This page has been fully proofread twice.

अत्र विवस्वता कृतं स्वकिरणैः सह जनलोचनानां नयनमसदेव रात्रावान्ध्यंप्रति हेतुत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया हेतूप्रेक्षा ।
 
पूरं विधुर्वर्धयितुं पयोधेः शङ्केयमेणाङ्कमणिं कियन्ति ।
पयांसि दोग्धि प्रियविप्रयोगे सशोककोकीनयने कियन्ति ॥
 
अत्र चन्द्रेण कृतं समुद्रस्य बृंहणं सदेव तदा तेन कृतस्य चन्द्रकान्तद्रावणस्य कोकाङ्गनाबाष्पस्रावणस्य च फलत्वेनोत्प्रेक्ष्यत इति सिद्धविषया फलोत्प्रेक्षा ।
 
रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् ।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥
 
अत्रोत्तरायणस्याश्वपरिवर्तनमसदेव फलत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया फलोत्प्रेक्षा । एता एवोत्प्रेक्षाः ।
 
'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥'
 
[commentary]
 
लेन परकीयाभिर्गोभिर्मिश्राः स्वीया गावो नीयन्ते तथा गोपदवाच्यत्वसाजात्येन मिश्रिता विवस्वतापि नीता इवेत्यर्थः । खलु सम्भावनायाम् । तेन नयनेन हेतुना इदमान्ध्यं न त्वन्धकारैरित्यन्वयः । 'गौः स्वर्गे च बलीवर्दे रश्मौ च कुलिशे पुमान् । स्त्रीसौरभेयी- दृग्बाणदिग्वाग्भूष्वप्सु भूम्नि च ॥ इति मेदिनी । अत्र चानायिषतेवेति विषयोत्प्रेक्षणपूर्वकं तस्य हेतुत्वेनोत्प्रेक्षणमिति पूर्वस्माद्भेदः । एवं पूर्वत्र इच्छयेति गुणरूपो हेतुरिह तु क्रियारूप इत्यपि द्रष्टव्यम् । अत्र चोत्प्रेक्षाद्वयसत्त्वेऽपि हेतूत्प्रेक्षायाः प्राधान्यात्तत्त्वेनैव व्यपदेशो न तु स्वरूपोत्प्रे-
क्षात्वेन । तस्या अङ्गत्वात् । एवमन्यत्रापि बोध्यम् ॥ पूरमिति ॥ अयं विधुश्चन्द्रः पयोधेः पूरं वर्धयितुमेणाङ्कमणिं चन्द्रकान्तं कियन्ति लोकोक्त्त्या अपरिमितानि पयांसि दोग्धीति शङ्के । तथा प्रियैः पतिभिर्विप्रयोगे वियोगे सति सशोकानां कोकाङ्गनानां नयने कर्मभूते । कियन्ति पयांसि दोग्धीति शङ्क इत्यन्वयः । दुहेर्द्विकर्मकत्वादेणाङ्कमणिमिति द्वितीया । एवं नयने इत्यत्रापि । मध्यः किमित्यत्रैकस्य बद्धत्वस्य फलत्वेन कुचधृतेरुत्प्रेक्षणमिह तु द्रावणस्रावणयोर्द्वयोः फलत्वेन पूरवर्धनस्य तदिति भेदः । बृंहणं वर्धनम् । तदा वर्धनकाले । तेन चन्द्रेण ॥
रथस्थितानामिति ॥ रविः रथे स्थितानां नियुक्तानां पुरातनानां वाहनानामश्वानां परिवर्तनायेव तुरगोत्तमानामुत्पत्तिभूमावुत्तरस्यां दिशि प्रतस्थ इत्यन्वयः । प्रायोऽब्जमित्यत्रैक्यस्य गुणस्य फलत्वेनोत्प्रेक्षणमिह तु परिवर्तनक्रियाया इति भेदः । नन्वलंकारसर्वस्वकारादिभिरन्येषामपि जात्यादिभेदानामुक्तत्वात्कुतस्तेन प्रदर्शिता इत्याङ्क्याह -- एता एवेति ॥ उक्तभेदा
एवेत्यर्थः । उत्प्रेक्षा इत्यनन्तरं चमत्कारविशेषप्रयोजिका इति शेषः । तथाच