2023-04-28 10:11:41 by Bharadwajraki
This page has been fully proofread twice.
दृष्टान्तालंकारः १८
चेद्बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः ।
त्वमेव कीर्तिमान्राजन्विधुरेव हि कान्तिमान् ॥ ५२ ॥
यत्रोपमानोपमेयवाक्ययोर्भिन्नावेव धर्मो बिम्बप्रतिबिम्बभावेन निर्दिष्टौ तत्र दृष्टान्तः । त्वमेव कीर्तिमानित्यत्र कीर्तिकान्त्योर्बिम्बप्रतिबिम्बभावः ॥
यथावा --
कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् ।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥
यथावा --
देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ गुरुकुलकिक्लिष्टो मुरारिः कविः ।
अब्धिर्लङ्गित एव वानरभटैः किं त्वस्य गम्भीरता-
मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ॥
नन्वत्रोपमानोपमेयवाक्ययोर्ज्ञानमेक एव धर्म इति प्रतिवस्तूपमा युक्ता । मैवम् । अचेतने मन्थाचले ज्ञानस्य बाधितत्वेन तत्र जानातीत्यनेन सागरा-
[commentary]
दृष्टान्तालंकारं लक्षयति -- चेदिति ॥ वाक्ययोरित्यनुवर्तते । धर्मयोरित्यध्याहार्यम् । तदिति तदेत्यर्थकम् । अर्थतो व्याचष्टे -- यत्रेति ॥ यत्र काव्ये तथा
चोपमानोपमेयवाक्यार्थघटकधर्मयोर्बिम्बप्रतिबिम्बभावो दृष्टान्त इति लक्षणम् ॥ काममिति ॥ अनेन प्रकृतराजविशेषेण । राजन्वतीं शोभनराजवतीम् । 'राजवान्सौराज्ये' इति निपातः । नक्षत्राण्यश्विन्यादीनि सप्तविंशतिः, तारास्तदितराः, गोबलीवर्दन्यायात् । ग्रहा भौमादयः । संकुला व्याप्ता । ज्योतिष्मतीति प्राशस्त्ये मतुप् । अत्र राजन्वतीज्योतिष्मतीत्यनयोर्बिम्बप्रतिबिम्बभावः, पूर्वोदाहरणे कीर्तिकान्त्योर्बिम्बप्रतिबिम्बभावप्रयोजकं मनोहारित्वरूपं सादृश्यमार्थमिह तु राजज्योतिषोः प्राशस्त्यरूपं तच्छाब्दमिति भेदः ॥ देवीमिति ॥ देवीं वाचं सरस्वतीं बहव उपासते हि सेवन्त एव हि । हिशब्दस्यैवकारार्थत्वात् । तु परं सरस्वतीसंबन्धि सारमसौ प्रसिद्धो गुरुकुले क्लिष्टोऽध्ययनश्रमवान्मुरारिनामा कवेविर्नितरामतिशयेन जानीते । अत्र दृष्टान्तमाह । वानररूपैर्भटैर्योद्धुभिरब्धिर्लङ्घित एव किं त्वस्याब्धेर्गम्भीरतां पातालपर्यन्तनिमग्ना पीवरा स्थूला तनुर्यस्यैवंविधो मन्थाचलो मन्दराद्रिरेव जानातीति । दृष्टान्तोदाहरणत्वासङ्गतिमाशङ्कते -- नन्विति ॥ वाक्ययोरिति सप्तमी । एकधर्म इत्यनन्तरं शब्दभेदेन निर्दिष्ट इति शेषः । सागरस्याधस्तनो योऽवधिरिति गम्भीरतापदार्थकथनं । संस्पर्शस्तु लक्षणया जानात्यर्थ इति बोध्यम् । तथाच धर्मभेदान्न प्रतिवस्तूपमा किन्तु सारस्वतसारपाज्ञानसागराधस्तलावघिसंस्पर्शयोर्बिम्बप्रतिबिम्बभावाद्दृष्टान्तालंकार एवेत्याशयः ।
वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी' इतिवत्पदावृत्तिदीपकं स्यादित्याशङ्क्य
चेद्बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः ।
त्वमेव कीर्तिमान्राजन्विधुरेव हि कान्तिमान् ॥ ५२ ॥
यत्रोपमानोपमेयवाक्ययोर्भिन्नावेव धर्मो बिम्बप्रतिबिम्बभावेन निर्दिष्टौ तत्र दृष्टान्तः । त्वमेव कीर्तिमानित्यत्र कीर्तिकान्त्योर्बिम्बप्रतिबिम्बभावः ॥
यथावा --
कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् ।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥
यथावा --
देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ गुरुकुल
अब्धिर्लङ्गित एव वानरभटैः किं त्वस्य गम्भीरता-
मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ॥
नन्वत्रोपमानोपमेयवाक्ययोर्ज्ञानमेक एव धर्म इति प्रतिवस्तूपमा युक्ता । मैवम् । अचेतने मन्थाचले ज्ञानस्य बाधितत्वेन तत्र जानातीत्यनेन सागरा-
[commentary]
दृष्टान्तालंकारं लक्षयति -- चेदिति ॥ वाक्ययोरित्यनुवर्तते । धर्मयोरित्यध्याहार्यम् । तदिति तदेत्यर्थकम् । अर्थतो व्याचष्टे -- यत्रेति ॥ यत्र काव्ये तथा
चोपमानोपमेयवाक्यार्थघटकधर्मयोर्बिम्बप्रतिबिम्बभावो दृष्टान्त इति लक्षणम् ॥ काममिति ॥ अनेन प्रकृतराजविशेषेण । राजन्वतीं शोभनराजवतीम् । 'राजवान्सौराज्ये' इति निपातः । नक्षत्राण्यश्विन्यादीनि सप्तविंशतिः, तारास्तदितराः, गोबलीवर्दन्यायात् । ग्रहा भौमादयः । संकुला व्याप्ता । ज्योतिष्मतीति प्राशस्त्ये मतुप् । अत्र राजन्वतीज्योतिष्मतीत्यनयोर्बिम्बप्रतिबिम्बभावः, पूर्वोदाहरणे कीर्तिकान्त्योर्बिम्बप्रतिबिम्बभावप्रयोजकं मनोहारित्वरूपं सादृश्यमार्थमिह तु राजज्योतिषोः प्राशस्त्यरूपं तच्छाब्दमिति भेदः ॥ देवीमिति ॥ देवीं वाचं सरस्वतीं बहव उपासते हि सेवन्त एव हि । हिशब्दस्यैवकारार्थत्वात् । तु परं सरस्वतीसंबन्धि सारमसौ प्रसिद्धो गुरुकुले क्लिष्टोऽध्ययनश्रमवान्मुरारिनामा क