This page has been fully proofread once and needs a second look.

त्राधररस एव मधुरस इत्याद्यतिशयोक्त्त्यलंकारः १३]तिः पुष्परसो मधुरसो न भवतीत्यपह्नुतिगर्भा ॥ अलंकारचन्द्रिकासहितः ।
 
४१
 
अत्राधररस एव मधुरस इत्याद्यतिशयोक्तिः पुष्परसो मधुरसो न भवती-
त्यपह्नुतिगर्भा ॥ अलंकार
सर्वस्वकृता स्वरूपोत्प्रेक्षायां सापह्नवत्वमुदाहृतम् ॥

 
'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु ।
 

यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति शिप्रा ॥' इति ।

 
ततस्त्वियानत्र भेदः । एतत्तु शुद्धापह्नुतिगर्भम् । यत्र फेनततित्वमपद्भुह्नुतं
तत्रैवाट्टहासत्वोत्प्रेक्षणादिह तु पर्यस्तापह्नुतिगर्भत्वमिन्दुमण्डलादावपद्रुतस्या-
ह्नुतस्यामृतादेः सूक्त्यादिषु निवेशनात् । इदं च पर्यस्तापह्नुतिगर्भत्वमुत्प्रेक्षायामपि
सं
सम्भवति । तत्र स्वरूपोत्प्रेक्षायां यथा-

 
जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽधरत्वम् ।

द्वयोर्विशेषावगमक्षमाणां नाम्नि भ्रमोऽभूदनयोर्जनानाम् ॥
 

 
अत्र प्रसिद्धफले बिम्बतामपहुह्नुत्यातिरागेण निमित्तेन दमयन्त्यधरे तदुस्प्रे-
क्षा पर्यस्तापह्नुतिगर्भा । हेतृत्प्रेक्षायां तद्गर्भत्वं प्राग्लिखिते हेतूप्रेक्षोदाहरणे
एव दृश्यते । तत्र चान्धकारेष्वान्ध्य हेतुत्वमपहुत्यान्यत्र तन्निवेशितम् । फलो-
त्प्रेक्षायां यथा -
 
-
 

 
रवितप्तो गजः पक्ष्यांस्तद्गृह्यान्बाधितुं ध्रुवम् ।

सरो विशति न स्नातुं गजस्त्रानानं हि निष्फलम् ॥
 

 
[commentary]
 
धुरसः । 'अन्तरान्तरेण युक्ते' इति द्वितीया । पुष्पं परं केवलं धूर्वहं भारवाह-
कं नतु मधुरसयुक्तम् । तयोः मुक्ताविद्रुमयोः खलु निश्चितं प्रालेयद्युतिमण्डले
चन्द्रमण्डले एकासिका एकस्मिन्नासिका अवस्थितिः । ऐकाधिकरण्यमित्यर्थः । न
त्वर्णवे समुद्रे । तच्च चन्द्रमण्डलं च शङ्खस्य मूर्ध्नि मस्तके उदञ्चत्युदयं प्राप्नोति ।
न पुनः पूर्वाचलस्योदयगिरेरभ्यन्तरे उदञ्चति । अत्र मुक्ताविद्रुममधुरस प्रालेयद्यु-
तिमण्डलशङ्खशब्दैः क्रमेण दन्ताधरतन्माधुर्यमुखकण्ठा निगीर्णाः । पूर्वोदाहरणे
भ्रान्तत्वोक्त्या स्पष्टोऽपह्नवः । इह तु परं धूर्वहमित्युक्त्या गूढ इति भेदः ।
'प्रालेयं मिहिका च' इत्यमरः ॥ गतास्विति ॥ पुरे भवाः पौर्यस्तासु विला-

सिनीषु तिमीनां मत्स्यानां संघट्टनेन ससंभ्रमं सभयं तीरं प्रति गतासु सतीषु
यत्र नगर्यायां शिप्रा नदी उल्लसन्तीनां फेनततीनां छलेन मुक्तः कृतोऽट्टहास
उद्धतहास्यं यया तथाभूतेव विभातीत्यन्वयः ॥ इतीति ॥ इत्यत्रेत्यर्थः । इ-
न्दुमण्डलादावित्यादिपदात्पुष्परसादिपरिग्रहः ॥ सूक्त्यादिष्विति ॥ सूक्तिमा-
धुर्यादिष्वित्यर्थः । आदिना अधरमाधुर्यपरिग्रहः । निवेशनादभेदाध्यवसानात् ॥
जाने इति ॥ दमयन्तीं वर्णयतो नलस्योक्तिः । अतिशयिताद्रागाल्लौहित्यादिद-
मधरस्वरूपमेव बिम्बमिति जाने नतु बिम्बफलमित्येवकारार्थः । विम्बस्य बि-
म्बफलस्यातोऽस्मादोष्ठादधरत्वं निकृष्टत्वं व्यक्तं स्फुटम् । कथं तर्हि विपरीता

लोके प्रसिद्धिस्तत्राह । द्वयोरनयोर्विशेषस्य तारतम्यस्यावगमे बोधेऽक्षमाणामसम
र्थानां जनानां नाम्नि भ्रमो विपर्यासोऽभूदिति ॥ अन्यत्रेति ॥ सूर्यकर्तृके नेत्रा-
परपर्यायगोनयन इत्यर्थः । निवेशितमुत्प्रेक्षितम् ॥ रवीति ॥ रविणा संतप्तो
 
-