2023-03-27 10:32:45 by Bharadwajraki
This page has not been fully proofread.
स्थिरा शैली गुणवतां खलबुद्ध्या न बाध्यते ।
रत्नदीपस्य हि शिखा वात्ययापि न नाश्यते ॥
यथावा --
तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति ।
स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरसं समीक्षते ॥
अत्र यद्यपि उपमेयवाक्ये अनिच्छा उपमानवाक्ये अवीक्षेति धर्मभेदः प्रतिभाति तथापि वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानर्हत्वादिच्छापूर्वकवीक्षाप्रतिषेधोऽयमनिच्छापर्यवसित एवेति धर्मैक्यमनुसन्धेयम् । अर्थावृत्तिदीपकं प्रस्तुतानामप्रस्तुतानां वा, प्रतिवस्तूपमा तु
प्रस्तुताप्रस्तुतानामिति विशेषः । आवृत्तिदीपकं वैधर्म्ये न सम्भवति, प्रतिवस्तूपमा तु वैधर्म्येण दृश्यते । यथा --
[commentary]
स्थिरेति ॥ शैली सद्वृत्तम् । रत्नमेव दीपो रत्नदीपः । अत्र पूर्वार्धमुपमेयवा-क्यमुत्तरार्धमुपमानवाक्यम् । उभयत्र च नाशाभावरूपः समानधर्मः शब्दभेदेनोपात्तः । सामान्याभावमात्रबोधकस्यापि बाधतेरत्र नाशरूपविशेषपरत्वात् । अयमेव च पूर्वोदाहरणाद्भेदः ॥ तवेति ॥ ईश्वरंप्रति भक्तस्योक्तिः । अमृतप्रस्रवणशीले तव पादपङ्कजे निवेशित आत्माऽन्तःकरणं येन तादृशो भक्तोऽन्यद-
मृतातिरिक्तं फलं कथमिच्छति । न कथमपीत्यर्थः । अमृतं चात्र ब्रह्मानन्दरूपं
हि नि
श्चितम् । मधुव्रतो भ्रमरो मकरन्देन रसेन निर्भरे व्याप्तेऽरविन्दे स्थिते
सति इक्षुरसं न समीक्षत इत्युपमानवाक्यम् ॥ अवर्जनीयस्येति ॥ अनिष्टे-
ऽपि स्वसामग्रीवशाज्जायमानस्येत्यर्थः ॥ इच्छापूर्वकेति ॥ तथाच समीक्षतेरि-
च्छापूर्वकवीक्षणे लक्षणेति भावः ॥ अनिच्छापर्यवसित इति ॥ सविशेष-
णे हीति न्यायादिति भावः । उन्मीलन्ति कदम्बानीति पूर्वोदाहृतायामर्थावृत्ता-
वतिव्याप्तिमाशङ्क्याह – अर्थावृत्तिरित्यादि ॥ शब्दावृत्तौ तु धर्मस्यैकेनैव
शब्देनावृत्त्या बोधनान्न भिन्नशब्दबोध्यत्वमिति नातिव्याप्तिरतोऽर्थावृत्तिपर्यन्ता-
नुधावनम् । एवंच भिन्नशब्दबोध्यैकधर्मगम्यं प्रस्तुताप्रस्तुतवाक्यार्थसादृश्यं प्र-
तिवस्तूपमेति लक्षणं बोध्यम् । दृष्टान्तालंकारेऽव्याप्तिवारणाय भिन्नशब्दबो-
ध्येति । तत्र तु बिम्ब प्रतिबिम्बभावापन्नधर्मगम्यं सादृश्यमिति नातिव्याप्तिः ।
'दिवि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि' इत्यादिवाक्यार्थोपमायामतिव्या-
प्तिवारणाय गम्यमिति । अर्थावृत्तिवारणाय प्रस्तुताप्रस्तुतेति । 'आननं मृगशा-
वाक्ष्या वीक्ष्य लोलालकावृतम् । भ्रमद्धमरसंकीर्ण स्मरामि सरसीरुम् ॥" इति
स्मरणालंकारेऽतिव्याप्तिवारणाय वाक्यार्थेति । अत्र हि दिवि भातीति वाक्या-
र्थोपमायां गमनाधिकरणशोभाश्रयभानुसदृशो भूम्यधिकरणकशोभाश्रयस्त्वमि-
ति प्रतीतिवन्न स्मर्यमाणतादृशसरोरुहसदृशं तथाविधमाननमिति प्रतीतिर्येन
वाक्यार्थगतोपमा गम्या स्यात्, किंतु स्मरणासंपृक्ता तादृशसरोरुहसदृशं ताह-
शमाननमिति पदार्थगतो मैवेति तद्वारणमिति दिक् । प्रस्तुताप्रस्तुतयोश्चमत्कृ
तिविशेषाप्रयोजकतया वाऽलंकार मेद प्रयोजकत्वमित्यस्वरसादाह
- अयं चेति ॥
ना-