2023-02-17 12:58:44 by ambuda-bot
This page has not been fully proofread.
४२
कुवलयानन्दः । [ अतिशयोक्त्यलंकारः १३
अत्र गजस्य सरःप्रवेशं प्रति फले स्नाने फलत्वमपहुत्य पक्ष्यबाधने तन्नि-
वेशितम् । अलमनया प्रसक्तानुप्रसक्त्या प्रकृतमनुसरामः ॥ ३७ ॥
भेदकातिशयोक्तिस्तु तस्यैवान्यत्व वेणनम् ।
अन्यदेवास्य गाम्भीर्यमन्यद्धैर्य महीपतेः ॥ ३८ ॥
अत्र लोकप्रसिद्धगाम्भीर्याद्यभेदेऽपि भेदो वर्णितः । यथावा-
अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी ।
-
नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥ ३८ ॥
संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् ।
सौधा ग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम् ॥ ३९ ॥
यथावा-
कतिपयदिवसैः क्षयं प्रयायात्कनकगिरिः कृतवासरावसानः ।
गजस्तस्य रवेर्गृह्यान्पक्ष्यान्बन्धूनिति यावत् । ध्रुवं प्रायो बाधितुं सरः प्रविशति
नतु स्नातुं स्नानार्थम् । हि यस्माद्द्वजस्य स्नानं निष्फलं निष्प्रयोजनमित्यन्वयः ॥
प्रसक्तानुप्रसक्त्येति ॥ अतिशयोक्तेः सापह्नवत्वकथनप्रसङ्गाद्लंकारसर्वस्व
कृदुक्तं स्वरूपोत्प्रेक्षाया शुद्धापह्नुतिगर्भत्वं दर्शितं तदनुप्रसत्या च त्रिविधास्त्र -
प्युत्प्रेक्षासु पर्यस्तापह्नुतिगर्भवमित्यर्थः ॥ ३७ ॥ भेदकेति ॥ तस्यैव तजाती-
यस्यैवान्यत्ववर्णनं तज्जातीय भिन्नत्वेन वर्णनं तच्चाहार्य बोध्यम् । एवमग्रेऽपि ।
तेन भ्रान्तौ नातिव्याप्तिः । इदं च लोकोत्तरत्वप्रतिपत्त्यर्थम् ॥ अन्यदेवेति ॥
अस्य महीपतेर्गाम्भीर्य अन्यदेव प्रसिद्धगाम्भीर्यभिन्नमेवेत्यर्थः ॥ अन्येयमि-
ति ॥ रूपं सौन्दर्य, वैदग्ध्यं चातुर्य, धोरणी परिपाटी । एषा नलिनपत्राक्षी
विधेः साधारणी सृष्टिर्नैवेत्यन्वयः । अत्रोत्तरार्धे नञ्भङ्ग्याऽन्यत्ववर्णनं विशेषः
॥ ३८ ॥ संबन्धेति ॥ अयोगेऽसंबन्धे योगकल्पनं संबन्धवर्णनम् ।
संबन्धश्चाभेदभिन्नत्वे सत्यन्यत्वाद्यनिरूपितो ग्राह्यः । तेन रूपकातिशयो-
त्यादिप्रभेदेषु नातिव्याप्तिः ॥ सौधेति ॥ 'सौधोऽस्त्री राजसदनम्' इत्य-
मरः । नन्वत्रैव स्टेशन्तीवेन्दुमण्डलमितीवपदप्रयोगे उत्प्रेक्षाप्रतीतेस्तदप्रयोगे
गम्योत्प्रेक्षात्वमुचितम् । इवादिसत्त्वे या वाच्योत्प्रेक्षा सैवेवाद्यभावे गम्योत्प्रेक्षे-
ति नियमात् । अन्यथा त्वत्कीर्तिर्भ्रमणश्रान्तेत्यादिपूर्वोदाहृते पद्येऽपि गम्योत्प्रे-
क्षा न स्याद्विशेषाभावादिति चेन्मैवम् । उपदर्शित नियमस्यालंकारान्तराविषय
एवाभ्युपगमात् । अन्यथा नूनं मुखं चन्द्र इत्यादौ नूनमित्यप्रयोगे गम्योत्प्रेक्षा-
पत्तेः । एवंच प्रकृतेऽसंबन्धे संवन्धवर्णनरूपातिशयोक्त्यलंकारविषये न गम्यो-
त्प्रेक्षावसरः । त्वत्कीर्तिरित्युदाहरणे तु भ्रमणश्रान्तरूप हेत्वंशे गम्योत्प्रेक्षामिप्रे-
ता नतु स्वर्गङ्गाप्रवेशांश इति सर्वमवदातम् । असंदिग्धमुदाहरणान्तरमाह-
यथावेति ॥ कतिपयेति ॥ वीररुद्रदेवाख्ये नृपे वितरणशालिनि दानशालि-
१ 'शयोक्तिः स्यात्तस्यै'. २ 'कल्पनम्'. ३ 'च भूपते: '.
-
-
●