This page has been fully proofread once and needs a second look.

दप्रस्तुतमिति विशेषाग्रहणात्सर्वोद्देशेनैव धर्मान्वय इति विशेषः । अयं चानयोरपरो विशेषः । उभयोरनयोरुपमालंकारस्य गम्यत्वाविशेषेऽप्यत्राप्रस्तुतमुपमानं प्रस्तुतमुपमेयमिति व्यवस्थित उपमानोपमेयभावस्तत्र तु विशेषाग्रहणादैच्छिकः स इति ॥ ४८ ॥
 
--------------
 
आवृत्तिदीपकालंकारः १६
 
त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकम् ।
वर्षात्यम्बुदमालेयं वर्षत्येषा च शर्वरी ॥ ४९ ॥
 
उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः ।
माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखावलाः ॥५०॥
 
दीपकस्यानेकोपकारार्थतया दीपस्थानीयस्य पदस्यार्थस्योभयोर्वाऽवृत्तौ त्रिविधमावृत्तिदीपकम् । क्रमेणार्धत्रयेणोदाहरणानि दर्शितानि । यथावा --
 
उत्कण्ठयति मेघानां माला वर्गं कलापिनाम् ।
यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः ॥
 
[commentary]
 
थिविषये प्रसङ्गोपकारित्वमित्यर्थः । तथाच लन्मते तस्य प्रासङ्गिकत्वं न स्यादिति भावः । इदमुपलक्षणम् । जामातृविषये प्रासङ्गिकत्वापत्तिरपि बोध्या । एतदेव तुल्ययोगितातो भेदक- मित्याह - तुल्ययोगितायां त्विति ॥ ननूद्देश्यत्वानुद्देश्यत्वयोश्चमत्काराप्रयोजकत्वान्नालंकार- भेदप्रयोजकत्वं युक्तमित्यखस्वरसादाह -- अयं चेति ॥ अयं वक्ष्यमाणः ।अनयोर्दीपकतुल्ययोगितयोः । अत्र दीपके । उपमानोपमेयभाव इत्यनन्तरं गम्य इति शेषः । तत्र तुल्ययोगितायां विशेषाग्रहणात्प्रस्तुताप्रस्तुतत्वरूपव्यवस्थापकाभावादैच्छिकोऽव्यवस्थितः स उपमानोपमेयभावः ॥ नव्यास्तु -- नैतावतापि तुल्ययोगितातो दीपकस्य पृथग्भाव उचितः । धर्मस्य सकृद्वृत्तित्वमूलाया विच्छित्तेरविशेषात् । अन्यथा तुल्ययोगितायामपि धर्मिणां केवलप्रकृतत्वस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकारद्वैतापत्तेः । तस्मात्तुल्ययोगिताया एव त्रैविध्यमुचितमित्याहुः ॥ ४८ ॥ इति
दीपकप्रकरणम् ॥ १५॥
 
त्रिविधमिति ॥ दीपकस्यावृत्तावावृत्तिदीपकं भवेत्तच्च त्रिविधमित्यर्थः ॥ वर्षतीति ॥ शर्वरी रात्रिः वर्षं वत्सर इवाचरतीत्यर्थः । कदम्बानि कदम्बकुसुमानि, उन्मीलन्ति विकसन्ति, कुटजोद्गमाः कुटजकलिकाः स्फुटन्ति विकसन्ति, तृप्ताश्चातका माद्यन्ति मत्ता भवन्ति, शिखावला मयूराश्च माद्यन्तीत्यन्वयः । त्रैविध्यमुपपादयन्नेव व्याचष्टे -- दीपकस्येति ॥ क्रमेणेति ॥ आद्येऽर्थे वर्षती-
ति शब्दावृत्तिः । अलंकारसम्पादकत्वाच्च न कथितपदत्वं दोषः । द्वितीये विकास-रूपस्यार्थस्यावृत्तिः । उन्मीलन्ति स्फुटन्तीति शब्दभेदेन तस्यैव बोधनात् । तृतीये तु द्वयोरावृत्तिः स्फुटैवेति ॥ उत्कण्ठयन्तीति ॥ मेघानां माला पङ्क्तिः ।