2023-04-22 07:16:40 by Bharadwajraki
This page has been fully proofread twice.
संगतानि मृगाक्षीणां तडिद्विलसितान्यपि ।
क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम् ॥
पूर्वत्र स्तुतिरिह निन्दा । इयं काव्यादर्शे दर्शिता । इमां तुल्ययोगितां सिद्धिरिति केचिद्व्यवजद्दुःह्रुः । यदाह जयदेवः --
सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्ययोक्तये ।
युवामेवे[^१]हेह विख्यातौ त्वं बलैर्जलधिर्जलैः ॥
इति । मतान्तरेष्वत्र वक्ष्यमाणं दीपकमेव ॥ ४७ ॥
--------------
दीपकालंकारः १५
वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः ।
मदेन भाति कलभः प्रतापेन महीपतिः ॥ ४८ ॥
प्रस्तुताप्रस्तुतानामेकधर्मान्वयो दीपकम् । यथा -- कलभमहीपालयोः प्रस्तुताप्रस्तुतयोर्भानक्रियान्वयः । यथावा --
मणिः शाणोल्लीढः समरविजयी हेतिदलितो
मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः ।
[commentary]
संगतानीति ॥ संगतानि संगमाः तडितां विद्युतां विलसितानि घनं निबिडं यथा स्यात्तथा आरब्धानीति संगमपक्षे, घनैर्मेघैरारब्धानीति च तडिद्विलसितपक्षेऽर्थः । काव्यादर्शे एतन्नामकदण्डिकृतग्रन्थे । दार्शिता तुल्ययोगितापदवाच्यत्वेन निर्दिष्टा । केचिदालंकारिका व्यवजहुह्रुर्व्यवहृतवन्तः । ख्यातेषु गुणत्वेन प्रसिद्धेषु ॥ युवामेवेति ॥ इह भूलोके । बलैः सैन्यैः । अत्रच सैन्यजलयोः प्रसरणशीलत्वादिसादृश्याद्विबिम्बप्रतिबिम्बभावेनाभेदमाश्रित्य धर्मैक्यं बोध्यम् । मतान्तरेष्विति बहुवचनेन बह्वसम्मततया दण्ड्युक्ततुल्ययोगितानामस्वरसो ध्वन्यते । सच
दीपकतुल्ययोगितयोर्भेदकथनावसरे व्यक्तीभविष्यतीति संक्षेपः ॥ ४७ ॥ इति तुल्ययोगिताप्रकरणम् ॥ १४ ॥
दीपकं लक्षयति -- वदन्तीति ॥ वर्ण्यावर्ण्यान्वितैकचमत्कारिधर्मो दीपकमित्यर्थः । उपमादिवारणायात्रापि पूर्ववल्लक्षणपरिष्कारो बोध्यः । कलभः करिशावकः ॥ भानक्रियेति ॥ क्रियारूपैकधर्मान्वय इत्यर्थः । अत्रापि क्रियाविशेषणीभूतयोर्मदप्रतापयोर्बिम्बप्रतिबिम्बभावो बोध्यः ॥ यथावा मणिरिति ॥ शाणेन निकषपाषाणेनोल्लीढ उल्लिखितो मणिः । तथा हेतिभि- रायुधैर्निहतः कृतक्षतः समरे संग्रामे विजयशीलो योद्धा, मदेन क्षीणो नागो हस्ती, शरत्काले श्यानानि शुष्काणि पुलिनानि जलनिर्मुक्ततटानि यासां ताः सरितो नद्यः, कलामात्रावशिष्टश्चन्द्रः । सुरते मृदिता चुम्बनालिङ्गनाद्युपमर्दनम्लायिताङ्गी बाला नवयौवना वनिता स्त्री
[^१] 'मेव हि विख्यातौ '
.
क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम् ॥
पूर्वत्र स्तुतिरिह निन्दा । इयं काव्यादर्शे दर्शिता । इमां तुल्ययोगितां सिद्धिरिति केचिद्व्यवज
सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्ययोक्तये ।
युवामेवे[^१]
इति । मतान्तरेष्वत्र वक्ष्यमाणं दीपकमेव ॥ ४७ ॥
--------------
दीपकालंकारः १५
वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः ।
मदेन भाति कलभः प्रतापेन महीपतिः ॥ ४८ ॥
प्रस्तुताप्रस्तुतानामेकधर्मान्वयो दीपकम् । यथा -- कलभमहीपालयोः प्रस्तुताप्रस्तुतयोर्भानक्रियान्वयः । यथावा --
मणिः शाणोल्लीढः समरविजयी हेतिदलितो
मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः ।
[commentary]
संगतानीति ॥ संगतानि संगमाः तडितां विद्युतां विलसितानि घनं निबिडं यथा स्यात्तथा आरब्धानीति संगमपक्षे, घनैर्मेघैरारब्धानीति च तडिद्विलसितपक्षेऽर्थः । काव्यादर्शे एतन्नामकदण्डिकृतग्रन्थे । दार्शिता तुल्ययोगितापदवाच्यत्वेन निर्दिष्टा । केचिदालंकारिका व्यवज
दीपकतुल्ययोगितयोर्भेदकथनावसरे व्यक्तीभविष्यतीति संक्षेपः ॥ ४७ ॥ इति तुल्ययोगिताप्रकरणम् ॥ १४ ॥
दीपकं लक्षयति -- वदन्तीति ॥ वर्ण्यावर्ण्यान्वितैकचमत्कारिधर्मो दीपकमित्यर्थः । उपमादिवारणायात्रापि पूर्ववल्लक्षणपरिष्कारो बोध्यः । कलभः करिशावकः ॥ भानक्रियेति ॥ क्रियारूपैकधर्मान्वय इत्यर्थः । अत्रापि क्रियाविशेषणीभूतयोर्मदप्रतापयोर्बिम्बप्रतिबिम्बभावो बोध्यः ॥ यथावा मणिरिति ॥ शाणेन निकषपाषाणेनोल्लीढ उल्लिखितो मणिः । तथा हेतिभि
[^१] 'मेव हि विख्यातौ