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः ।
तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम् ॥ ५२ ॥
----------------
निदर्शनालंकारः १९
वाक्यार्थयोः सदृशयोरैक्यारोपो[^१] निदर्शना ।
यद्दा[^२] तुः सौम्यता सेयं पूर्णेन्दोरकलङ्किता ॥ ५३ ॥
अत्र दातृपुरुषसौम्यत्वस्योपमेयवाक्यार्थस्य पूर्णेन्दोरकलङ्कत्वस्योपमानवाक्यार्थस्य यत्तद्भ्द्यामैक्यारोपः ॥ यथावा --
अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् ।
श्वपुच्छमवनामितं बधिरकर्णजापः कृतो
धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥
[commentary]
समाधत्ते -- अत्रेति ॥ पूर्ववत् अर्थावृत्तिप्रतिवस्तूपमयोरिव । प्रस्तुताप्रस्तुतेति दृष्टान्तः प्रस्तुता- प्रस्तुतविषयः, पदावृत्तिस्तु तदन्यतरमात्र विषयेत्यर्थः । यद्यप्यत्रात्मनेपदपरस्मैपदभेदेन पदभेदान्न पदावृत्तिशङ्कोचिता, तथापि पाठपरिवर्तनेन पदाभेदेऽपि न पदावृत्तेरयं विषय इति बोधयितुमेतदुक्तम् । अयं दृष्टान्तः ॥ कृतं चेति ॥ नृपं प्रति मन्त्रिण उक्तिः । हे राजन्, त्वया मनो गर्वस्याभिमुखं न तु गर्वितं कृतं च । किमन्यदपेक्षितमिति शेषः । एवं शस्त्रप्रयोगादिकं
विना नोऽस्माकं द्विषः शत्रवो निहताश्च न तु निहनिष्यन्ते । अंशुमान् सूर्यो यावदुदयाद्रेर्मौलितां शिरोलंकारतां नायाति तावदेव तमांसि तिष्ठन्ति तस्मिंस्तु तथाभूते न तिष्ठन्तीति दृष्टान्तः । अत्र मनोगर्वाभिमुखीकरणवैरिहननयोरंशुमदुदयाचलमस्तकानागमनतमःस्थित्योश्च यथाक्रमं वैधर्म्येण विम्बप्रतिबिम्बभावः ॥ ५२ ॥ इति दृष्टान्तालंकारप्रकरणम् ॥ १८ ॥
निदर्शनां लक्षयति -- वाक्यार्थयोरिति ॥ सदृशवाक्यार्थसंबन्धी य ऐक्यारोपः, उपमेयवाक्यार्थे उपमानवाक्यार्थाभेदारोप इति यावत् ॥ यद्दातुरिति ॥ दातुः सौम्यतेति यदिति सामान्ये नपुंसकम् । सेयमिति विधेयाभिप्रायकं स्त्रीलिङ्गम् ॥ यत्तद्भ्यामिति ॥ यद्यपि मुखं चन्द्र इतिवद्दातुः सौम्यता पूर्णेन्दोरकलङ्कतेत्येतावताप्यैक्यारोपः सम्भवति तथापि यत्तद्भ्यां शीघ्रं स्फुटतया तदवगमात्तदुपन्यासः ॥ अरण्येति ॥ अवुबुधो मूर्खो जनः सेवितः । यदिति गुणीभूतसेवनक्रियापरामर्शः । उत्तरवाक्यगतेन यच्छब्देन तच्छब्दाक्षेपात् । तदरण्यरुदितं कृतमित्याद्यन्वयः । उद्वर्तनं यवगोधूमादिचूर्णेन मलापक-
[^१] 'आरोपे निदर्शना'.
[^२] 'वा दातु: तुः'.
कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः ।
तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम् ॥ ५२ ॥
----------------
निदर्शनालंकारः १९
वाक्यार्थयोः सदृशयोरैक्यारोपो[^१] निदर्शना ।
यद्दा[^२] तुः सौम्यता सेयं पूर्णेन्दोरकलङ्किता ॥ ५३ ॥
अत्र दातृपुरुषसौम्यत्वस्योपमेयवाक्यार्थस्य पूर्णेन्दोरकलङ्कत्वस्योपमानवाक्यार्थस्य यत्तद्भ्
अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् ।
श्वपुच्छमवनामितं बधिरकर्णजापः कृतो
धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥
[commentary]
समाधत्ते -- अत्रेति ॥ पूर्ववत् अर्थावृत्तिप्रतिवस्तूपमयोरिव । प्रस्तुताप्रस्तुतेति दृष्टान्तः प्रस्तुता
विना नोऽस्माकं द्विषः शत्रवो निहताश्च न तु निहनिष्यन्ते । अंशुमान् सूर्यो यावदुदयाद्रेर्मौलितां शिरोलंकारतां नायाति तावदेव तमांसि तिष्ठन्ति तस्मिंस्तु तथाभूते न तिष्ठन्तीति दृष्टान्तः । अत्र मनोगर्वाभिमुखीकरणवैरिहननयोरंशुमदुदयाचलमस्तकानागमनतमःस्थित्योश्च यथाक्रमं वैधर्म्येण विम्बप्रतिबिम्बभावः ॥ ५२ ॥ इति दृष्टान्तालंकारप्रकरणम् ॥ १८ ॥
निदर्शनां लक्षयति -- वाक्यार्थयोरिति ॥ सदृशवाक्यार्थसंबन्धी य ऐक्यारोपः, उपमेयवाक्यार्थे उपमानवाक्यार्थाभेदारोप इति यावत् ॥ यद्दातुरिति ॥ दातुः सौम्यतेति यदिति सामान्ये नपुंसकम् । सेयमिति विधेयाभिप्रायकं स्त्रीलिङ्गम् ॥ यत्तद्भ्यामिति ॥ यद्यपि मुखं चन्द्र इतिवद्दातुः सौम्यता पूर्णेन्दोरकलङ्कतेत्येतावताप्यैक्यारोपः सम्भवति तथापि यत्तद्भ्यां शीघ्रं स्फुटतया तदवगमात्तदुपन्यासः ॥ अरण्येति ॥ अ
[^१] 'आरोपे निदर्शना'.
[^२] 'वा दा