This page has been fully proofread once and needs a second look.

कुवलयानन्दः । [ धस्तलावधि संस्पर्शमात्रस्य विवक्षितत्वात् । अत्रोदाहरणे पदावृत्तिदीपकाद्विशेषः पूर्ववत्प्रस्तुताप्रस्तुतविषयत्वकृतो दृष्टव्यः । वैधर्म्येणाप्ययं दृश्यते ।
 
कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः ।
तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम् ॥ ५२ ॥
 
निदर्शनालंकारः १९
 
धस्तलावधि संस्पर्शमात्रस्य विवक्षितत्वात् । अत्रोदाहरणे पदावृत्तिदीपका-
द्विशेषः पूर्ववत्प्रस्तुताप्रस्तुत विषयत्वकृतो दृष्टव्यः । वैधर्म्येणाप्ययं दृश्यते ।
कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः ।
तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम् ॥ ५२ ॥
 
"ht
 
निदर्शनालंकारः १९

 
वाक्यार्थयोः सदृशयोरैक्यारोपो'[^१] निदर्शना ।
यहां

यद्दा[^२]
तुः सौम्यता सेयं पूर्णेन्दोरकलङ्किता ॥ ५३ ॥

 
अत्र दातृपुरुष सौम्यत्वस्योपमेयवाक्यार्थस्य पूर्णेन्दोरकलङ्कत्वस्योपमानवा-
क्यार्थस्य यत्तभ्द्यामैक्यारोपः ॥ यथावा -
-
 
अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं

स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् ।

श्वपुच्छमवनामितं बधिरकर्णजापः कृतो

धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥
 
-
 

 
[commentary]
 
समाधत्ते -- अत्रेति ॥ पूर्ववत् अर्थावृत्तिप्रतिवस्तूपमयोरिव । प्रस्तुता प्रस्तुतेति
दृष्टान्तः प्रस्तुता- प्रस्तुतविषयः, पदावृत्तिस्तु तदन्यतरमात्र विषयेत्यर्थः । यद्यप्य -
त्रात्मनेपदपरस्मैपदभेदेन पदभेदान्न पदावृत्तिशङ्कोचिता, तथापि पाठपरिवर्तनेन
पदाभेदेऽपि न पदावृत्तेरयं विषय इति बोधयितुमेतदुक्तम् । अयं दृष्टान्तः ॥
कृतं चेति ॥ नृपं प्रति मन्त्रिण उक्तिः । हे राजन्, त्वया मनो गर्वस्याभिमु
खं न तु गर्वितं कृतं च । किमन्यदपेक्षितमिति शेषः । एवं शस्त्रप्रयोगादिकं

विना नोऽस्माकं द्विषः शत्रवो निहताश्च न तु निहनिष्यन्ते । अंशुमान् सूर्यो
यावदुदयाद्रेर्मौलितां शिरोलंकारतां नायाति तावदेव तमांसि तिष्ठन्ति तस्मिंस्तु
तथाभूते न तिष्ठन्तीति दृष्टान्तः । अत्र मनोगर्वाभिमुखीकरणवैरिहननयोरंशुम-
दुदयाचलमस्तकानागमनतमःस्थित्योश्च यथाक्रमं वैधम्र्र्म्येण विम्बप्रतिबिम्बभावः
॥ ५२ ॥ इति दृष्टान्तालंकारप्रकरणम् ॥ १८ ॥
 
-
 

 
निदर्शनां लक्षयति -- वाक्यार्थयोरिति ॥ सदृशवाक्यार्थसंबन्धी य ऐ-
क्यारोपः, उपमेयवाक्यार्थे उपमानवाक्यार्थाभेदारोप इति यावत् ॥ यद्दातुरि
ति ॥ दातुः सौम्यतेति यदिति सामान्ये नपुंसकम् । सेयमिति विधेयाभि-
प्रायकं स्त्रीलिङ्गम् ॥ यत्तयामिद्भ्याति ॥ यद्यपि मुखं चन्द्र इतिवद्दातुः सौम्य-
ता पूर्णेन्दोरकलङ्कतेत्येतावताप्यैक्यारोपः संसम्भवति तथापि यत्तद्भ्यां शीघ्रं स्फु-
टतया तदवगमात्तदुपन्यासः ॥ अरण्येति ॥ अवुधो मूर्खो जनः सेवितः ।
यदिति गुणीभूतसेवनक्रियापरामर्शः । उत्तरवाक्यगतेन यच्छब्देन तच्छब्दाक्षे-
पात् । तदरण्यरुदितं कृतमित्याद्यन्वयः । उद्वर्तनं यवगोधूमादिचूर्णेन मलापक.
-
 
[^
]' आरोपे निदर्शना'.
[^
]'वा दातु: '.