2023-02-17 12:58:47 by ambuda-bot
This page has not been fully proofread.
ष्टान्तालंकारः १८ ] अलंकारचन्द्रिकासहितः ।
दृष्टान्तालंकारः १८
चेद्धिम्बप्रतिबिम्बत्वं दृष्टान्तस्तद्लंकृतिः ।
त्वमेव कीर्तिमान्राजन्विधुरेव हि कान्तिमान् ॥ ५२ ॥
यत्रोपमानोपमेयवाक्ययोर्भिन्नावेव धर्मो बिम्बप्रतिबिम्बभावेन निर्दिष्टो
त्र दृष्टान्तः । त्वमेव कीर्तिमानित्यत्र कीर्तिकान्त्योर्बिम्बप्रतिबिम्बभावः ॥
थावा
कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमा हुरनेन भूमिम् ।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥
५५
थावा-
देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ गुरुकुलकिष्टो मुरारिः कविः ।
अब्धिलङ्गित एव वानरभटैः किं त्वस्य गम्भीरता-
मापातालनिमनपीवरतनुर्जानाति मन्थाचलः ॥
नन्वन्रोपमानोपमेयवाक्ययोर्ज्ञानमेक एव धर्म इति प्रतिवस्तूपमा युक्ता ।
वम् । अचेतने मन्थाचले ज्ञानस्य बाधितत्वेन तत्र जानातीत्यनेन सागरा-
दृष्टान्तालंकारं लक्षयति — चेदिति ॥ वाक्ययोरित्यनुवर्तते । धर्मयोरित्यध्या-
म् । तदिति तदेत्यर्थकम् । अर्थतो व्याचष्टे – यत्रेति ॥ यत्र काव्ये तथा
बोपमानोपमेयवाक्यार्थघटकधर्मयोबिम्बप्रतिबिम्बभावो दृष्टान्त इति लक्षणम् ॥
काममिति ॥ अनेन प्रकृतराज विशेषेण । राजन्वतीं शोभनराजवतीम् । 'राज-
वान्सौराज्ये' इति निपातः । नक्षत्राण्यश्विन्यादीनि सप्तविंशतिः, तारास्तदितराः,
गोबीवर्दन्यायात् । ग्रहा भौमादयः । संकुला व्याप्ता । ज्योतिष्मतीति प्राश-
ये मतुप् । अत्र राजन्वतीज्योतिष्मतीत्यनयोर्बिम्ब प्रतिबिम्बभावः, पूर्वोदाहर-
कीर्तिकान्त्योर्बिम्बप्रतिबिम्बभावप्रयोजकं मनोहारित्वरूपं सादृश्यमार्थमिह
राजज्योतिषोः प्राशस्त्यरूपं तच्छाब्दमिति भेदः ॥ देवीमिति ॥ देवीं वाचं
रस्वतीं बहव उपासते हि सेवन्त एव हि । हिशब्दस्यैवकारार्थत्वात् । तु परं
रस्वतीसंबन्धि सारमसौ प्रसिद्धो गुरुकुले क्लिष्टोऽध्ययनश्रमवान्मुरारिनामा क-
त्रेर्नितरामतिशयेन जानीते । अत्र दृष्टान्तमाह । वानररूपैर्भ टैर्योद्धुभिरब्धिलचित
किंर्गम्भीरतां पातालपर्यन्त निमग्ना पीवरा स्थूला तनुर्यस्यैवं विधो
न्थाचलो मन्दराद्विरेव जानातीति । दृष्टान्तोदाहरणत्वासङ्गतिमाशङ्कते
अन्विति ॥ वाक्ययोरिति सप्तमी । एकधर्म इत्यनन्तरं शब्दभेदेन निर्दिष्ट इति
ेषः । सागरस्याधस्तनो योऽवधिरिति गम्भीरतापदार्थकथनं । संस्पर्शस्तु लक्षणया
नात्यर्थ इति बोध्यम् । तथाच धर्मभेदात्र प्रतिवस्तूपमा किंतु सारस्वतसार-
नसागराधस्तलाव घिसंस्पर्शयोर्बिम्बप्रतिबिम्बभावाद्दृष्टान्तालंकार एवेत्याशयः ।
वर्षयम्बुदमालेयं वर्षत्येषा च शर्वरी' इतिवत्पदावृत्तिदीपकं स्यादित्याशक्य
—