This page has been fully proofread once and needs a second look.

अतिशयोक्त्यलंकारः १३ ] अलंकारचन्द्रिकासहितः । ४५
 
यथावा -
-
 
कवीन्द्राणामासन्प्रथमतरमेवाङ्गणभुव-

श्वलद्भृङ्गासङ्गाकुलकरिमदामोदमधुराः ।

अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः

कटाक्षा: क्षीरोदप्रसरदुरुवीचीसहचराः ॥

एतास्तिस्त्रोऽप्यतिशयोक्तयः कार्यशैत्र्यप्रत्यायनार्थाः ॥ ४३ ॥
 

 
[commentary]
 
ऽत्र वैपरीत्यम् । अग्रे प्रथममनुनीता समाहिता ॥ कवीन्द्राणामिति ॥
कविश्रेष्ठानामङ्गणसंसम्बन्धिन्यो भूमयः प्रथमतरमेव प्रथममेव चलतां चपलानां
भृङ्गाणां भ्रमराणामासङ्गेनाकुलानां करिणां मदजलस्यामोदेन परिमलेन मधुरा
रमणीया आसन्नभवन् । पश्चादनन्तरं तेषां कवीनामुपरि रुद्रसंज्ञकस्य नृपतेरमी
दृश्यमानाः कटाक्षाः पतिताः । कीदृशाः । क्षीरमुदकं यस्य तथाभूतस्य क्षीरार्-
वस्य प्रसरन्तीनामुरुवीचीनां वृहत्तरङ्गाणां सहचरास्तत्सदृशा इत्यर्थः । 'उदक-
स्योदः संज्ञायाम्' इत्युदादेशः । अत्र यथोक्तकटाक्षरूपकार्यमुखेन नृपतिप्रसादरू -
पहेतुकथनं पूर्वस्माद्विशेषः । एता अव्यवहितोक्ताः । अथोक्तेषु प्रभेदेष्वनुगतप्र-
वृत्तिनिमित्ताभावात्कथमतिशयोक्तिपदप्रयोग इति चेदत्राहुः । तावत्प्रभेदान्यत-
मत्वमेव सर्वानुगत मतिशयोक्तिपदप्रवृत्तिनिमित्तं तदेव च सामान्यलक्षणमिति ।
नव्यास्तु निगीर्याध्यवसानमेवातिशयोक्तिः प्रभेदान्तरं त्वनुगतरूपाभावादलंका-
रान्तरमेव । नचान्यत्वादिप्रभेदेष्वन्यत्वादिभिरभेदादीनां निगरणं संसम्भवतीति
वाच्यम् । अन्यत्वादिभिरभिन्नवस्तुप्रतीतेरेव चमत्कारित्वेनानुभवसिद्धतयान्य-

त्वादिभिरभेदप्रतीत्यङ्गीकारेऽनुभवासङ्गतेः । अन्यतमत्वं तु नालंकार विभाजको-
पाधितां भजते चमत्काराप्रयोजकत्वादिति वदन्ति । वस्तुतस्तु रूपकभिन्नत्वे
सति चमत्कृतिजनकाहार्यारोप- निश्चय विषयत्वमेवातिशयोक्तिसामान्यलक्षणम् ।
रूपकवारणाय सत्यन्तं, भ्रान्तिवारणायाहार्येति, उत्प्रेक्षानिरासाय निश्चयेति ।
रूपकातिशयोक्ताव भेदस्य द्वितीय- प्रभेदेऽन्यत्वस्य तृतीये संसम्बन्धस्य चतुर्थे असंब-
न्धस्य पञ्चमे सहत्वस्य षष्ठे हेतुप्रसक्तिजन्यत्वस्य सप्तमे पूर्वापरत्वयोश्च तथा
विरोधारोपविषयत्वसत्त्वात्सर्वत्र लक्षणसमन्वयः । नचैवंविधारोपस्य रूपकस्वभा-
वोक्तिभिन्नेषु प्रायशः सर्वालंकारेषु सत्त्वादतिप्रसङ्ग इति वाच्यम् । इष्टापत्तेः ।

अलंकारान्तराणां चमत्कारे प्रधानतया तदङ्गत्वेनावस्थिताया अतिशयोक्तेरप्रा-
धान्येन व्यपदेशानर्हत्वात् । 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायात् । अलंका-
रान्तराणामेव प्रधानत्वेन व्यपदेशार्हत्वात् । अतएव काव्यप्रकाशकृता विशेषा
लंकारप्रसङ्गेऽभिहितं 'सर्वत्रैवंविधे विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते ।
तांविना प्रायेणालंकारत्वाभावात्' । अत एवोक्तम् – 'सैषा सर्वत्र वक्रोक्तिरन-
यार्थो विभाव्यते । यत्नोऽस्यां कविभिः कार्यः कोऽलंकारोऽनया विना' ॥ इति ।
 

 

 
कुव. ६.
 
-
 
-
 
-
 

 
13