2023-02-17 12:58:45 by ambuda-bot
This page has not been fully proofread.
कुवलयानन्दः । [ तुल्ययोगितालंकार: १४
तुल्ययोगितालंकारः १४
वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता ।
संकुचन्ति सरोजानि खैरिणीवदनानि च ॥ ४४ ॥
त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते ।
मालतीशशभृल्लेखा कदलीनां कठोरता ॥ ४५ ॥
प्रस्तुतानामप्रस्तुतानां वा गुणक्रियारूपैकधर्मान्वयस्तुल्ययोगिता । संकु
चन्तीति प्रस्तुततुल्ययोगिताया उदाहरणम् । तत्र प्रस्तुतचन्द्रोदयकार्यतया
वर्णनीयानां सरोजानां प्रकाशभीरुस्वैरिणीवदनानां च संकोचरूपैकक्रिया-
४६
दण्डिनाप्युक्तम्– 'अलंकारान्तराणामप्येकमाहुः परायणम् । वागीशसहितामु
क्तिमिमामतिशयाह्वयाम् ॥' इति ॥ ४३ ॥ इत्यतिशयोक्तिप्रकरणम् ॥ १३ ॥
-
तुल्ययोगितां लक्षयति – वर्ण्यानामिति ॥ वर्ण्यत्वेन प्रस्तुताना मित्यर्थः ।
इतरेषामप्रस्तुतानाम् । एतच्चोभयमपि सावधारणम् । वर्ण्यानामेवेतरेषामेव वे
त्यर्थः । बहुवचन मनेकार्थकम् । द्वयोर्धर्मैक्यस्यापि संग्राह्यत्वात् धर्मैक्यं धर्म-
स्य ऐक्यमेकत्वम् । एको धर्म इति यावत् । स च चमत्कारकारी बोध्यः ।
एवं चानेक प्रस्तुतमात्र संबद्धैक चमत्कारिधर्माने का प्रस्तुत मात्र
संबद्धैकधर्मान्यतरत्वं
लक्षणं बोध्यम् । 'मुखं विकसितस्मितम्' इत्यादावतिप्रसङ्गवारणायानेकेति । अत्रच
मुखे प्रेक्षितादिरूपानेकवर्ण्यसंबन्धो नैको धर्म इति तन्निरासः । दीपकवारणाय
मात्रेति । प्रस्तुताप्रस्तुत प्रभेदसाधारण्यायान्यतरत्वनिवेशः ॥ त्वदङ्गेति ॥
प्रियां प्रति दयितोक्तिः । तवाङ्गस्य मार्दवे सौकुमार्ये दृष्टे सति कस्य चित्ते मा
लत्यादीनां कठोरता न भासते । अपितु सर्वस्यैवेत्यर्थः । शशं बिभर्तीति शशभृच्च-
न्द्रस्तस्य लेखा कला ॥ गुणक्रियारूपेति ॥ एतच तथाविधधर्मस्य प्रायशो
गुणक्रियारूपत्वमित्यभिप्रेत्योक्तं नतु लक्षणे तेन रूपेण धर्मस्य निवेशः ।
गौरवात्प्रयोजनाभावाच्च । यत्तु कैश्चितग्रन्थदूषणलालसैर्धर्मस्य गुणक्रियारूप-
त्वेन लक्षणे निवेश इत्याशयमारोप्याभिहितं, तदेतदापाततः 'शासति त्वयि
हे राजन्नखण्डावनिमण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥'
इत्यत्राभावरूपधर्मस्यैवान्वयादिति । तदिदमापाततोऽपि न मनोरमम् । तथाहि ।
शासतीति वदुदाहृतपद्ये निश्चिन्तेति निश्चिन्तत्वभेदः शत्रुमित्रमण्डलधर्मतयो-
पात्तः, स च गुणस्वरूप एव । चिन्ताभाववद्भेदस्य चिन्तानतिरिक्तत्वात् । अन्यथा
चिन्ताभावाभावस्याप्यतिरिक्तत्वापत्तेः । अथ तत्रापि वैपरीत्यादिष्टापत्तिमालम्ब-
से, भवत्वेवं तुष्यतु भवान् । एवमेव्यभावस्य कथं गुणबहिर्भावः । जातिक्रिया-
द्रव्यातिरिक्तस्यैव चतुष्टयी शब्दानां प्रवृत्तिरिति वदद्भिर्वैयाकरणैस्तदनुसारिभि
चालंकारिकैर्गुणत्वाङ्गीकारात् । अतएव जातिगुणयोर्विरोधे प्रकाशकृद्भिरुदाहृतं
'गिरयोऽप्यनुन्नतियुजः' इति । तथा विद्यानाथेनापि 'अमदः सार्वभौमोऽपी 'ति ।
वस्तुतस्तु लक्षणेन तेन रूपेण धर्मस्य निवेशोऽभिप्रेत इत्यावेदितमतो न काप्य-