This page has been fully proofread twice.

अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशौ
तत्रत्यानां सुलभममृतं सन्निधानात्सुधांशोः ॥
 
अत्र वाप्यादिशब्दैनामिभिप्रभृतयो निगीर्णाः । अत्रातिशयोक्तौ रूपकविशेषणं रूपके दर्शितानां विधानामिहापि सम्भवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम् । तेनात्राप्यभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति द्वैविध्यं द्रष्टव्यम् । तत्राप्याधिक्यन्यूनताविभागश्चेति सर्वमनुसन्धेयम् ॥ यथावा --
 
सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां
किरञ्ज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम् ।
उपप्राकाराग्रे प्रहिणु नयने तर्कय मना-
गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥
 
[commentary]
 
नायिकाङ्गवर्णनमिदम् । गगने सूक्ष्मतया तद्वद्दुर्लक्ष्ये मध्ये काप्यनिर्वचनीयशोभा वापी तद्वद्गम्भीरा नाभिः स्फुरति शोभते । तत्परं तदूर्ध्वभागे ऐन्द्रनीली इन्द्रनीलघटिता सूक्ष्मपद्या सरणिस्तद्वच्छ्यामा रोमावलिः स्फुरतीत्यनुषज्यते । किंभूता । काञ्चननिर्मितां सोपानपङ्किंक्तिं तत्सदृशीं त्रिवलीमधिगतवती प्राप्तवती । तथा अग्रे तदूर्ध्वदेशे शैलौ तद्वत्तुङ्गविशालौ कुचौ स्फुरत इति विभक्तिविपरिणामेन सम्बध्यते । कीदृशौ । सुकृतिनां पुण्यकृतां सुलभौ सुलभगमनौ सुलभौ च । पुनः कीदृशौ । चन्दनतरुभिः चन्दनपङ्केन चाच्छन्नो व्याप्तो देशो ययोस्तथाभूतौ । तत्रत्यानां तदाश्लिष्टानां च सुधांशोस्तद्वदाह्लादकस्य मुखस्य सन्निधानादमृतं
तद्वदास्वाद्यमधरमाधुर्यं सुलभमित्यन्वयः । विधानां भेदानाम् । इतीत्यस्य प्रदर्शनार्थमित्यनेनान्वयः ॥ अतिदेशेनेति ॥ सादृश्येनेत्यर्थः । मुख्यरूपकाभेद-
स्यातिशयोक्तावभावाद्रूपकपदं रूपकसदृशपरम् । ' षण्मासमग्निहोत्रं जुह्वति' इत्य-
त्राग्निहोत्रपदवद्धर्मातिदेशकमित्याशयः । आधिक्यन्यूनतेत्यत्रानुभयोक्तेरुक्तोदाहरणेषु प्रसिद्धतरत्वादनुपादानं बोध्यम् । यत्त्वत्र कैश्चिदुक्तं विषयिवाचकपदस्य विषये साध्यवसानलक्षणायाः शक्यतावच्छेदकमात्रप्रकारकलक्ष्यविशेष्यकबोधकत्वं कार्यतावच्छेदकम् । एवंच निगरणे सर्वत्र विषयतावच्छेदकधर्मरूपेणैव विषयस्य भानं न विषय्यमिभिन्नत्वेनेति स्थितेऽभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति द्वैविध्यमयुक्तमिति, तत्प्रौढिविलसितम् । शक्यतावच्छेदकस्य लक्ष्ये पूर्वमप्रतीतत्वेन तद्विशिष्टतया लक्षणाया असम्भवात्, यद्धर्मविशिष्टे शक्यसम्बन्धग्रहस्तद्धर्मप्रकारकलक्ष्योपस्थितेः समानप्रकारकशाब्दबोधे हेतुत्वाल्लक्षणापरिहार्याया अनुपपत्तेस्तदवस्थत्वाच्च । एवमपि तात्पर्यवशात्तादृशबोधाङ्गीकारे तद्वशादेव शक्यामेभेदप्रकारकबोधेऽपि वाधकाभावान्मात्रपदेन विषयतावच्छेदकस्यैव व्यावर्तनादिति दिक् ॥ सुधाबद्धेति ॥ विद्धशालभञ्जिकाख्यायां नाटिकायां स्फटिकप्राकारशिखरगतां मृगाङ्कावलीमालोकयतो राज्ञो विदूषकं प्रत्युक्तिरियम् । उपप्राकाराग्रं प्राकाराग्रसमीपे नयने प्रहिणु प्रेरय । मनाक् ईषत्तर्कय । अनाकाशे अनन्तरिक्षे कोऽयं शीतकिरणश्चन्द्र इति मुखे चन्द्रगताह्लादकारित्वरूपताद्रूप्याध्यवसानम् । कीदृशः ।