2023-02-17 12:58:46 by ambuda-bot
This page has not been fully proofread.
[ दीपकालंकारः १५
कुवलयानन्दः ।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः ॥
अत्र प्रस्तुतानां नृपाणासप्रस्तुतानां मण्यादीनां च शोभैकधर्मान्वयः । प्र-
स्तुतैकनिष्ठः समानो धर्मः प्रसङ्गादन्यत्रोपकरोति प्रासादार्थमारोपितो दीप
इव रथ्यायामिति दीपसाम्यादीपकम् । 'संज्ञायां च' इति इवार्थे कन्
प्रत्ययः । यद्यपि -
-
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥
इत्यत्र प्रस्तुतानामप्रस्तुतानां युगपद्धर्मान्वयस्तथापि प्रासङ्गिकत्वं न ही-
यते, वस्तुगत्या प्रस्तुतोद्देशेन प्रस्तुतस्यैव वर्णनस्याप्रस्तुतेऽन्वयात् । नहि दी-
पस्य रथ्याप्रासादयोर्युगपदुपकारकत्वेन जामात्रर्थ श्रपितस्य सूपस्यातिथिभ्यः
प्रथमपरिवेषणेन च प्रासङ्गिकत्वं हीयते । तुल्ययोगितायां त्वेकं प्रस्तुतमन्य-
-
एवमर्थिषु याचकेषु गलितः संक्रान्तो विभवः समृद्धिर्येषां ते नृपाश्च तनिम्ना
तनोः कृशस्य भावस्तनिमा कार्यं तेन शोभन्त इत्यन्वयः । 'शाणस्तु निकषः
कषः' इत्यमरः ॥ शोभैकेति ॥ शोभारूपैकधर्मेत्यर्थः । पूर्वोदाहरणे आदिदी-
पकमिह त्वन्तदीपकमिति भेदः । प्रस्तुताप्रस्तुतसाधारणधर्मस्य दीपकपदवाच्य-
तायां बीजमाह - प्रस्तुतैकेत्यादि ॥ प्रस्तुतैकनिष्ठः प्रस्तुतैकपरः प्रस्तुतान्व-
यविवक्षयाभिहित इति यावत् ॥ रथ्यायामिवेत्यनन्तरमुपकरोतीत्यनुषज्यते ।
' इतीति चाध्याहार्यम् । इति दीपकसादृश्यात्समानो धर्मो दीपकमुच्यत इति
शेषः । यत्र धर्मस्य पूर्व प्रस्तुतेऽन्वयः पश्चादन्यत्र यथोक्तोदाहरणयोस्तत्रैवेतरत्र
सङ्गोपकारित्वमित्याशयेन शङ्कते - यद्यपीति ॥ सुवर्णेति ॥ सुवर्णमेव
पुष्पं यस्या इति विग्रहः । त्रयो गुणत्रयान्यतमयुक्ताः । शूरश्चेत्यादि प्रत्येकं
चकारो नैरपेक्ष्यद्योतकः । कृतविद्यः प्रख्यात विद्यः । एतच्च प्रासङ्गिकं पद्यम्, यदा
यत्प्रसङ्गे पठ्यते तदा तस्य प्रस्तुतत्वमितरयोस्त्वप्रस्तुतत्वमिति बोध्यम् ॥
युगपदिति ॥ त्रयश्चिन्वन्तीति । त्रिष्वपि युगपदन्वय इत्यर्थः । चिन्वन्तीति
बहुवचनान्तस्य प्रस्तुतमात्रेणैकवचनान्तेन पूर्वमन्वयायोगादिति भावः । समा-
धत्ते - तथापीति ॥ प्रासङ्गिकत्वं प्रसङ्गोपकारित्वम् ॥ न हीयत इति ॥
तथाच धर्मस्य पश्चादन्वयो न तत्र प्रयोजक इति भावः ॥ किं तर्हि प्रयोजकं
तत्राह – वस्तुगत्येति ॥ प्रस्तुतोद्देशेन प्रस्तुतोद्देश्यकान्वयबोधेच्छया प्रस्तुत
स्यैव पदाभिहितस्यैव वर्णनस्य कर्मव्युत्पत्त्या तद्विषयधर्मस्य । तथाच चमत्कारा
य प्रस्तुता प्रस्तुतान्वितस्वार्थं बोधयत्वितीच्छयोच्चरितपदाभिहितधर्मस्योभयत्रा-
न्वयेऽप्युद्देश्यताख्येच्छाविषयता प्रस्तुत एव न प्रस्तुते । किंतु विशेषणता-
ख्य विषय तैवेति । तथाविधोद्देश्यताविरह एव प्रासङ्गिकत्वे बीजमित्याशयः ।
एतदेवोपपादयति — नहीति ॥ प्रासङ्गिकत्वमिति ॥ दीपसूपयो रथ्याति-
-
१ 'प्रवृत्तस्यैव'.