This page has not been fully proofread.

कुवलयानन्दः । [ प्रतिवस्तूपमालंकारः १७
 
शमयति जलधरधारा चातकयूनां तृषं चिरोपनताम् ।
क्षपयति च वधूलोचनजलधारा कामिनां प्रवासरुचिम् ॥
वदनेन निर्जितं तव निलीयते चन्द्रबिम्बमम्बुधरे ।
अरविन्दमपि च सुन्दरि निलीयते पाथसां पूरे ॥
एवंचावृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावेऽपि दीपकच्छायापत्तिमा-
त्रेण दीपकव्यपदेशः ॥ ४९ ॥ ५० ॥
 
५२
 
-
 
प्रतिवस्तूपमालंकारः १७
वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता ।
तापेन भ्राजते सूरः शूरश्चापेन राजते ॥ ५९ ॥
यत्रोपमानोपमेयवाक्ययोरेकः समानो धर्मः पृथङ् निर्दिश्यते सा प्रतिव
स्तूपमा । प्रतिवस्तु प्रतिवाक्यार्थमुपमा समानधर्मोऽस्यामिति व्युत्पत्तेः । य-
थाऽत्रैव भ्राजते राजत इत्येक एव धर्मः उपमानोपमेयवाक्ययोः पृथग्भिन्न-
पदाभ्यां निर्दिष्टः ॥ यथावा-
-
 
-
 
-
 
कलापिनां मयूराणां वर्ग समूहं उत्कण्ठयत्यूर्ध्वं कण्ठो यस्य तादृशं करोति ।
तथा मकरध्वजः कामो यूनां तरुणानां मानसमुत्कण्ठयत्युत्सुकं करोतीत्यर्थ मेदे-
ऽपि शब्दावृत्तिः ॥ शमयतीति ॥ जलधरस्य मेघस्य धारा पश्चिातकतरुणा-
नां चिरकालमुपनतां प्राप्तां तृषं पिपासां शमयति । वधूलोचनयोर्जलधारा अ-
पश्चिकामिनां प्रवासेच्छां क्षपयतीत्येक एव नाशरूपोऽर्थः शब्दभेदेनोक्त इ-
त्यर्थावृत्तिः ॥ वदनेनेति ॥ पाथसां जलानाम् । अत्र निलीयतेशब्दस्य तदर्थ-
स्य तिरोधानस्य चावृत्तिः ॥ ननु प्रस्तुतार्थ सकृदुपात्तस्य प्रसङ्गादप्रस्तुतोपकारि-
त्वे दीपकमित्युक्तं, नचावृत्तौ तत्संभवतीति कथमावृत्तिदीपकमुक्तमित्याशक्या-
ह–एवंचेति॥ दीपस्थानीयशब्दार्थयोरावृत्तौ चेत्यर्थः ॥ प्रस्तुताप्रस्तुतेति ॥
अम्बुदमालादीनां विरहोद्दीपकतया केवलप्रस्तुतत्वाञ्चन्द्रबिम्बारविन्दयोश्च केव-
लाप्रस्तुतत्वादिति भावः ॥ दीपकच्छायेति ॥ दीपकसादृश्येत्यर्थः । तच्च
प्रस्तुता प्रस्तुतोपकारयोग्यत्वं वर्षतीत्यादौ श्लेषवशेनास्तीति भावः । मात्रपदेन
दीपकात्पृथगेवायंमलंकारो नतु तत्प्रभेद इति सूचितम् । अतएव दण्डिना
'अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरित्यपि । दीपकस्थान मे वेष्टमलंकारत्रयं यथा ॥
इत्युक्त्वा विकसन्तीत्यायुदाहृतम् । दीपकस्थानं स्थानापन्नं सदृशमिति यावत् ॥
॥ ४९ ॥ ५० ॥ इति आवृत्तिदीपकप्रकरणम् ॥ ११ ॥
 
सकृद्धर्मोक्तिप्रसङ्गादसकृत्तद्धर्मोक्तिगम्यवाक्यार्थसादृश्यकं प्रतिवस्तूपमालंकार
लक्षयति – वाक्ययोरिति ॥ द्विवचनमनेकाभिप्रायं समासानुरोधादिति बोध्य-
म् । एकसामान्ये एकस्मिन्समानधर्मे सति । सूरः सूर्यः । लक्षणं व्याचष्टे-
यत्रेति ॥ उपमानोपमेयेति भावप्रधानम् । उपमानोपमेयभावपरयोरित्यर्थः ।
पृथगिति भिन्नशब्देनेत्यर्थः । अयमेव च वस्तुप्रतिवस्तुभाव इत्युच्यते ॥
 
-