This page has been fully proofread twice.

विद्वानेव विजानाति विद्वज्जन परिश्रमम् ।
नहि वन्ध्या विजानाति गुर्वीं प्रसववेदनाम् ॥
यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम् ।
नहि कस्तूरिकामोदः शपथेन विभाव्यते ॥ ५१ ॥
 
---------------

 
[commentary]
 
वक्ष्यमाण इत्यर्थः ॥ विद्वानेवेति ॥ यद्यप्यन्ययोगव्यवच्छेदार्थेनैवकारेणाविद्वान्न जानातीति पूर्ववाक्यार्थस्तस्य च नहि वन्ध्येत्युत्तरवाक्यार्थः सधर्मैव तथापि रूपवत्येवाकाश इत्यादिप्रयोगवारणाय भावान्वयस्याप्यावश्यकतया विद्वान् जानातीति वाक्यार्थस्यापि प्रतीतेस्तदभिप्रायेण वैधर्म्यादाहरणत्वं बोध्यम् । ननु वैधर्म्येणोपमेति व्याहतं, तस्याः साधर्म्यरूपत्वादिति चेत्सत्यम् । वैधर्म्येणोपन्यस्तेन नहि वन्ध्येति वाक्यार्थेनाक्षिप्तर्स्थास्यापि तु प्रसवित्र्येव जानातीति वाक्यार्थस्योपमानत्वेन विवक्षणान्मुखतो वैधर्म्यप्रतीतावपि साधर्म्य एव पर्यवसानान्न दोषः । वैधर्म्येणेत्यस्य च वैधर्म्यद्वारेत्यर्थः ॥ यदि सन्तीति ॥ एवकारो भिन्नक्रमः । स्वयमेव विकसन्ति । प्रकाशन्त इत्यर्थः । अत्रापि गुणाः स्वयं प्रकाशन्त इति भावान्वयविधर्मा कस्तूरिकामोदः शपथेन न ज्ञायत इति वाक्यार्थस्तदाक्षिप्तेन किन्तु स्वयमेव प्रकाशत इति वाक्यार्थेन चौपम्यं गम्यमिति पूर्ववद्वैधर्म्यायोदाहरणत्वसंगतिः । यत्त्वत्र कैश्चिदुक्तं "विद्वानेवेति पद्यं भवतु नाम कथंचिद्वैधर्म्योदाहरणं, यदि सन्तीति तु न युक्तम् । वैधर्म्यायोदाहरणं हि प्रस्तुतध-
र्मिविशेषोपारूढार्थदारर्ढ्याय स्वाक्षिप्तस्वव्यतिरेकसमानजातीयस्य धर्म्यन्तरारूढ-स्याप्रकृतार्थस्य कथनम् । यथा -- 'वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥' इत्यादौ । अत्र हि सङ्गविशेषेण पूज्यते इति प्रस्तुतार्थाक्षिप्तस्य सङ्गविशेषेण विना न पूज्यत इति स्वव्यतिरेकस्य सजातीयो नहि तुम्बीफलविकल इत्याद्यप्रकृतार्थो निबद्ध इति वैधर्म्योदाहरणत्वम् । यदि सन्तीत्यत्र तु स्वयं प्रकाशन्ते न परेणेत्यस्य प्रस्तुतस्यैव सजातीयोऽप्रकृतोऽर्थः शपथेन न विभाव्यते किन्तु स्वयमे- वेति प्रकृतार्थानुरूपतयैव पर्यवसानादिति" । तत्रेदं वक्तव्यम् । वंशभव इत्यादि-भवदुदाहृतपद्येऽपि कथं वैधर्म्योदाहरणत्वम् । नहीत्यादेस्तुम्बीफलविकलो महिमानं न प्रयात्यपितु तद्युक्त इति प्रकृतार्थानुरूपतयैव पर्यवसानादिति किं बहुना, सर्वत्रैव वैधर्म्यायोदाहरणे साधर्म्यपर्यवसानं विना नोपमानिर्वाह इति तदुच्छेदप्रसङ्गः । अथापातप्रतिपन्नेनाप्रकृतवाक्यार्थेन वैधर्म्यात्तदुदाहरणत्वं तर्हि प्रकृतेऽपि तदस्तीति तुल्यम् । यदपि प्रस्तुतेत्यादि वैधर्म्यायोदाहरणत्वनिर्वचनं तदयुक्तम्, 'भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः' इति वैधर्म्यदृष्टान्ताव्यापनात् । नह्यत्र प्रस्तुतवाक्यार्थः स्वव्यतिरेकमाक्षिपति किंत्वप्रकृतवाक्यार्थ एवेति दिक् ॥ ५१ ॥ इति प्रतिवस्तूपमालंकारप्रकरणम् ॥ १७॥