This page has been fully proofread twice.

न्वयो दर्शितः । उत्तरश्लोके नायिकासौकुमार्यवर्णने प्रस्तुतेऽप्रस्तुतानां मालत्यादीनां कठोरतारूपैकगुणान्वयः । यथावा --
 
संजातपत्रप्रकरान्वितानि समुद्वहन्ति स्फुटपाटलत्वम् ।
विकस्वराण्यर्ककराभिमर्शाद्दिनानि पद्मानि च वृद्धिमीयुः ॥
नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः ।
लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥
 
अत्र ग्रीष्मवर्णने तदीयत्वेन प्रस्तुतानां दिनानां पद्मानां चैकक्रियान्वयः । ऊरुवर्णनेऽप्रस्तुतानां करिकराणां कदलीविशेषाणां चैकगुणान्वयः ॥४४॥४५॥
 
हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता ।
प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया ॥ ४६ ॥
 
अत्र हिताहितयोर्मित्रशात्रवयोरुत्कृष्टभूतिदानस्य पराभवदानस्य च
श्लेषेणाभेदाध्यवसायाद्वृत्तितौल्यम् । यथावा --
 
यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा ।
यश्चैनं गन्धमाल्याद्यैः सर्वस्य कटुरेव सः ॥
 
[commentary]
 
नुपपत्तिरिति । स्वैरिणी स्वेन ईरितुं शीलमस्यास्तादृशी । व्यभिचारिणीति यावत् । 'खास्वादीरेरिणोः' इति वृद्धिः । 'स्वैरिणी पांसुला च स्यात्' इत्यमरः ॥ संजातेति ॥ दिनानि पद्मानि च वृद्धिमीयुः प्रापुः । कीदृशानि । संजातैः पत्राणां प्रकरैः समूहैरन्वितानि । पूर्वपत्राणां वसन्तेन विगलनात् । तथा स्फुटा विकासिताः पाटला वृक्षविशेषा येषु तानि तेषां भावस्तत्त्वं समुद्रहन्तीति शत्रन्तम् । दधानानीत्यर्थः । पद्मपक्षे तु स्फुटानि विकसितानि च तानि पाटलानि
पाटलवर्णानि तेषां भावस्तत्त्वमित्यादि पूर्ववत् । एवमर्कस्य करैः किरणैरभिमर्शनाद्विकस्वराणि भासुराणि दिनानि । पद्मानि तु विकासशालीनि ॥ नागेन्द्रेति ॥ नागेन्द्राणां गजश्रेष्टानां हस्ताः शुण्डाः कदलीविशेषाश्च परिणाहो विशालता तच्छालि रूपं स्वरूपं लब्ध्वापि यथाक्रमं त्वचि कर्कशत्वात्कठोरलात्वादेकान्तेन नियमेन शैत्याच्च हेतोर्लोके तस्याः पार्वत्या ऊर्वोरुपमानाद्वाबाह्या उपमानत्वरहिता जाता इत्यन्वयः ॥ तदीयत्वेनेति ॥ तात्कालिकत्वेनेत्यर्थः । ग्रीष्मकालिकवस्तुवर्णनस्यैव ग्रीष्मवर्णनरूपत्वादिति भावः ॥ एकक्रियेति ॥ वृद्धिप्राप्तिरूपैक क्रियान्वये इत्यर्थः ॥ एकगुणेति ॥ उपमानबाह्यत्वरूपैकगुणेत्यर्थः ॥ ४४ ॥ ॥ ४५ ॥ हिताहिते इति ॥ हिताहितविषये इत्यर्थः । वृत्तितौल्यमिति । वृत्तिर्वर्तनं व्यवहरणमिति यावत् । तस्य तौल्यं साम्यम् । अपरा पूर्वोक्तविलक्षणा । प्रदीयत इति । परा उत्कृष्टा भूतिः सम्पत्तिरेव, पराभूतिः पराभवः । शत्रूणां समूहः शात्रवम् । 'तस्य समूहः' इत्यण् ॥ पराभवदानस्येति ॥
शत्रुसम्बन्धिपराभवसम्पादनस्येत्यर्थः । पराभवस्य मुख्यदानासम्भवात् । अतएव
सम्प्रदानत्वासम्भवान्मित्रशात्रवयोरिति सम्बन्धसामान्ये षष्ठी । श्लेषेण पराभूतिपदश्लेषेण ॥ यथावेति ॥ अत्र चशब्दा अप्यर्था विरोधद्योतकाः ॥ अत्रेति ॥