2023-02-17 12:58:43 by ambuda-bot
This page has not been fully proofread.
कुवलयानन्दः ।
[ उत्प्रेक्षालंकारः १२
पूर्वोदाहरणे निमित्तभूतधर्म संबन्धो गम्यः इह तूपात्त इति भेदः । नन्वि-
वशब्दस्य सादृश्यपरत्वेन प्रसिद्धतरत्वादुपमैवास्तु । लिम्पतीवेत्युदाहरणे
लेपनकर्तुरुपमानत्वार्हस्य क्रियोपसर्जनत्ववदिह नखक्षतानामन्योपसर्जनत्व-
स्योपमाबाधकस्याभावात् । उच्यते । उपमाया यन्त्र क्वचित्स्थितैरपि नखक्षतैः
सह वक्तुं शक्यतया वसन्तनायकसमागतवनस्थलीसंबन्धित्वस्य विशेषण-
स्यानपेक्षितत्वादिह तदुपादानं पलाशकुसुमानां नखक्षततादात्म्यसंभावना-
यामिवशब्दमवस्थापयति । तथात्व एव तद्विशेषणसाफल्यात् । अस्ति च
संभावनायामिवशब्दो दूरे तिष्ठन्देवदत्त इवाभातीति
३६
पिनष्टीव तरङ्गायैः समुद्रः फेनचन्दनम् ।
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥
अत्र तरङ्गायैः फेनचन्दनस्य प्रेरणं पेपणतयोत्प्रेक्ष्यते । समुद्रादुत्थितस्य
चन्द्रस्य प्रथमं समुद्रपूरे प्रसृतानां कराणां दिक्षु व्यापनं च समुद्रोपान्तफे-
नचन्दनकृतलेपनत्वेनोत्प्रेक्ष्यते । उभयत्र क्रमेण समुद्रप्रान्तगतफेनचन्दनपु-
जीभवनं दिशां धवलीकरणं च निमित्तमिति फेनचन्दमप्रेरणकिरणव्यापन-
योर्विपययोरनुपादानादनुक्तविषये स्वरूपोत्प्रेक्षे । येषां तूपात्तयोः समुद्रच
न्द्रयोरेव तत्कर्तृकपेषणलेपनरूपधर्मोत्प्रेक्षेति मतं तेषां मते पूर्वोदाहरणे
धर्मिणि धर्म्यन्तरतादात्म्योत्प्रेक्षा । इह तु धर्मिणि धर्मसंसर्गोत्प्रेक्षेति भेदो-
ऽवगन्तव्यः ॥
रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः ।
भूमौ प्रतापयशसी सृष्टवान्सततोदिते ॥
रात्रौ रवेर्दिवा चन्द्रस्याभावः सन्नपि प्रतापयशसोः सर्गे न हेतुरिति तस्य
तद्धेतुत्व संभावना सिद्धविषया हेतूत्प्रेक्षा ॥
विवस्वतानायिपतेव मिश्राः स्वगोसहस्रेण समं जनानाम् ।
गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥
भूतानि नखक्षतानीव बभुः शुशुभिर इत्यन्वयः ॥ पूर्वेति ॥ धूमस्तोममित्यत्रे-
त्यर्थः । ननु लोके संभावनायामिवशब्दो न दृष्ट इत्यत आह - अस्तिचेति ॥
पिनष्टोवेति ॥ समुद्रस्तरङ्गाणामग्रभागैः फेनरूपं चन्दनं पिनष्टीव । इन्दुस्त-
त्फेनचन्दनमादाय करैः किरणैः दिग्रूपा अङ्गना लिम्पतीव । अनुलिम्पतीवेत्यर्थः॥
समुद्रोपान्तेति ॥ समुद्रस्योपान्ते तटे यत्फेनचन्दनं तत्कृतं यत्तासां दिशां
लेपनं तत्त्वेनेत्यर्थः। उभयत्र उभयोरुत्प्रेक्षयोः । येषामलंकारसर्वस्वकारादीनाम् ॥
रात्राविति ॥ स प्रक्रान्तः प्रभुर्भूपतिः भूमौ रात्रौ रवेरभावाद्धेतोरिव दिवा
चेन्दोरभावाद्धेतोरिव सततं निरन्तरमुदिते प्रतापयशसी सृष्टवान् । निर्मि-
तवानित्यर्थः । रक्तावित्युदाहरणे भावरूपो हेतुरिह त्वभावरूप इति भेदः ॥
विवस्वतेति ॥ विवस्वता सूर्येण स्वस्य गोसहस्रेण किरणसहस्रेण समं मिश्रा
मिश्रिता जनानां नेत्रापरनामधेया गावोऽयनायिषतेव नीता इव । यथा गोपा-
●