2023-02-17 12:58:43 by ambuda-bot
This page has not been fully proofread.
अतिशयोक्त्यलंकारः १३ ] अलंकार चन्द्रिकासहितः ।
अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्न देशौ
तत्रत्यानां सुलभममृतं संनिधानात्सुधांशोः ॥
अत्र वाप्यादिशब्दैनामिप्रभृतयो निगीर्णाः । अत्रातिशयोक्तौ रूपकविशे-
षणं रूपके दर्शितानां विधानामिहापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम् ।
तेनान्राप्यभेदातिशयोक्तिस्ता द्रूप्यातिशयोक्तिरिति द्वैविध्यं द्रष्टव्यम् । तत्रा-
प्याधिक्यन्यूनताविभागश्चेति सर्वमनुसंधेयम् ॥ यथावा-
सुधाबद्धमा सैरुपवनचकोरैरनुसृतां
--
३९
किरञ्ज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम् ।
उपप्राकाराग्रे प्रहिणु नयने तर्कय मना-
गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥
नायिकाङ्गवर्णनमिदम् । गगने सूक्ष्मतया तद्वद्दुर्लक्ष्ये मध्ये काप्यनिर्वचनीयशो-
भा वापी तद्वद्गम्भीरा नाभिः स्फुरति शोभते । तत्परं तदूर्ध्वभागे ऐन्द्रनीली
इन्द्रनीलघटिता सूक्ष्मपद्या सरणिस्तद्वच्छयामा रोमावलिः स्फुरतीत्यनुषज्यते ।
किंभूता । काञ्चननिर्मितां सोपानपङ्किं तत्सदृशीं त्रिवलीमधिगतवती प्राप्तवती ।
तथा अग्रे तदूर्ध्वदेशे शैलौ तद्वत्तुङ्ग विशालौ कुचौ स्फुरत इति विभक्तिविपरिणा-
मेन संबध्यते । कीदृशौ । सुकृतिनां पुण्यकृतां सुलभौ सुलभगमनौ सुलभौ च ।
पुनः कीदृशौ । चन्दनतरुभिः चन्दनपङ्केन चाच्छन्नो व्याप्तो देशो ययोस्तथा भू-
तौ । तत्रत्यानां तदाश्लिष्टानां च सुधांशोस्तद्वदाह्लादकस्य मुखस्य संनिधानादमृतं
तद्वदास्वाद्यमधरमाधुर्यं सुलभमियन्वयः । विधानां भेदानाम् । इतीत्यस्य प्रद-
र्शनार्थमित्यनेनान्वयः ॥ अतिदेशेनेति ॥ सादृश्येनेत्यर्थः । मुख्यरूपकाभेद-
स्यातिशयोक्तावभावाद्रूपकपदं रूपकसदृशपरम् । ' षण्मासमग्निहोत्रं जुह्वति' इत्य-
त्राग्निहोत्रपदवद्धर्मातिदेशक मित्याशयः । आधिक्यन्यूनतेत्यत्रानुभयोक्तरुक्तोदा-
हरणेषु प्रसिद्धतरत्वादनुपादानं बोध्यम् । यत्त्वत्र कैश्चिदुक्तं विषयिवाचकपदस्य
विषये साध्यवसानलक्षणायाः शक्यतावच्छेदकमात्रप्रकारकलक्ष्य विशेष्यकबोध-
कत्वं कार्यतावच्छेदकम् । एवंच निगरणे सर्वत्र विषयतावच्छेदकधर्मरूपेणैव विष-
यस्य भानं न विषय्यमिन्नत्वेनेति स्थितेऽभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति
द्वैविध्यमयुक्तमिति, तत्प्रौढिविलसितम् । शक्यतावच्छेदकस्य लक्ष्ये पूर्वमप्रतीत-
त्वेन तद्विशिष्टतया लक्षणाया असंभवात्, यद्धर्मविशिष्टे शक्यसंबन्धग्रहस्तद्धर्म-
प्रकारकलक्ष्योपस्थितेः समानप्रकारकशाब्दबोधे हेतुत्वाल्लक्षणापरिहार्याया अनु-
पपत्तेस्तदवस्थत्वाच्च । एवमपि तात्पर्यवशात्तादृशबोधाङ्गीकारे तद्वशादेव शक्यामे-
दप्रकारकबोधेऽपि वाधकाभावान्मात्रपदेन विषयतावच्छेदकस्यैव व्यावर्तनादिति
दिक् ॥ सुधाबद्धेति ॥ विद्धशालभञ्जिकाख्यायां नाटिकायां स्फटिकप्राकारशि-
खरगतां मृगाङ्कावलीमालोकयतो राज्ञो विदूषकं प्रत्युक्तिरियम् । उपप्राकाराग्रं प्रा-
काराग्रसमीपे नयने प्रहिणु प्रेरय । मनाक् ईषत्तर्कय । अनाकाशे अनन्तरिक्षे कोऽयं
शीत किरणश्चन्द्र इति मुखे चन्द्रगताह्लादकारित्वरूपताद्रूप्याध्यवसानम् । कीदृशः ।
-