This page has been fully proofread twice.

अत्र गजस्य सरःप्रवेशं प्रति फले स्नाने फलत्वमपह्नुत्य पक्ष्यबाधने तन्निवेशितम् । अलमनया प्रसक्तानुप्रसक्त्या प्रकृतमनुसरामः ॥ ३७ ॥
 
भेदकातिशयोक्ति[^१]स्तु तस्यैवान्यत्व[^२]वेवर्णनम् ।
अन्यदेवास्य गाम्भीर्यमन्यद्धैर्यं म[‍^३]हीपतेः ॥ ३८ ॥
 
अत्र लोकप्रसिद्धगाम्भीर्याद्यभेदेऽपि भेदो वर्णितः । यथावा --
 
अन्येयं रूपसम्पत्तिरन्या वैदग्ध्यधोरणी ।
नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥ ३८ ॥
 
सम्बन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् ।
सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम् ॥ ३९ ॥
 
यथावा --
 
कतिपयदिवसैः क्षयं प्रयायात्कनकगिरिः कृतवासरावसानः ।
 
[commentary]
 
गजस्तस्य रवेर्गृह्यान्पक्ष्यान्बन्धूनिति यावत् । ध्रुवं प्रायो बाधितुं सरः प्रविशति नतु स्नातुं स्नानार्थम् । हि यस्माद्गजस्य स्नानं निष्फलं निष्प्रयोजनमित्यन्वयः ॥ प्रसक्तानुप्रसक्त्येति ॥ अतिशयोक्तेः सापह्नवत्वकथनप्रसङ्गाद्लंकारसर्वस्वकृदुक्तं स्वरूपोत्प्रेक्षाया शुद्धापह्नुतिगर्भत्वं दर्शितं तदनुप्रसक्त्या च त्रिविधास्त्रप्युत्प्रेक्षासु पर्यस्तापह्नुतिगर्भत्वमित्यर्थः ॥ ३७ ॥ भेदकेति ॥ तस्यैव तजातीयस्यैवान्यत्ववर्णनं तज्जातीयभिन्नत्वेन वर्णनं तच्चाहार्यं बोध्यम् । एवमग्रेऽपि । तेन भ्रान्तौ नातिव्याप्तिः । इदं च लोकोत्तरत्वप्रतिपत्त्यर्थम् ॥ अन्यदेवेति ॥ अस्य महीपतेर्गाम्भीर्यं अन्यदेव प्रसिद्धगाम्भीर्यभिन्नमेवेत्यर्थः ॥ अन्येयमिति ॥ रूपं सौन्दर्यं, वैदग्ध्यं चातुर्यं, धोरणी परिपाटी । एषा नलिनपत्राक्षी विधेः साधारणी सृष्टिर्नैवेत्यन्वयः । अत्रोत्तरार्धे नञ्भङ्ग्याऽन्यत्ववर्णनं विशेषः ॥ ३८ ॥ सम्बन्धेति ॥ अयोगेऽसम्बन्धे योगकल्पनं सम्बन्धवर्णनम् । सम्बन्धश्चाभेदभिन्नत्वे सत्यन्यत्वाद्यनिरूपितो ग्राह्यः । तेन रूपकातिशयो-
क्त्यादिप्रभेदेषु नातिव्याप्तिः ॥ सौधेति ॥ 'सौधोऽस्त्री राजसदनम्' इत्यमरः । नन्वत्रैव
स्पृशन्तीवेन्दुमण्डलमितीवपदप्रयोगे उत्प्रेक्षाप्रतीतेस्तदप्रयोगे गम्योत्प्रेक्षात्वमुचितम् । इवादिसत्त्वे या वाच्योत्प्रेक्षा सैवेवाद्यभावे गम्योत्प्रेक्षेति नियमात् । अन्यथा त्वत्कीर्तिर्भ्रमणश्रान्तेत्यादिपूर्वोदाहृते पद्येऽपि गम्योत्प्रेक्षा न स्याद्विशेषाभावादिति चेन्मैवम् । उपदर्शितनियमस्यालंकारान्तराविषय एवाभ्युपगमात् । अन्यथा नूनं मुखं चन्द्र इत्यादौ नूनमित्यप्रयोगे गम्योत्प्रेक्षापत्तेः । एवंच प्रकृतेऽसम्बन्धे संन्धवर्णनरूपातिशयोक्त्यलंकारविषये न गम्योत्प्रेक्षावसरः । त्वत्कीर्तिरित्युदाहरणे तु भ्रमणश्रान्तरूपहेत्वंशे गम्योत्प्रेक्षामिभिप्रेता नतु स्वर्गङ्गाप्रवेशांश इति सर्वमवदातम् । असंदिग्धमुदाहरणान्तरमाह -- यथावेति ॥ कतिपयेति ॥ वीररुद्रदेवाख्ये नृपे वितरणशालिनि दानशालि-
 
[^१] 'शयोक्तिः स्यात्तस्यै'.
[^२] 'कल्पनम्'.
[‍^३]च भूपते: तेः'.