This page has not been fully proofread.

कुवलयानन्दः । [ अतिशयोक्त्यलंकारः १३
 
चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे ।
यास्यामीत्युदिते तन्व्या वलयोऽभवदुर्मिका ।॥ ४२ ॥
 
अत्र नायकप्रवासप्रसक्तिमात्रेण योषितोऽतिकार्य कार्यमुखेन दर्शितम् ।
 
यथावा-
४४
 
-
 
आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं
लाक्षारअनवार्तयापि सहसा रक्तं तलं पादयोः ।
अङ्गानामनुलेपनस्मरणमण्यत्यन्तखेदावहं
 
हन्ताधीरदृशः किमन्यदलकामोदोऽपि भारायते ॥
यामि न यामीति धवे वदति पुरस्तात्क्षणेन तन्वङ्गयाः ।
गलितानि पुरो वलयान्यपराणि तथैव दलितानि ॥ ४२ ॥
 
अत्यन्तातिशयोक्तिस्तु पौर्वापर्यव्यतिक्रमे ।
 
अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥ ४३ ॥
अत्यन्तातिशयोक्तिस्तु कार्ये हेतुप्रसत्तिजे ।
यास्यामीत्युदिते तन्व्या वलयीभवदुर्मिका ॥
 
-
 
चपलेति ॥ हेतोः प्रसक्तिर्ज्ञानं तज्जन्ये कार्ये सतीत्यर्थः । यास्यामीति उदिते उक्ते ।
प्रियेणेति शेषः । तन्व्या ऊर्मिका अङ्गुलीयकं वलयः कङ्कणमभवदित्यर्थः । 'ऊर्मिका
त्वङ्गुलीये स्याद्वस्त्रमङ्गतरङ्गयोः' इति विश्वः ॥ कार्यमुखेनेनि ॥ अङ्गुलीयकस्य
कङ्कणपदप्राप्तिरूपकार्यवर्णनद्वारेणेत्यर्थः ॥ आदातुमिति ॥ सहजसौकुमार्यव-
त्याः विरहदशायां तदतिशयवर्णन मिदम् । हन्तेति खेदे । आदातुं ग्रहीतुं सकृ-
देकवारमपि कुसुमे ईक्षिते सत्यधीरदृशो हस्ताग्रमालोहितं भवतीति शेषः । अ
पिना किमु गृहीते इति गम्यते । लाक्षया यद्रञ्जनं तद्वार्तयापि सहसाकस्मात्पा-
दयोस्तलं रक्तं भवति किमु रञ्जनेनेति पूर्ववत् । एवमङ्गानां चन्दनादिना यद-
नुलेपनं तत्स्मरणमप्यत्यन्तखेदकरं किमुतानुलेपनम् । किमन्यद्वाच्यमिति शेषः ।
अलकानामगुरुधूपाद्यामोदोऽपि भारायते । भार इवाचरतीत्यर्थः । कर्तरि क्य-
ङ् । अत्रादानादिरूप हेतुप्रसक्तिमात्रेण हस्ताग्रलौहित्यादिरूपकार्योत्पत्तेः साक्षा-
देव वर्णनं नतु कार्यमुखेनेति पूर्वस्माद्भेदः । हेतुकार्ययोरिव हेतुप्रसक्तिकार्ययो-
रपि समकालत्वं संभवतीति सूचयितुमुदाहरणान्तरमाह – यामीति ॥ धवे
दयिते यामि न यामीति वदति सति तत्क्षणेन तत्कालमेव तन्वयाः पुरो वल-
यान्यग्रिमकङ्कणानि पुरः प्रथमं गलितानि । अपराण्यपि तथैव तत्कालमेव
दलितानि भग्नानीयन्वयः । 'पुरोऽग्रे प्रथमे च स्यात्' इति विश्वः । अत्र बद-
ति गलितानीति शतृप्रत्ययेन समकालतावगतिः ॥ ४२ ॥ अत्यन्तेति ॥
अत्र हेतुकार्ययोरित्यनुवर्तते । तत्पौर्वापर्येति क्वचित्पाठः साधुरेव । व्यतिक्रमो
 
१ 'चपलातिशयो'. २ 'व्यतिक्रमे '.