2023-02-17 12:58:45 by ambuda-bot
This page has not been fully proofread.
तुल्ययोगितालंकारः १४ ] अलंकारचन्द्रिकासहितः ।
४७
न्वयो दर्शितः । उत्तर श्लोके नायिकासौकुमार्यवर्णने प्रस्तुतेऽप्रस्तुतानां माल-
त्यादीनां कठोरतारूपैकगुणान्वयः । यथावा-
संजातपत्रप्रकरान्वितानि समुद्वहन्ति स्फुटपाटलत्वम् ।
विकस्वराण्यर्ककराभिमर्शाद्दिनानि पद्मानि च वृद्धिमीयुः ॥
नागेन्द्र हस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदली विशेषाः ।
लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥
अत्र ग्रीष्मवर्णने तदीयत्वेन प्रस्तुतानां दिनानां पद्मानां चैकक्रियान्वयः ।
ऊरुवर्णने प्रस्तुतानां करिकराणां कदलीविशेषाणां चैकगुणान्वयः ॥४४॥४५॥
हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता ।
प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया ॥ ४६ ॥
अत्र हिताहितयोर्मित्रशात्रवयोरुत्कृष्टभूतिदानस्य पराभवदानस्य च श्लेषे-
णाभेदाध्यवसायाद्वृत्तितौल्यम् । यथावा-
यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा ।
यश्चैनं गन्धमाल्याद्यैः सर्वस्य कटुरेव सः ॥
नुपपत्तिरिति । स्वैरिणी स्वेन ईरितुं शीलमस्यास्तादृशी । व्यभिचारिणीति याव-
त् । 'खादीरेरिणोः' इति वृद्धिः । 'स्वैरिणी पांसुला च स्यात्' इत्यमरः ॥
संजातेति ॥ दिनानि पद्मानि च वृद्धिमीयुः प्रापुः । कीदृशानि । संजातैः प
त्राणां प्रकरैः समूहैरन्वितानि । पूर्वपत्राणां वसन्तेन विगलनात् । तथा स्फुटा
विकासिताः पाटला वृक्षविशेषा येषु तानि तेषां भावस्तत्त्वं समुद्रहन्तीति शत्र-
न्तम् । दधानानीत्यर्थः । पद्मपक्षे तु स्फुटानि विकसितानि च तानि पाटलानि
पाटलवर्णानि तेषां भावस्तत्त्वमित्यादि पूर्ववत् । एवमर्कस्य करैः किरणैरभिमर्श-
नाद्विकस्वराणि भासुराणि दिनानि । पद्मानि तु विकासशालीनि ॥ नागेन्द्रेति ॥
नागेन्द्राणां गजश्रेष्टानां हस्ताः शुण्डाः कदलीविशेषाश्च परिणाहो विशालता
तच्छालि रूपं स्वरूपं लब्ध्वापि यथाक्रमं वचि कर्कशत्वात्कठोरलादेकान्तेन
नियमेन शैत्याच हेतोलोंके तस्याः पार्वत्या ऊर्वोरुपमानाद्वाह्या उपमानत्वरहिता
जाता इत्यन्वयः ॥ तदीयत्वेनेति ॥ तात्कालिकत्वेनेत्यर्थः । ग्रीष्मकालिकवस्तु-
वर्णनस्यैव ग्रीष्मवर्णनरूपत्वादिति भावः ॥ एकक्रियेति ॥ वृद्धिप्राप्तिरूपैक क्रि-
यान्वये इत्यर्थः ॥ एकगुणेति ॥ उपमानबाह्यवरूपैकगुणेत्यर्थः ॥ ४४ ॥
॥ ४५ ॥ हिताहिते इति ॥ हिताहितविषये इत्यर्थः । वृत्तितौल्यमिति ।
वृत्तिर्वर्तनं व्यवहरणमिति यावत् । तस्य तौल्यं साम्यम् । अपरा पूर्वोक्तविल-
क्षणा । प्रदीयंत इति । परा उत्कृष्टा भूतिः संपत्तिरेव पराभूतिः पराभवः ।
शत्रूणां समूहः शात्रवम् । 'तस्य समूहः' इत्यण् ॥ पराभवदानस्येति ॥
शत्रुसंबन्धिपराभवसंपादनस्येत्यर्थः । पराभवस्य मुख्यदानासंभवात् । अतएव
संप्रदानत्वासंभवान्मित्रशात्रवयोरिति संबन्धसामान्ये षष्ठी । श्लेषेण पराभूतिप-
दश्लेषेण ॥ यथावेति ॥ अत्र चशब्दा अप्यर्था विरोधद्योतकाः ॥ अत्रेति ॥