2023-03-26 11:11:52 by Bharadwajraki
This page has not been fully proofread.
कुवलयानन्दः । तुल्ययोगितालंकारः १४
[^१]गुणोत्कृष्टै: समीकृत्य वचोऽन्या तुल्ययोगिता ।
लोकपालो यमः पाशी श्रीदः शक्रो भवानपि ॥ ४७ ॥
अत्र वर्णनीयो राजा शक्रादिभिर्लोकपालत्वेन समीकृतः । यथावा -
[commentary]
योऽपि निम्बं परशुना छिनत्ति योऽप्येनं मधुयुक्तेन सर्पिषा आज्येन सिंचति
कगतत्वेन ज्ञायमानधर्मत्वस्यैव तुल्ययोगिताप्रयोजकत्वमिति तदभावे तदन्तर्ग-
तिकथनमसमञ्जसमेव । अथाप्युक्तोदाहरणयोस्तथा भानमस्तीत्याग्रहस्तथापि न
पूर्वोक्तलक्षणस्यात्र संभवः । 'धर्मोऽर्थ इव पूर्णश्रीस्त्वयि राजन् विराजते ।'
इति प्रकृतयोरुपमायाम तिव्याप्तिवारणार्थमने
कानुगत धर्मत्वपर्याप्त विषयितासंब-
न्धावच्छिन्नावच्छेदकताकचमत्कृतिजनकताश्रयज्ञान विषयधर्मत्वमिति विवक्षाया-
स्तत्रावश्यकत्वात्, प्रकृते च हितत्वाहितत्वादेविषयस्याधिकस्यानुप्रवेशादिति वि-
भावनीयम् ॥ गुणोत्कृष्टैरिति ॥ गुणैरुत्कृष्टाः श्रेष्ठास्तैरित्यर्थः । समीकृत्य सा-
म्यं विवक्षित्वा । वच इति । वचनं वचः प्रतिपादन मिति यावत् । अर्थात्तत्सा-
धारणधर्मस्य । अन्येति । धर्मस्य वर्ण्यावर्ण्यगतत्वादुक्त विलक्षणस्येत्यर्थः । पाशो-
ऽस्यास्तीति पाशी वरुणः । 'प्रचेता वरुणः पाशी' इत्यमरः । श्रीदः कुबेरः ।
शक इन्द्रः । लोकपालपदं चेन्द्रादिषु रूढम् । राज्ञि तु योगमात्रेण प्रयुक्तम् ॥
शक्र । तु
१ ' गुणोत्कृष्टै: समाहृत्य'.
-