This page has been fully proofread twice.

अत्राधररस एव मधुरस इत्याद्यतिशयोक्तिः पुष्परसो मधुरसो न भवतीत्यपह्नुतिगर्भा ॥ अलंकारसर्वस्वकृता स्वरूपोत्प्रेक्षायां सापह्नवत्वमुदाहृतम् ॥
 
'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु ।
यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति शिप्रा ॥' इति ।
 
ततस्त्वियानत्र भेदः । एतत्तु शुद्धापह्नुतिगर्भम् । यत्र फेनततित्वमपह्नुतं तत्रैवाट्टहासत्वोत्प्रेक्षणादिह तु पर्यस्तापह्नुतिगर्भत्वमिन्दुमण्डलादावपह्नुतस्यामृतादेः सूक्त्यादिषु निवेशनात् । इदं च पर्यस्तापह्नुतिगर्भत्वमुत्प्रेक्षायामपि सम्भवति । तत्र स्वरूपोत्प्रेक्षायां यथा-
 
जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽधरत्वम् ।
द्वयोर्विशेषावगमक्षमाणां नाम्नि भ्रमोऽभूदनयोर्जनानाम् ॥
 
अत्र प्रसिद्धफले बिम्बतामपह्नुत्यातिरागेण निमित्तेन दमयन्त्यधरे तदुस्प्रेक्षा पर्यस्तापह्नुतिगर्भा । हेतृतूत्प्रेक्षायां तद्गर्भत्वं प्राग्लिखिते हेतूप्रेक्षोदाहरणे एव दृश्यते । तत्र चान्धकारेष्वान्ध्यहेतुत्वमपहुत्यान्यत्र तन्निवेशितम् । फलोत्प्रेक्षायां यथा --
 
रवितप्तो गजः पक्ष्यांस्तद्गृह्यान्बाधितुं ध्रुवम् ।
सरो विशति न स्नातुं गजस्नानं हि निष्फलम् ॥
 
[commentary]
 
धुरसः । 'अन्तरान्तरेण युक्ते' इति द्वितीया । पुष्पं परं केवलं धूर्वहं भारवाहकं नतु मधुरसयुक्तम् । तयोः मुक्ताविद्रुमयोः खलु निश्चितं प्रालेयद्युतिमण्डले चन्द्रमण्डले एकासिका एकस्मिन्नासिका अवस्थितिः । ऐकाधिकरण्यमित्यर्थः । न त्वर्णवे समुद्रे । तच्च चन्द्रमण्डलं च शङ्खस्य मूर्ध्नि मस्तके उदञ्चत्युदयं प्राप्नोति । न पुनः पूर्वाचलस्योदयगिरेरभ्यन्तरे उदञ्चति । अत्र मुक्ताविद्रुममधुरसप्रालेयद्युतिमण्डलशङ्खशब्दैः क्रमेण दन्ताधरतन्माधुर्यमुखकण्ठा निगीर्णाः । पूर्वोदाहरणे भ्रान्तत्वोक्त्या स्पष्टोऽपह्नवः । इह तु परं धूर्वहमित्युक्त्या गूढ इति भेदः । 'प्रालेयं मिहिका च' इत्यमरः ॥ गतास्विति ॥ पुरे भवाः पौर्यस्तासु विला-
सिनीषु तिमीनां मत्स्यानां संघट्टनेन ससंभ्रमं सभयं तीरं प्रति गतासु सतीषु यत्र नगर्यां शिप्रा नदी उल्लसन्तीनां फेनततीनां छलेन मुक्तः कृतोऽट्टहास उद्धतहास्यं यया तथाभूतेव विभातीत्यन्वयः ॥ इतीति ॥ इत्यत्रेत्यर्थः । इन्दुमण्डलादावित्यादिपदात्पुष्परसादिपरिग्रहः ॥ सूक्त्यादिष्विति ॥ सूक्तिमाधुर्यादिष्वित्यर्थः । आदिना अधरमाधुर्यपरिग्रहः । निवेशनादभेदाध्यवसानात् ॥ जाने इति ॥ दमयन्तीं वर्णयतो नलस्योक्तिः । अतिशयिताद्रागाल्लौहित्यादिदमधरस्वरूपमेव बिम्बमिति जाने नतु बिम्बफलमित्येवकारार्थः । विबिम्बस्य बिम्बफलस्यातोऽस्मादोष्ठादधरत्वं निकृष्टत्वं व्यक्तं स्फुटम् । कथं तर्हि विपरीता
लोके प्रसिद्धिस्तत्राह । द्वयोरनयोर्विशेषस्य तारतम्यस्यावगमे बोधेऽक्षमाणामसमर्थानां जनानां नाम्नि भ्रमो विपर्यासोऽभूदिति ॥ अन्यत्रेति ॥ सूर्यकर्तृके नेत्रापरपर्यायगोनयन इत्यर्थः । निवेशितमुत्प्रेक्षितम् ॥ रवीति ॥ रविणा संतप्तो