This page has been fully proofread twice.

चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे ।
यास्यामीत्युदिते तन्व्या वलयोऽभवदुदूर्मिका ॥ ४२ ॥
 
अत्र नायकप्रवासप्रसक्तिमात्रेण योषितोऽतिकार्श्यं कार्यमुखेन दर्शितम् ।

यथावा --
 
आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं
लाक्षारञ्जनवार्तयापि सहसा रक्तं तलं पादयोः ।
अङ्गानामनुलेपनस्मरणमण्यत्यन्तखेदावहं
हन्ताधीरदृशः किमन्यदलकामोदोऽपि भारायते ॥
 
यामि न यामीति धवे वदति पुरस्तात्क्षणेन तन्वङ्ग्याः ।
गलितानि पुरो वलयान्यपराणि तथैव दलितानि ॥ ४२ ॥
 
अ[^१]त्यन्तातिशयोक्तिस्तु पौर्वापर्यव्यति[^२]क्रमे ।
अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥ ४३ ॥
 
अत्यन्तातिशयोक्तिस्तु कार्ये हेतुप्रसत्तिजे ।
यास्यामीत्युदिते तन्व्या वलयीभवदुदूर्मिका ॥
 
[commentary]
 
चपलेति ॥ हेतोः प्रसक्तिर्ज्ञानं तज्जन्ये कार्ये सतीत्यर्थः । यास्यामीति उदिते उक्ते । प्रियेणेति शेषः । तन्व्या ऊर्मिका अङ्गुलीयकं वलयः कङ्कणमभवदित्यर्थः । 'ऊर्मिका त्वङ्गुलीये स्याद्वस्त्रमङ्गतरङ्गयोः' इति विश्वः ॥ कार्यमुखेनेनि ॥ अङ्गुलीयकस्य कङ्कणपदप्राप्तिरूपकार्यवर्णनद्वारेणेत्यर्थः ॥ आदातुमिति ॥ सहजसौकुमार्यवत्याः विरहदशायां तदतिशयवर्णनमिदम् । हन्तेति खेदे । आदातुं ग्रहीतुं सकृदेकवारमपि कुसुमे ईक्षिते सत्यधीरदृशो हस्ताग्रमालोहितं भवतीति शेषः । अपिना किमु गृहीते इति गम्यते । लाक्षया यद्रञ्जनं तद्वार्तयापि सहसाकस्मात्पादयोस्तलं रक्तं भवति किमु रञ्जनेनेति पूर्ववत् । एवमङ्गानां चन्दनादिना यदनुलेपनं तत्स्मरणमप्यत्यन्तखेदकरं किमुतानुलेपनम् । किमन्यद्वाच्यमिति शेषः । अलकानामगुरुधूपाद्यामोदोऽपि भारायते । भार इवाचरतीत्यर्थः । कर्तरि क्यङ् । अत्रादानादिरूपहेतुप्रसक्तिमात्रेण हस्ताग्रलौहित्यादिरूपकार्योत्पत्तेः साक्षादेव वर्णनं नतु कार्यमुखेनेति पूर्वस्माद्भेदः । हेतुकार्ययोरिव हेतुप्रसक्तिकार्ययोरपि समकालत्वं सम्भवतीति सूचयितुमुदाहरणान्तरमाह -- यामीति ॥ धवे दयिते यामि न यामीति वदति सति तत्क्षणेन तत्कालमेव तन्वङ्ग्याः पुरो वलयान्यग्रिमकङ्कणानि पुरः प्रथमं गलितानि ।अपराण्यपि तथैव तत्कालमेव दलितानि भग्नानीयन्वयः । 'पुरोऽग्रे प्रथमे च स्यात्' इति विश्वः । अत्र दति गलितानीति शतृप्रत्ययेन समकालतावगतिः ॥ ४२ ॥ अत्यन्तेति ॥ अत्र हेतुकार्ययोरित्यनुवर्तते । तत्पौर्वापर्येति क्वचित्पाठः साधुरेव । व्यतिक्रमो-
 
[^१] 'चपलातिशयो'.
[^२] 'व्यतिक्रमे '.