This page has not been fully proofread.

प्रतिवस्तूपमालंकारः १७ ] अलंकारचन्द्रिकासहितः ।
 
स्थिरा शैली गुणवतां खलबुद्ध्या न बाध्यते ।
रल

रत्न
दीपस्य हि शिखा वात्ययापि न नाश्यते ॥
 

 
यथावा-
५३
 
--
 
तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति ।

स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरसं समीक्षते ॥

 
अत्र यद्यपि उपमेयवाक्ये अनिच्छा उपमानवाक्ये अवीक्षेति धर्मभेदः प्रति-
भाति तथापि वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानर्हत्वादिच्छापूर्वक वीक्षाप्र-
तिषेधोऽयमनिच्छापर्यवसित एवेति धर्मैक्यमनुसंसन्धेयम् । अर्थावृत्तिदीप कं
प्रस्तुतानामप्रस्तुतानां वा, प्रतिवस्तूपमा तु
प्रस्तुताप्रस्तुताना मिति विशेषः ।
आवृत्तिदीपकं वैधर्म्ये न संसम्भवति, प्रतिवस्तूपमा तु वैधर्म्येण दृश्यते । यथा-
--
 
[commentary]
 
स्थिरेति ॥ शैली सद्वृत्तम् । रत्नमेव दीपो रत्नदीपः । अत्र पूर्वार्धमुपमेयवा-
क्यमुत्तरार्धमुपमानवाक्यम् । उभयत्र च नाशाभावरूपः समानधर्मः शब्दभेदे -
नोपात्तः । सामान्याभावमात्रबोधकस्यापि बाधतेरत्र नाशरूपविशेषपरत्वात् ।
अयमेव च पूर्वोदाहरणाद्भेदः ॥ तवेति ॥ ईश्वरंप्रति भक्तस्योक्तिः । अमृतप्रस्र
वणशीले तव पादपङ्कजे निवेशित आत्माऽन्तःकरणं येन तादृशो भक्तोऽन्यद-

मृतातिरिक्तं फलं कथमिच्छति । न कथमपीत्यर्थः । अमृतं चात्र ब्रह्मानन्दरूपं

हि नि
 
 
 
 
श्चितम् । मधुव्रतो भ्रमरो मकरन्देन रसेन निर्भरे व्याप्तेऽरविन्दे स्थिते

सति इक्षुरसं न समीक्षत इत्युपमानवाक्यम् ॥ अवर्जनीयस्येति ॥ अनिष्टे-

ऽपि स्वसामग्रीवशाज्जायमानस्येत्यर्थः ॥ इच्छापूर्वकेति ॥ तथाच समीक्षतेरि-

च्छापूर्वकवीक्षणे लक्षणेति भावः ॥ अनिच्छापर्यवसित इति ॥ सविशेष-

णे हीति न्यायादिति भावः । उन्मीलन्ति कदम्बानीति पूर्वोदाहृतायामर्थावृत्ता-

वतिव्याप्तिमाशङ्क्याह – अर्थावृत्तिरित्यादि ॥ शब्दावृत्तौ तु धर्मस्यैकेनैव

शब्देनावृत्त्या बोधनान्न भिन्नशब्दबोध्यत्वमिति नातिव्याप्तिरतोऽर्थावृत्तिपर्यन्ता-

नुधावनम् । एवंच भिन्नशब्दबोध्यैकधर्मगम्यं प्रस्तुताप्रस्तुतवाक्यार्थसादृश्यं प्र-

तिवस्तूपमेति लक्षणं बोध्यम् । दृष्टान्तालंकारेऽव्याप्तिवारणाय भिन्नशब्दबो-

ध्येति । तत्र तु बिम्ब प्रतिबिम्बभावापन्नधर्मगम्यं सादृश्यमिति नातिव्याप्तिः ।

'दिवि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि' इत्यादिवाक्यार्थोपमायामतिव्या-

प्तिवारणाय गम्यमिति । अर्थावृत्तिवारणाय प्रस्तुताप्रस्तुतेति । 'आननं मृगशा-

वाक्ष्या वीक्ष्य लोलालकावृतम् । भ्रमद्धमरसंकीर्ण स्मरामि सरसीरुम् ॥" इति

स्मरणालंकारेऽतिव्याप्तिवारणाय वाक्यार्थेति । अत्र हि दिवि भातीति वाक्या-

र्थोपमायां गमनाधिकरणशोभाश्रयभानुसदृशो भूम्यधिकरणकशोभाश्रयस्त्वमि-

ति प्रतीतिवन्न स्मर्यमाणतादृशसरोरुहसदृशं तथाविधमाननमिति प्रतीतिर्येन

वाक्यार्थगतोपमा गम्या स्यात्, किंतु स्मरणासंपृक्ता तादृशसरोरुहसदृशं ताह-

शमाननमिति पदार्थगतो मैवेति तद्वारणमिति दिक् । प्रस्तुताप्रस्तुतयोश्चमत्कृ

तिविशेषाप्रयोजकतया वाऽलंकार मेद प्रयोजकत्वमित्यस्वरसादाह

- अयं चेति ॥
 

 
ना-