This page has been fully proofread once and needs a second look.

[ अतिशयोत्तयलंकारः १३
 
इत्युत्प्रेक्षाव्यञ्जकत्वेन परिगणितानां शब्दानां प्रयोगे वाच्याः । तेषाम
प्रयोगे गम्योत्प्रेक्षा ।
 
३८
 

 
कुवलयानन्दः ।
 

 
यथा – त्वत्कीर्तिभ्रमणश्रान्ता विवेश स्वर्गनिम्नगाम् ॥ ३३ ॥ ३४ ॥ ३५॥
 
P
 

 
------------------
 
अतिशयोक्त्यलंकारः १३
 

 
रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः ।
 

पश्य नीलोत्पलद्वन्द्वान्निः सरन्ति शिताः शराः ॥ ३६ ॥
 

 
विषयस्य स्वशब्देनोल्लेखनं विना विषयिवाचकेनैव शब्देन ग्रहणं विषय-
निगरणं तत्पूर्वकं विषयस्य विषयिरूपतयाध्यवसानमाहार्यनिश्चयस्तस्मिन्सति
रूपकातिशयोक्तिः । यथा नीलोत्पलशरशब्दाभ्यां लोचनयोः कटाक्षाणां च
ग्रहणपूर्वकं तद्रूपताध्यवसानम् । यथावा-
——
 
--
 
वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या

सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली ।
 

 
[commentary]
 
जात्यादिभेदानां चमत्कारविशेषानाधायकत्वादप्रदर्शन मिति भावः ॥ इत्युत्प्रे -
क्षेति ॥ इत्यनेनोत्प्रेक्षाबोधकत्वेनेत्यर्थः ॥ त्वत्कीर्तिरिति ॥ अत्रानुपात्तख-
स्वर्गगमनविषया स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षा, विशेषणीभूतभ्रमणश्रान्तत्वरूप हेतू-
त्प्रेक्षा वा प्रतीयत इति बोध्यम् ॥ ३३ ॥ ३४ ॥ ३५ ॥ इति उत्प्रेक्षा-
प्रकरणम् ॥ १२ ॥
 

 
अतिशयोक्तिं लक्षयति- रूपकातिशयोक्तिरिति ॥ ग्रहणमुपस्थापनम् ॥
विषयिरूपतयेति ॥ विषयिणो रूपमस्य तस्य भावस्तत्ता तयेत्यर्थः । रूपं चा-
भेदताद्रूप्यान्यतरत् ॥ तस्मिन्सतीति ॥ सप्तमीसमर्थात्तसिरित्यभिप्रायेण । एवं
चानुपात्तविषयधर्मिकाहार्य निश्चय विषयीभूतं विषय्य- भेदताद्रूप्यान्यतरद्रूपकातिश-
योक्तिरिति लक्षणं बोध्यम् । अत्र रूपकवारणायानुपात्तेति । अयमेव च रूप-
कादस्यां विशेषोऽतिशय इत्युच्यते । भ्रान्तिवारणायाहार्येति । उत्प्रेक्षावारणाय

निश्चयेति ॥ नीलोत्पलेति ॥ अत्र नीलोत्पलपदात्साध्यवसानलक्षणया शक्यल-
क्ष्योभयानुगतकान्तिविशेषादि पुरस्कारेणोपस्थिते कामिनीनयने शक्त्युपस्थितस्य

नीलोत्पलत्वविशिष्टस्याभेद संसर्गेणान्वयः । शक्त्युपस्थितयोः कृतीष्टसाधनतयो-
रिव शक्तिलक्षणाभ्यामुपस्थितयोरप्येक पदार्थयोस्तात्पर्यवशेनान्वयाङ्गीकारे बाध-
काभावात् । एवंच नीलोत्पलाभिन्नकान्तिविशेषवद्वन्द्वादिति बोधादियमभेदातिश-
योक्तिरित्युच्यते । नचैवं सति रूपकादवेवैलक्षण्य मिति वाच्यम् । रूपके विषयिमे-
दव्याप्यस्य विषयतावच्छेदकस्य भानेन वैलक्षण्यस्य स्फुटत्वात् । यदात्वभेदभा-
ने न तात्पर्य किंयं किन्तु मेभेदभाने तदा कान्तिविशेषादिरूपताद्रूप्यस्यैव बोधात्ताद्रूप्या-
तिशयोक्तिर्वक्ष्यत इति बोध्यम् ॥ वापीति ॥ मध्यभागमारभ्य मुखपर्यन्तं