This page has been fully proofread twice.

यथावा --
 
कवीन्द्राणामासन्प्रथमतरमेवाङ्गणभुव-
श्लद्भृङ्गासङ्गाकुलकरिमदामोदमधुराः ।
अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः
कटाक्षा: क्षीरोदप्रसरदुरुवीचीसहचराः ॥

एतास्तिस्त्रोऽप्यतिशयोक्तयः कार्यशैत्घ्र्यप्रत्यायनार्थाः ॥ ४३ ॥
 
[commentary]
 
ऽत्र वैपरीत्यम् । अग्रे प्रथममनुनीता समाहिता ॥ कवीन्द्राणामिति ॥कविश्रेष्ठानामङ्गणसम्बन्धिन्यो भूमयः प्रथमतरमेव प्रथममेव चलतां चपलानां भृङ्गाणां भ्रमराणामासङ्गेनाकुलानां करिणां मदजलस्यामोदेन परिमलेन मधुरा रमणीया आसन्नभवन् । पश्चादनन्तरं तेषां कवीनामुपरि रुद्रसंज्ञकस्य नृपतेरमी दृश्यमानाः कटाक्षाः पतिताः । कीदृशाः । क्षीरमुदकं यस्य तथाभूतस्य क्षीरार्णवस्य प्रसरन्तीनामुरुवीचीनां वृहत्तरङ्गाणां सहचरास्तत्सदृशा इत्यर्थः । 'उदकस्योदः संज्ञायाम्' इत्युदादेशः । अत्र यथोक्तकटाक्षरूपकार्यमुखेन नृपतिप्रसादरूपहेतुकथनं पूर्वस्माद्विशेषः । एता अव्यवहितोक्ताः । अथोक्तेषु प्रभेदेष्वनुगतप्रवृत्तिनिमित्ताभावात्कथमतिशयोक्तिपदप्रयोग इति चेदत्राहुः । तावत्प्रभेदान्यतमत्वमेव सर्वानुगतमतिशयोक्तिपदप्रवृत्तिनिमित्तं तदेव च सामान्यलक्षणमिति । नव्यास्तु निगीर्याध्यवसानमेवातिशयोक्तिः प्रभेदान्तरं त्वनुगतरूपाभावादलंकारान्तरमेव । नचान्यत्वादिप्रभेदेष्वन्यत्वादिभिरभेदादीनां निगरणं सम्भवतीति वाच्यम् । अन्यत्वादिभिरभिन्नवस्तुप्रतीतेरेव चमत्कारित्वेनानुभवसिद्धतयान्य-
त्वादिभिरभेदप्रतीत्यङ्गीकारेऽनुभवासङ्गतेः । अन्यतमत्वं तु नालंकारविभाजकोपाधितां भजते चमत्काराप्रयोजकत्वादिति वदन्ति । वस्तुतस्तु रूपकभिन्नत्वे सति चमत्कृतिजनकाहार्यारोप- निश्चयविषयत्वमेवातिशयोक्तिसामान्यलक्षणम् । रूपकवारणाय सत्यन्तं, भ्रान्तिवारणायाहार्येति, उत्प्रेक्षानिरासाय निश्चयेति । रूपकातिशयोक्तावभेदस्य द्वितीय- प्रभेदेऽन्यत्वस्य तृतीये सम्बन्धस्य चतुर्थे असंबन्धस्य पञ्चमे सहत्वस्य षष्ठे हेतुप्रसक्तिजन्यत्वस्य सप्तमे पूर्वापरत्वयोश्च तथा विरोधारोपविषयत्वसत्त्वात्सर्वत्र लक्षणसमन्वयः । नचैवंविधारोपस्य रूपकस्वभावोक्तिभिन्नेषु प्रायशः सर्वालंकारेषु सत्त्वादतिप्रसङ्ग इति वाच्यम् । इष्टापत्तेः ।
अलंकारान्तराणां चमत्कारे प्रधानतया तदङ्गत्वेनावस्थिताया अतिशयोक्तेरप्राधान्येन व्यपदेशानर्हत्वात् । 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायात् । अलंकारान्तराणामेव प्रधानत्वेन व्यपदेशार्हत्वात् । अतएव काव्यप्रकाशकृता विशेषालंकारप्रसङ्गेऽभिहितं 'सर्वत्रैवंविधे विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते । तांविना प्रायेणालंकारत्वाभावात्' । अत एवोक्तम् -- 'सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते । यत्नोऽस्यां कविभिः कार्यः कोऽलंकारोऽनया विना' ॥ इति ।
 
कुव. ६