This page has been fully proofread twice.

इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे ॥ अत्र चक्रवाक्याः सूर्यास्तमयकारकमहामेरुक्षयसम्भावनाप्रयुक्तसन्तोषासंबन्धेऽपि तत्सम्बन्धो वर्णितः ॥ ३९ ॥
 
योगेऽप्ययोगः[^१] सम्बन्धातिशयोक्तिरितीर्यते ।
त्वयि दातारि राजेन्द्र स्वर्दुद्रुमान्नाद्रियामहे ॥ ४० ॥
 
अत्र स्वर्दुद्रुमेष्वादरसम्बन्धेऽपि तदसम्बन्धो वर्णित इत्यसंबन्धातिशयोक्तिः । यथावा --
 
अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः ।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ ४० ॥
 
अक्रमातिशयोक्तिः स्यात्सत्वे हेतुकार्ययोः ।
आलिङ्गन्ति समं देव ज्यां शराश्च पराश्च ते ॥ ४१ ॥
 
अत्र मौर्व्यां यदा शरसन्धानं तदानीमेव शत्रवः क्षितौ पतन्तीति हेतुकार्ययोः सहत्वं वर्णितम् । यथावा --
 
मुञ्चति मुञ्चति कोशं भजति च भजति प्रकम्पमरिवर्गः ।
हंमीरवीरखड्गे त्यजति त्यजति क्षमामाशु ॥
 
अत्र खड्गस्य कोशत्यागादिकाल एव रिपूणां धनगृहत्यागादि वर्णितम् ॥ ४१ ॥
 
[commentary]
 
नि सति चक्रवाकी इति मुदं सन्तोषमुपयाति प्राप्नोति । इति किम् । कृतं वासरस्यावसानं नाशो येन स कनकगिरिः सुमेरुः कतिपयैरल्पैर्दिवसैः क्षयं प्रयायादिति सम्भावनायां लिङ् ॥ ३९ ॥ योगेऽपीति ॥ योगे सत्यप्ययोगवर्णनमित्यर्थः । स्वर्गस्था द्रुमाः कल्पवृक्षादयः । स्वर्द्रुमेष्विति विषयसप्तमी । स्वर्द्रुमविषये य आदरस्तस्य सम्बन्धेऽप्यर्थादर्थिषु यद्वा अर्थिषु स्वर्द्रुमविषयादरसम्बन्धाभावप्रतीतौ तत्समानवित्तिवेद्यतया स्वर्द्रुमेष्वत्यादरविषयत्वाभावावगमाद्यथाश्रुतमेव साधु ॥ अनयोरिति ॥ अनवद्यानि निर्दुष्टानि अङ्गानि यस्यास्तथाभूते इति सम्बोधनम् । जृम्भमाणयोर्वर्धमानयोरनयोः स्तनयोस्तव बाहुलतयोरन्तरे मध्ये पर्याप्तोऽवकाशो नास्तीयन्वयः । अत्र बाहुलतयोरन्तरे स्तनपर्याप्तावका-
शसम्बन्धेऽपि तदसम्बन्ध उक्तः ॥ ४० ॥ अक्रमेति ॥ क्रमः पौर्वापर्यं तदभावोऽक्रमस्तद्रूपस्यातिशयोक्तिरित्यर्थः । सहत्वे समकालत्वे । आलिङ्गन्ति समं
युगपज्ज्यां मौर्वीं पृथ्वीं च । पराः शत्रवः ॥ मुञ्चतीति ॥ हंमीरसंज्ञकस्य वीरस्य खड्गे कोशं पिधानं मुञ्चति सति अरीणां वर्गः समूहोऽपि कोशं भाण्डारं मुच्चति, तथा खड्गे प्रकम्पमुल्लासनं भजति सति स प्रकृष्टं कम्पं भजति । एवं खड्गे क्षमां क्षान्तिं त्यजति सति सोऽपि क्षमां पृथ्वीं त्यजतीत्यर्थः । 'कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः' इत्यमरः । अत्र शतृप्रत्ययभङ्ग्या यौगपद्यवर्णनं विशेषः ॥ धनगृहेति ॥ धनसम्बन्धिगृहेत्यर्थः ॥ ४१ ॥
 
[^१] 'अयोगे'.