2023-04-20 09:49:40 by Bharadwajraki
This page has been fully proofread twice.
पूर्वोदाहरणे निमित्तभूतधर्मसम्बन्धो गम्यः इह तूपात्त इति भेदः । नन्विवशब्दस्य सादृश्यपरत्वेन प्रसिद्धतरत्वादुपमैवास्तु । लिम्पतीवेत्युदाहरणे लेपनकर्तुरुपमानत्वार्हस्य क्रियोपसर्जनत्ववदिह नखक्षतानामन्योपसर्जनत्वस्योपमाबाधकस्याभावात् । उच्यते । उपमाया यन्त्र क्वचित्स्थितैरपि नखक्षतैः सह वक्तुं शक्यतया वसन्तनायकसमागतवनस्थलीसम्बन्धित्वस्य विशेषणस्यानपेक्षितत्वादिह तदुपादानं पलाशकुसुमानां नखक्षततादात्म्यसम्भावनायामिवशब्दमवस्थापयति । तथात्व एव तद्विशेषणसाफल्यात् । अस्ति च सम्भावनायामिवशब्दो दूरे तिष्ठन्देवदत्त इवाभातीति
पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् ।
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥
अत्र तरङ्गायैःग्रैः फेनचन्दनस्य प्रेरणं पेपषणतयोत्प्रेक्ष्यते । समुद्रादुत्थितस्य चन्द्रस्य प्रथमं समुद्रपूरे प्रसृतानां कराणां दिक्षु व्यापनं च समुद्रोपान्तफेनचन्दनकृतलेपनत्वेनोत्प्रेक्ष्यते । उभयत्र क्रमेण समुद्रप्रान्तगतफेनचन्दनपुञ्जीभवनं दिशां धवलीकरणं च निमित्तमिति फेनचन्दमप्रेरणकिरणव्यापनयोर्विषययोरनुपादानादनुक्तविषये स्वरूपोत्प्रेक्षे । येषां तूपात्तयोः समुद्रचन्द्रयोरेव तत्कर्तृकपेषणलेपनरूपधर्मोत्प्रेक्षेति मतं तेषां मते पूर्वोदाहरणे धर्मिणि धर्म्यन्तरतादात्म्योत्प्रेक्षा । इह तु धर्मिणि धर्मसंसर्गोत्प्रेक्षेति भेदोऽवगन्तव्यः ॥
रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः ।
भूमौ प्रतापयशसी सृष्टवान्सततोदिते ॥
रात्रौ रवेर्दिवा चन्द्रस्याभावः सन्नपि प्रतापयशसोः सर्गे न हेतुरिति तस्य तद्धेतुत्वसम्भावना- सिद्धविषया हेतूत्प्रेक्षा ॥
विवस्वतानायिपषतेव मिश्राः स्वगोसहस्रेण समं जनानाम् ।
गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥
[commentary]
भूतानि नखक्षतानीव बभुः शुशुभिर इत्यन्वयः ॥ पूर्वेति ॥ धूमस्तोममित्यत्रेत्यर्थः । ननु लोके सम्भावनायामिवशब्दो न दृष्ट इत्यत आह -- अस्तिचेति ॥ पिनष्टोवेति ॥ समुद्रस्तरङ्गाणामग्रभागैः फेनरूपं चन्दनं पिनष्टीव । इन्दुस्तत्फेनचन्दनमादाय करैः किरणैः दिग्रूपा अङ्गना लिम्पतीव । अनुलिम्पतीवेत्यर्थः॥ समुद्रोपान्तेति ॥ समुद्रस्योपान्ते तटे यत्फेनचन्दनं तत्कृतं यत्तासां दिशां लेपनं तत्त्वेनेत्यर्थः। उभयत्र उभयोरुत्प्रेक्षयोः ।येषामलंकारसर्वस्वकारादीनाम् ॥ रात्राविति ॥ स प्रक्रान्तः प्रभुर्भूपतिः भूमौ रात्रौ रवेरभावाद्धेतोरिव दिवा चेन्दोरभावाद्धेतोरिव सततं निरन्तरमुदिते प्रतापयशसी सृष्टवान् । निर्मितवानित्यर्थः । रक्तावित्युदाहरणे भावरूपो हेतुरिह त्वभावरूप इति भेदः ॥ विवस्वतेति ॥ विवस्वता सूर्येण स्वस्य गोसहस्रेण किरणसहस्रेण समं मिश्रा मिश्रिता जनानां नेत्रापरनामधेया गावोऽप्यनायिषतेव नीता इव । यथा गोपा-
पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् ।
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥
अत्र तरङ्गा
रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः ।
भूमौ प्रतापयशसी सृष्टवान्सततोदिते ॥
रात्रौ रवेर्दिवा चन्द्रस्याभावः सन्नपि प्रतापयशसोः सर्गे न हेतुरिति तस्य तद्धेतुत्वसम्भावना
विवस्वतानायि