2023-02-17 12:58:46 by ambuda-bot
This page has not been fully proofread.
आवृत्तिदीपकालंकारः १६ ] अलंकारचन्द्रिकासहितः ।
५१
दप्रस्तुत मिति विशेषाग्रहणात्सर्वोद्देशेनैव धर्मान्वय इति विशेषः । अयं चा-
नयोरपरो विशेषः । उभयोरनयोरुपमालंकारस्य गम्यत्वाविशेषेऽप्यत्राप्रस्तुतमु-
पमानं प्रस्तुतमुपमेयमिति व्यवस्थित उपमानोपमेयभावस्तत्र तु विशेषाग्रह-
णादैच्छिकः स इति ॥ ४८ ॥
आवृत्तिदीपकालंकारः १९६
त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकम् ।
वर्षात्यम्बुदमालेयं वर्षयेषा च शर्वरी ॥ ४९ ॥
उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोगमाः ।
माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखावलाः ॥५०॥
दीपकस्यानेकोपकारार्थतया दीपस्थानीयस्य पदस्यार्थस्योभयोर्वाऽवृत्तौ त्रि-
विधमावृत्तिदीपकम् । क्रमेणार्धत्रयेणोदाहरणानि दर्शितानि । यथावा-
उत्कण्ठयति मेघानां माला वर्ग कलापिनाम् ।
यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः ॥
-
थिविषये प्रसङ्गोपकारित्वमित्यर्थः । तथाच लन्मते तस्य प्रासङ्गिकत्वं न स्यादि-
ति भावः । इदमुपलक्षणम् । जामातृविषये प्रासङ्गिकत्वापत्तिरपि बोध्या ।
एतदेव तुल्ययोगितातो भेदक मित्याह - तुल्ययोगितायां त्विति ॥ ननूद्दे-
श्यत्वानुद्देश्यत्वयोश्चमत्काराप्रयोजकत्वान्नालंकार भेदप्रयोजकत्वं युक्तमित्यखरसा-
दाह — अयं चेति ॥ अयं वक्ष्यमाणः । अनयोर्दीपकतुल्ययोगितयोः । अत्र
दीपके । उपमानोपमेयभाव इत्यनन्तरं गम्य इति शेषः । तत्र तुल्ययोगितायां
विशेषाग्रहणात्प्रस्तुताप्रस्तुतत्वरूपव्यवस्थापकाभावादैच्छिकोऽव्यवस्थितः स उप-
मानोपमेयभावः ॥ नव्यास्तु नैतावतापि तुल्ययोगितातो दीपकस्य पृथग्भाव उ
चितः । धर्मस्य सकृद्वृत्तित्वमूलाया विच्छित्तेरविशेषात् । अन्यथा तुल्ययोगिता-
यामपि धर्मिणां केवलप्रकृतत्वस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकार -
द्वैतापत्तेः । तस्मात्तुल्ययोगिताया एव त्रैविध्यमुचितमित्याहुः ॥ ४८ ॥ इति
दीपकप्रकरणम् ॥ १५॥
त्रिविधमिति ॥ दीपकस्यावृत्तावावृत्तिदीपकं भवेत्तच्च त्रिविधमित्यर्थः ॥
वर्षतीति ॥ शर्वरी रात्रिः वर्ष वत्सर इवाचरतीत्यर्थः । कदम्बानि कदम्बकु-
सुमानि, उन्मीलन्ति विकसन्ति, कुटजोगमाः कुटज कलिकाः स्फुटन्ति विकसन्ति,
तृप्ताश्चातका माद्यन्ति मत्ता भवन्ति, शिखावला मयूराश्च माद्यन्तीत्यन्वयः । त्रै-
विध्यमुपपादयन्नेव व्याचष्टे - दीपकस्येति ॥ क्रमेणेति ॥ आद्येऽर्थे वर्षती-
ति शब्दावृत्तिः । अलंकारसंपादकत्वाच्च न कथितपदत्वं दोषः । द्वितीये विकास-
रूपस्यार्थस्यावृत्तिः । उन्मीलन्ति स्फुटन्तीति शब्दभेदेन तस्यैव बोधनात् । तृ-
तीये तु द्वयोरावृत्तिः स्फुटैवेति ॥ उत्कण्ठयन्तीति ॥ मेघानां माला पतिः ।