This page has not been fully proofread.

५४
 
कुवलयानन्दः । [ प्रतिवस्तूपमालंकारः १७
 
विद्वानेव विजानाति विद्वज्जन परिश्रमम् ।
 
नहि वन्ध्या विजानाति गुर्वी प्रसववेदनाम् ॥
यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम् ।
नहि कस्तूरिकामोदः शपथेन विभाव्यते ॥ ५१ ॥
 
T.
 
३३
 
वक्ष्यमाण इत्यर्थः ॥ विद्वानेवेति ॥ यद्यप्यन्ययोगव्यवच्छेदार्थेनैवकारेणावि-
द्वान जानातीति पूर्ववाक्यार्थस्तस्य च नहि वन्ध्येत्युत्तरवाक्यार्थः सधर्मैव तथा-
पि रूपवत्येवाकाश इत्यादिप्रयोगवारणाय भावान्वयस्याप्यावश्यकतया विद्वान्
जानातीति वाक्यार्थस्यापि प्रतीतेस्तदभिप्रायेण वैधर्म्यादाहरणत्वं बोध्यम् ।
ननु वैधर्म्येणोपमेति व्याहतं, तस्याः साधर्म्यरूपत्वादिति चेत्सत्यम् । वैधर्म्येणो-
पन्यस्तेन नहि वन्ध्येति वाक्यार्थेनाक्षिप्तर्स्थापितु प्रसवित्र्येव जानातीति वा-
क्यार्थस्योपमानत्वेन विवक्षणान्मुखतो वैधर्म्यप्रतीतावपि साधर्म्य एव पर्यवसा-
नान्न दोषः । वैधर्म्येणेत्यस्य च वैधर्म्यद्वारेत्यर्थः ॥ यदि सन्तीति ॥ एव-
कारो भिन्नक्रमः । स्वयमेव विकसन्ति । प्रकाशन्त इत्यर्थः । अत्रापि गुणाः स्वयं
प्रकाशन्त इति भावान्वयविधर्मा कस्तूरिकामोदः शपथेन न ज्ञायत इति वा-
क्यार्थस्तदाक्षिप्तेन किंतु स्वयमेव प्रकाशत इति वाक्यार्थेन चौपम्यं गम्यमिति
1. पूर्ववद्वैधर्म्यादाहरणत्वसंगतिः । यत्त्वत्र कैश्चिदुक्तं विद्वानेवेति पयं भवतु नाम
कथंचिद्वैधयिदाहरणं, यदि सन्तीति तु न युक्तम् । वैधर्म्यादाहरणं हि प्रस्तुतध-
र्मिविशेषोपारूढार्थदाढ्यय स्वाक्षिप्तस्वव्यतिरेकसमानजातीयस्य धर्म्यन्तरारूढ-
स्याप्रकृतार्थस्य कथनम् । यथा - 'वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते
पुरुषः । नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥' इत्यादौ ।
अत्र हि सङ्गविशेषेण पूज्यते इति प्रस्तुतार्थाक्षिप्तस्य सङ्गविशेषेण विना न पू-
ज्यत इति स्वव्यतिरेकस्य सजातीयो नहि तुम्बीफलविकल इत्याद्यप्रकृतार्थो
निबद्ध इति वैधयो॑दाहरणत्वम् । यदि सन्तीत्यत्र तु स्वयं प्रकाशन्ते न परेणे-
त्यस्य प्रस्तुतस्यैव सजातीयोऽप्रकृतोऽर्थः शपथेन न विभाव्यते किंतु स्वयमे -
वेति प्रकृतार्थानुरूपतयैव पर्यवसानादिति । तत्रेदं वक्तव्यम् । वंशभव इत्यादि-
भवदुदाहृतपद्येऽपि कथं वैधयो॑दाहरणत्वम् । नहीत्या देस्तुम्बी फल विकलो म-
हिमानं न प्रयायपितु तद्युक्त इति प्रकृतार्थानुरूपतयैव पर्यवसानादिति किं ब
हुना, सर्वत्रैव वैधर्म्यादाहरणे साधर्म्य पर्यवसानं विना नोपमानिर्वाह इति तदु-
च्छेदप्रसङ्गः । अथापातप्रतिपन्नेनाप्रकृतवाक्यार्थेन वैधर्म्यात्तदुदाहरणत्वं तर्हि
प्रकृतेऽपि तदस्तीति तुल्यम् । यदपि प्रस्तुतेत्यादि वैधर्म्यादाहरणत्वनिर्वचनं
तदयुक्तम्, 'भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः' इति
वैधर्म्यदृष्टान्ताव्यापनात् । नत्र प्रस्तुतवाक्यार्थः स्वव्यतिरेकमाक्षिपति किं-
त्वप्रकृतवाक्यांर्थ एवेति दिक् ॥ ५१ ॥ इति प्रतिवस्तूपमालंकारप्रकरणम् ॥ १७॥