This page has been fully proofread twice.

इत्युत्प्रेक्षाव्यञ्जकत्वेन परिगणितानां शब्दानां प्रयोगे वाच्याः । तेषामप्रयोगे गम्योत्प्रेक्षा ।
 
यथा -- त्वत्कीर्तिर्भ्रमणश्रान्ता विवेश स्वर्गनिम्नगाम् ॥ ३३ ॥ ३४ ॥ ३५॥
 
------------------
 
अतिशयोक्त्यलंकारः १३
 
रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः ।
पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः ॥ ३६ ॥
 
विषयस्य स्वशब्देनोल्लेखनं विना विषयिवाचकेनैव शब्देन ग्रहणं विषयनिगरणं तत्पूर्वकं विषयस्य विषयिरूपतयाध्यवसानमाहार्यनिश्चयस्तस्मिन्सति रूपकातिशयोक्तिः । यथा नीलोत्पलशरशब्दाभ्यां लोचनयोः कटाक्षाणां च ग्रहणपूर्वकं तद्रूपताध्यवसानम् । यथावा --
 
वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या
सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली ।
 
[commentary]
 
जात्यादिभेदानां चमत्कारविशेषानाधायकत्वादप्रदर्शनमिति भावः ॥ इत्युत्प्रेक्षेति ॥ इत्यनेनोत्प्रेक्षाबोधकत्वेनेत्यर्थः ॥ त्वत्कीर्तिरिति ॥ अत्रानुपात्तस्वर्गगमनविषया स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षा, विशेषणीभूतभ्रमणश्रान्तत्वरूपहेतूत्प्रेक्षा वा प्रतीयत इति बोध्यम् ॥ ३३ ॥ ३४ ॥ ३५ ॥ इति उत्प्रेक्षाप्रकरणम् ॥ १२ ॥
 
अतिशयोक्तिं लक्षयति- रूपकातिशयोक्तिरिति ॥ ग्रहणमुपस्थापनम् ॥ विषयिरूपतयेति ॥ विषयिणो रूपमस्य तस्य भावस्तत्ता तयेत्यर्थः । रूपं चाभेदताद्रूप्यान्यतरत् ॥ तस्मिन्सतीति ॥ सप्तमीसमर्थात्तसिरित्यभिप्रायेण । एवं चानुपात्तविषयधर्मिकाहार्यनिश्चयविषयीभूतं विषय्य- भेदताद्रूप्यान्यतरद्रूपकातिशयोक्तिरिति लक्षणं बोध्यम् । अत्र रूपकवारणायानुपात्तेति । अयमेव च रूपकादस्यां विशेषोऽतिशय इत्युच्यते । भ्रान्तिवारणायाहार्येति । उत्प्रेक्षावारणाय
निश्चयेति ॥ नीलोत्पलेति ॥ अत्र नीलोत्पलपदात्साध्यवसानलक्षणया शक्यलक्ष्योभयानुगतकान्तिविशेषादिपुरस्कारेणोपस्थिते कामिनीनयने शक्त्युपस्थितस्य
नीलोत्पलत्वविशिष्टस्याभेदसंसर्गेणान्वयः । शक्त्युपस्थितयोः कृतीष्टसाधनतयोरिव शक्तिलक्षणाभ्यामुपस्थितयोरप्येकपदार्थयोस्तात्पर्यवशेनान्वयाङ्गीकारे बाधकाभावात् । एवंच नीलोत्पलाभिन्नकान्तिविशेषवद्वन्द्वादिति बोधादियमभेदातिशयोक्तिरित्युच्यते । नचैवं सति रूपकादवैलक्षण्यमिति वाच्यम् । रूपके विषयिमेभेदव्याप्यस्य विषयतावच्छेदकस्य भानेन वैलक्षण्यस्य स्फुटत्वात् । यदात्वभेदभाने न तात्पर्यं किन्तु भेदभाने तदा कान्तिविशेषादिरूपताद्रूप्यस्यैव बोधात्ताद्रूप्यातिशयोक्तिर्वक्ष्यत इति बोध्यम् ॥ वापीति ॥ मध्यभागमारभ्य मुखपर्यन्तं