2023-03-26 15:40:31 by Bharadwajraki
This page has been fully proofread once and needs a second look.
अत्र वृश्चति सिंचत्यर्चति इत्यध्याहारेण वाक्यानि पूरणीयानि । पूर्वोदाहरणं स्तुतिपर्यवसायि, इदं तु निन्दापर्यवसायीति भेदः । इयं सरस्वतीकण्ठाभरणोक्ता तुल्यगिता ॥ ४६ ॥
[^१]गुणोत्कृष्टै: समीकृत्य वचोऽन्या तुल्ययोगिता ।
लोकपालो यमः पाशी श्रीदः शक्रो भवानपि ॥ ४७ ॥
अत्र वर्णनीयो राजा शक्रादिभिर्लोकपालत्वेन समीकृतः । यथावा --
[commentary]
योऽपि निम्बं परशुना छिनत्ति योऽप्येनं मधुयुक्तेन सर्पिषा आज्येन सिंचति योऽप्येनं गन्धमाल्याद्यैरर्चतीति क्रमेणेत्यर्थः ॥ उक्तप्रकारस्य तुल्ययोगितापदवाच्यत्वे वृद्धसंमतिं दर्शयति -- इयमिति ॥ तथाच वृद्धव्यवहारान्नानार्थस्तुल्ययोगिताशब्द इति भावः । अत्र केचिदाहुः – "नेयं तुल्ययोगिता पूर्वोक्ततुल्ययोगितातो भेदमर्हति वर्ण्यानामितरेषां वा' इत्यादिपूर्वोक्तलक्षणाक्रान्तत्वात् । एकानुपूर्वीबोधितवस्तुकर्मकदानमात्रत्वस्य परम्परया तादृशशब्दस्य वा धर्मस्यैक्यात् । 'यश्च निम्बम्' इत्यत्रापि कटुत्वविशिष्टनिम्बस्यैव परम्परया छेदकसेचकपूजकधर्मत्वसम्भवात्" इति । तदेतदपेशलम् । तथाहि -- यत्रानेकान्वयित्वेन ज्ञा-तो धर्मस्तेषामौपम्यगमकत्वेन चमत्कृतिजनकस्तत्र पूर्वोक्तप्रकारः । यत्रतु हिताहितोभयविषयकशुभाशुभरूपैकव्यवहारस्य व्यवहर्तृगतस्तुतिनिन्दान्यतरद्योतकतया चमत्कृतिजनकत्वं तत्रापर इति भेदात् । नह्यत्र पराभूतिशब्दस्य तदर्थकर्मदानस्य वा परम्परया शत्रुमित्रगतत्वेन भानमपि तु श्लेषबलादेकत्वेनाध्यवसितस्य तादृशदानस्य राजगतत्वेनैवेति कथं पूर्वोत्तलक्षणाक्रान्तत्वम् । एतेन 'यश्च निम्बम्' इत्यत्र कटुत्वविशिष्टनिम्बस्यैव परम्परया छेदकसेचकपूजकधर्मत्वमिति निरस्तम् । वस्तुगत्या तद्धर्मत्वस्यालंकारतासंपादकत्वाभावात् । अन्यथा 'संकुचन्ति सरोजानि' इत्येतावतैव तुल्ययोगितालंकारापत्तेः । किं त्वने-
कगतत्वेन ज्ञायमानधर्मत्वस्यैव तुल्ययोगिताप्रयोजकत्वमिति तदभावे तदन्तर्ग-
तिकथनमसमञ्जसमेव । अथाप्युक्तोदाहरणयोस्तथा भानमस्तीत्याग्रहस्तथापि न
पूर्वोक्तलक्षणस्यात्र संम्भवः । 'धर्मोऽर्थ इव पूर्णश्रीस्त्वयि राजन् विराजते ।'
इति प्रकृतयोरुपमायाम तिव्याप्तिवारणार्थमने
कानुगत- धर्मत्वपर्याप्त विषयितासंसम्ब-
न्धावच्छिन्नावच्छेदकताकचमत्कृतिजनकताश्रयज्ञान विषयधर्मत्वमिति विवक्षाया-
मिति विवक्षायास्तत्रावश्यकत्वात्, प्रकृते च हितत्वाहितत्वादेविषयस्याधिकस्यानुप्रवेशादिति वि-
भावनीयम् ॥ गुणोत्कृष्टैरिति ॥ गुणैरुत्कृष्टाः श्रेष्ठास्तैरित्यर्थः । समीकृत्य सा-
म्यं विवक्षित्वा । वच इति । वचनं वचः प्रतिपादन मिति यावत् । अर्थात्तत्सा-
धारणधर्मस्य । अन्येति । धर्मस्य वर्ण्यावर्ण्यगतत्वादुक्त विलक्षणस्येत्यर्थः । पाशो-
ऽस्यास्तीति पाशी वरुणः । 'प्रचेता वरुणः पाशी' इत्यमरः । श्रीदः कुबेरः ।
शक इन्द्रः । लोकपालपदं चेन्द्रादिषु रूढम् । राज्ञि तु योगमात्रेण प्रयुक्तम् ॥
शक्र । तु
[^१ ]' गुणोत्कृष्टै: समाहृत्य'.
