This page has not been fully proofread.

दीपकालंकारः १५] अलंकारचन्द्रिकासहितः ।
 
संगतानि मृगाक्षीणां तडिद्विलसितान्यपि ।
 
क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम् ॥
 
४९
 
पूर्वत्र स्तुतिरिह निन्दा । इयं काव्यादर्श दर्शिता । इमां तुल्ययोगितां
सिद्धिरिति केचिद्व्यवजद्दुः । यदाह जयदेवः
 
सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्ययोक्तये ।
युवामेवेहे विख्यातौ त्वं बलैर्जलधिर्जलैः ॥
इति । मतान्तरेष्वत्र वक्ष्यमाणं दीपकमेव ॥ ४७ ॥
 
दीपकालंकारः १५
 
वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः ।
मदेन भाति कलभः प्रतापेन महीपतिः ॥ ४८ ॥
प्रस्तुताप्रस्तुतानामेकधर्मान्वयो दीपकम् । यथा – कलभमहीपालयोः प्र
स्तुताप्रस्तुतयोर्भानक्रियान्वयः । यथावा-
मणिः शाणोल्लीढः समरविजयी हेतिदलितो
 
मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः ।
 
www
 
संगतानीति ॥ संगतानि संगमाः तडितां विद्युतां विलसितानि घनं निबिडं
यथा स्यात्तथा आरब्धानीति संगमपक्षे, घनैर्मेघैरारब्धानीति च तडिद्विलसितप-
क्षेऽर्थः । काव्यादर्शे एतन्नामकदण्डिकृतग्रन्थे । दार्शता तुल्ययोगितापदवाच्यत्वेन
निर्दिष्टा । केचिदालंकारिका व्यवजहुर्व्यवहृतवन्तः । ख्यातेषु गुणत्वेन प्रसिद्धेषु ॥
युवामेवेति ॥ इह भूलोके । बलैः सैन्यैः । अत्रच सैन्यजलयोः प्रसरणशीलला-
दिसादृश्याद्विम्बप्रतिबिम्बभावेनाभेदमाश्रित्य धर्मैक्यं बोध्यम् । मतान्तरेष्विति
बहुवचनेन बह्वसंमततया दण्ड्युक्ततुल्ययोगितानामखरसो ध्वन्यते । सच
दीपकतुल्ययोगितयोर्भेदकथनावसरे व्यक्तीभविष्यतीति संक्षेपः ॥ ४७
इति तुल्ययोगिताप्रकरणम् ॥ १४ ॥
 
दीपकं लक्षयति – वदन्तीति ॥ वर्ण्यावर्ण्यान्वितैकचमत्कारिधर्मो दीपकमि-
त्यर्थः । उपमादिवारणायात्रापि पूर्ववल्लक्षण परिष्कारो बोध्यः । कलभः करिशा-
वकः ॥ भानक्रियेति ॥ क्रियारूपैकधर्मान्वय इत्यर्थः । अत्रापि क्रियाविशेषणी-
भूतयोर्मदप्रतापयोर्बिम्बप्रतिबिम्बभावो बोध्यः ॥ यथावा मणिरिति ॥ शाणेन
निकषपाषाणेनोल्लीढ उल्लिखितो मणिः । तथा हेतिमिरायुधैर्निहतः कृतक्षतः समरे
संग्रामे विजयशीलो योद्धा, मदेन क्षीणो नागो हस्ती, शरत्काले श्यानानि शुष्का-
णि पुलिनानि जलनिर्मुक्ततटानि यासां ताः सरितो नद्यः, कलामात्रावशिष्टश्चन्द्रः ।
सुरते मृदिता चुम्बनालिङ्गनाद्युपमर्दनम्लायिताङ्गी बाला नवयौवना वनिता स्त्री
 
१ 'मेव हि विख्यात '.