2023-04-20 10:33:57 by Bharadwajraki
This page has been fully proofread twice.
इत्यत्र कोऽयमित्युक्त्या प्रसिद्धचन्द्राद्भेदस्तत उत्कर्षश्च गर्भितः । एवमन्यत्राप्यूहनीयम् ॥ ३६ ॥
य[^१]द्यपह्नुतिगर्भत्वं सैव सापह्नवा मता ।
त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधौ ॥ ३७ ॥
अत्र त्वत्सूक्तिमाधुर्यमेवामृतमित्यतिशयोक्तिश्चन्द्रमण्डलस्थममृतं न भवतीत्यपह्नुतिगर्भा ॥ यथावा --
मुक्ताविद्रुममन्तरा मधुरसः पुष्पं परं धूर्वहं
प्रालेयद्युतिमण्डले खलु तयोरेकासिका नार्णवे ।
तच्चोदञ्चति शङ्खमूर्ध्नि न पुनः पूर्वाचलाभ्यन्तरे
तानीमानि विकल्पयन्ति त इमे येषां न साहदृक्पथे ।।
[commentary]
गलितश्च्युतो हरिणो यस्मात्तथाभूतस्तेन निष्कलङ्कतयोत्कर्षाभिव्यक्तिः । पुनः कीदृक् । सुधायां बद्धो ग्रासस्तदभिलाषो यैस्तैरुपवनसम्बन्धिभिश्चकोरैरनुसृतां लवल्याः फलपाकस्य प्रणयिनीं सदृशीमच्छां स्वच्छां ज्योत्स्नां तत्त्वेनाध्यवासितां कान्तितिं प्रभां किरन् । प्रसारयन्नित्यर्थः । लवली लताविशेष:षः 'हरफारेवडी' इति भाषाप्रसिद्धः । 'प्राकारो वरण:णः साल :लः' इत्यमरः । सभाबद्धग्रासैरिति क्वचित्पाठस्तत्राप्युक्त एवार्थ: । नवलवलीति पाठे नवश्चासौ लवलिपाकश्चेत्यन्वयो बोध्यः । नन्विहाभेदविवक्षैव किं न स्यादत आह -- अत्रेति ॥ कोऽयमित्यनेनानिर्ज्ञातत्वप्रकाशनात्प्रसिद्धस्य निर्ज्ञातत्वात्तद्वैलक्षण्यावगतिरिति भावः ॥ गर्भितो गलितेत्यादिविशेषणव्यङ्ग्यत्वेनाभिप्रेतः ॥ अन्यत्रापीति ॥ 'अनुच्छिष्टो देवैरपरिदलितो
राहुदशनैः कलङ्केनाश्लिष्टो न खलु परिभूतो दिनकृता । कुहूभिर्नो लिप्तो न च युवतिवक्त्रेण विजितः कलानाथः कोऽयं कनकलतिकायामुदयते ॥' इत्यादावित्यर्थः । अथवान्यत्रापि न्यूनतायामपीत्यर्थः । कोऽयं भूमिगतश्चन्द्र इत्यादावदिव्यत्वरूपन्यूनताप्रकाशनमूहनीयमिति भावः । ननूक्तोदाहरणेष्वयमिति विषयस्योपादानात्कथमतिशयोक्तिरिति चेदत्राहुः । इदन्त्वस्य विषयविशेषणत्वेन विवक्षायामतिशयोक्तिरेव । यदा तु विषय विशेषणत्वविवक्षा तदा रूपकमिति व्यवस्था । अतएव प्रकाशकृता दशमे रूपकातिशयोक्त्यादिसन्देहसंकरे 'नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति' इत्युदाहृतमिति ॥ ३६ ॥ एनां विभजते -- यद्यप
ह्नुतीति ॥ अपह्नुतिगर्भत्वं पर्यस्तापह्नुतिगर्भत्वम् । सैव रूपकातिशयोक्तिरेव । तथाच सापह्नवत्वनिरपह्नवत्वभेदेन द्विविधाऽतिशयोक्तिरिति भावः ॥ मुक्तेति ॥तान्यनुभवैकवेद्यानीमानि वस्तूनि ते इमे जनाः विकल्पयन्ति सदसद्वेति विकल्पविषयाणि कुर्वन्ति येषां जनानां सा प्रक्रान्ता सुन्दरी दृक्पथे लोचनमार्गे नास्तीत्यन्वयः । तादृश- सुन्दरीदर्शनशालिनस्तु विकल्पयन्तीति भावः । तानि कानि वस्तूनि तत्राह । मुक्ता मौक्तिकं विद्रुमं प्रवालं चान्तरा अनयोर्मध्ये म-
[^१] 'यदापह्नुति'.
य[^१]द्यपह्नुतिगर्भत्वं सैव सापह्नवा मता ।
त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधौ ॥ ३७ ॥
अत्र त्वत्सूक्तिमाधुर्यमेवामृतमित्यतिशयोक्तिश्चन्द्रमण्डलस्थममृतं न भवतीत्यपह्नुतिगर्भा ॥ यथावा --
मुक्ताविद्रुममन्तरा मधुरसः पुष्पं परं धूर्वहं
प्रालेयद्युतिमण्डले खलु तयोरेकासिका नार्णवे ।
तच्चोदञ्चति शङ्खमूर्ध्नि न पुनः पूर्वाचलाभ्यन्तरे
तानीमानि विकल्पयन्ति त इमे येषां न सा
[commentary]
गलितश्च्युतो हरिणो यस्मात्तथाभूतस्तेन निष्कलङ्कतयोत्कर्षाभिव्यक्तिः । पुनः कीदृक् । सुधायां बद्धो ग्रासस्तदभिलाषो यैस्तैरुपवनसम्बन्धिभिश्चकोरैरनुसृतां लवल्याः फलपाकस्य प्रणयिनीं सदृशीमच्छां स्वच्छां ज्योत्स्नां तत्त्वेनाध्यवासितां कान्