-
[^१]गुणोत्कृष्टै: समीकृत्य वचोऽन्या तुल्ययोगिता ।
लोकपालो यमः पाशी श्रीदः शक्रो भवानपि ॥ ४७ ॥
अत्र वर्णनीयो राजा शक्रादिभिर्लोकपालत्वेन समीकृतः । यथावा --
[commentary]
योऽपि निम्बं परशुना छिनत्ति योऽप्येनं मधुयुक्तेन सर्पिषा आज्येन सिंचति योऽप्येनं गन्धमाल्याद्यैरर्चतीति क्रमेणेत्यर्थः ॥ उक्तप्रकारस्य तुल्ययोगितापदवाच्यत्वे वृद्धसंमतिं दर्शयति -- इयमिति ॥ तथाच वृद्धव्यवहारान्नानार्थस्तुल्ययोगिताशब्द इति भावः । अत्र केचिदाहुः – "नेयं तुल्ययोगिता पूर्वोक्ततुल्ययोगितातो भेदमर्हति वर्ण्यानामितरेषां वा' इत्यादिपूर्वोक्तलक्षणाक्रान्तत्वात् । एकानुपूर्वीबोधितवस्तुकर्मकदानमात्रत्वस्य परम्परया तादृशशब्दस्य वा धर्मस्यैक्यात् । 'यश्च निम्बम्' इत्यत्रापि कटुत्वविशिष्टनिम्बस्यैव परम्परया छेदकसेचकपूजकधर्मत्वसम्भवात्" इति । तदेतदपेशलम् । तथाहि -- यत्रानेकान्वयित्वेन ज्ञा-तो धर्मस्तेषामौपम्यगमकत्वेन चमत्कृतिजनकस्तत्र पूर्वोक्तप्रकारः । यत्रतु हिताहितोभयविषयकशुभाशुभरूपैकव्यवहारस्य व्यवहर्तृगतस्तुतिनिन्दान्यतरद्योतकतया चमत्कृतिजनकत्वं तत्रापर इति भेदात् । नह्यत्र पराभूतिशब्दस्य तदर्थकर्मदानस्य वा परम्परया शत्रुमित्रगतत्वेन भानमपि तु श्लेषबलादेकत्वेनाध्यवसितस्य तादृशदानस्य राजगतत्वेनैवेति कथं पूर्वोत्तलक्षणाक्रान्तत्वम् । एतेन 'यश्च निम्बम्' इत्यत्र कटुत्वविशिष्टनिम्बस्यैव परम्परया छेदकसेचकपूजकधर्मत्वमिति निरस्तम् । वस्तुगत्या तद्धर्मत्वस्यालंकारतासंपादकत्वाभावात् । अन्यथा 'संकुचन्ति सरोजानि' इत्येतावतैव तुल्ययोगितालंकारापत्तेः । किं त्वने
मिति विवक्षायास्तत्रावश्यकत्वात्, प्रकृते च हितत्वाहितत्वादेविषयस्याधिकस्यानुप्रवेशादिति वि
-