This page has been fully proofread once and needs a second look.

अतिशयोक्त्यलंकारः १३ ] अलंकार चन्द्रिकासहितः ।
 
इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे ॥
अत्र चक्रवाक्याः सूर्यास्तमयकारकमहामेरुक्षय संसम्भावनाप्रयुक्तसंसन्तोषासं-
बन्धेऽपि तत्संसम्बन्धो वर्णितः ॥ ३९ ॥
 

 
योगेऽप्ययोगः
 
सं
[^१] सम्बन्धातिशयोक्तिरितीर्यते ।
 

त्वयि दातारि राजेन्द्र स्वर्दुमान्नाद्रियामहे ॥ ४० ॥
 

 
अत्र स्वर्दुमेष्वादरसंसम्बन्धेऽपि तदसम्बन्धो वर्णित इत्यसंबन्धो वर्णित इत्यसंबन्धातिशयोक्तिः ।
 
यथावा -
४३
 
-
 
अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः ।
 

अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ ४० ॥

 
अक्रमातिशयोक्तिः स्यात्सत्वे हेतुकार्ययोः ।

आलिङ्गन्ति समं देव ज्यां शराश्च पराश्च ते ॥ ४१ ॥

 
अत्र मौर्व्यां यदा शरसंसन्धानं तदानीमेव शत्रवः क्षितौ पतन्तीति हेतुका-
र्ययोः सहत्वं वर्णितम् । यथावा -
-
 
मुञ्चति मुञ्चति कोशं भजति च भजति प्रकम्पमरिवर्गः ।

हंमीरवीरखड्नेगे त्यजति त्यजति क्षमामाशु ॥
 

 
अत्र खड्गस्य कोशत्यागादिकाल एव रिपूणां धनगृहत्यागादि वर्णितम् ॥ ४१ ॥
 
-
 

 
[commentary]
 
नि सति चक्रवाकी इति मुदं संसन्तोषमुपयाति प्राप्नोति । इति किम् । कृतं वास-
रस्यावसानं नाशो येन स कनकगिरिः सुमेरुः कतिपयैरल्पैर्दिवसैः क्षयं प्रयाया-
दिति संसम्भावनायां लिङ् ॥ ३९ ॥ योगेऽपीति ॥ योगे सत्यप्ययोगवर्णनमि-
त्यर्थः । स्वर्गस्था द्रुमाः कल्पवृक्षादयः । स्वर्दुद्रुमेष्विति विषयसप्तमी । स्वर्दुम वि
षये य आदरस्तस्य संबन्धेऽप्यर्थादर्थिषु यद्वा अर्थिषु स्वर्दु
द्रुमविषयाये य आदरसंस्तस्य सम्बन्धेऽप्यर्थादर्थिषु यद्वा अर्थिषु स्वर्द्रुमविषयादरसम्बन्धा-
भावप्रतीतौ तत्समान वित्तिवेद्यतया स्वर्दुद्रुमेष्वत्यादरविषयत्वाभावावगमाद्यथाश्रु-
तमेव साधु ॥ अनयोरिति ॥ अनवद्यानि निर्दुष्टानि अङ्गानि यस्यास्तथाभूते
इति संसम्बोधनम् । जृम्भमाणयोर्वर्धमानयोरनयोः स्तनयोस्तव बाहुलतयोरन्तरे
मध्ये पर्याप्तोऽवकाशो नास्तीयन्वयः । अत्र वाबाहुलतयोरन्तरे स्तनपर्याप्तावका
-
संसम्बन्धेऽपि तदसंसम्बन्ध उक्तः ॥ ४० ॥ अक्रमेति ॥ क्रमः पौर्वापर्यं तदभा-
वोऽक्रमस्तद्रूपस्यातिशयोक्तिरित्यर्थः । सहत्वे समकालत्वे । आलिङ्गन्ति समं

युगपज्ज्यां मौर्वीवीं पृथ्वीं च । पराः शत्रवः ॥ मुञ्चतीति ॥ हंमीरसंज्ञकस्य वी-
रस्य खड्नेगे कोशं पिधानं मुञ्चति सति अरीणां वर्गः समूहोऽपि कोशं भाण्डारं मुच्च-
ति, तथा खड्नेगे प्रकम्पमुल्लासनं भजति सति स प्रकृष्टं कम्पं भजति । एवं ख
ड्गे क्षमां क्षान्तितिं त्यजति सति सोऽपि क्षमां पृथ्वीं त्यजतीत्यर्थः । 'कोशोऽस्त्री
कुडमले खड्गपिधानेऽर्थौघदिव्ययोः' इत्यमरः । अत्र शतृप्रत्ययभङ्ग्या यौग-
पद्यवर्णनं विशेषः ॥ धनगृहेति ॥ धनसंसम्बन्धिगृहेत्यर्थः ॥ ४१ ॥

 
[^
]'अयोगे'.