2023-04-20 09:30:20 by Bharadwajraki
This page has been fully proofread twice.
जलावस्थितेरुदवासतपस्त्वेनाध्यवसितायाः कामिनीचरणसायुज्यप्राप्तिर्न फलमिति तस्या गगनकुसुमायमानायास्तपःफलत्वेनोत्प्रेक्षणादसिद्धविषया फलोत्पेक्षा । अनेनैव क्रमेणोदाहरणान्तराणि ।
बालेन्दुवक्राण्यविकासभावाद्वबभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥
अत्र पलाशकुसुमानां वक्रत्वलोहितत्वेन सम्बन्धेन निमित्तेन सद्यःकृतन-खक्षततादात्म्यसम्भावनादुक्तविषया स्वरूपोत्प्रेक्षा ॥
[commentary]
हेतोश्च स्वप्रयोज्याश्रयत्वसम्बन्धेन रक्तत्वविशिष्टे तस्य प्रकारतासंबन्धेन सम्भावनायां तस्याश्च विषयतया चरणयोरन्वयः । तथाच भूम्यधिकरणकविक्षेपणाभि
न्नहेतुकरक्तप्रकारकसम्भावनाविषयावीङ्घ्री इति बोधः । नच तादात्म्यसम्बन्धेन हे-तुविधेयकत्वाभावान्नेयं हेतूत्प्रेक्षा स्यात्किन्तु तादात्म्येन तथाविधरक्तस्वरूपोत्प्रेक्षैवेति वाच्यम् । विवक्षितविवेकेन विक्षेपणे हेत्वभेदस्योत्प्रेक्षणीयतया विक्षेपणं प्रति विशेष्यभूतस्यापि हेतोर्विधेयत्वोपगमात् । मुखं चन्द्र इत्यादिरूपक इवानुयोगित्वमुखस्याभेदस्य विक्षेपणसंसर्गत्वाभ्युपगमेन च विक्षेपणे हेत्वभेदभानसम्भवात् । हेतुविशिष्टस्वरूपोत्प्रेक्षाया मुखतः प्रतीतावपि विवक्षावशेन हेतूत्प्रेक्षात्वेनैव व्यपदेशः । यथा 'दध्ना जुहोति' इत्यत्र मुखतो दधिविशिष्टहोमप्रतीतावपि विवक्षितविवेकेन होमे दधिविधित्वव्यपदेश इति बोध्यम् । नच स्वप्रयोज्यत्वसम्बन्धेन स्वप्रयोज्याश्रयत्वसम्बन्धेन वा हेतुरूपधर्मोत्प्रेक्षैव रक्तादौ स्वीक्रियतां कृतमीदृशकल्पनाक्लेशेनेति वाच्यम् । धर्मोत्प्रेक्षाङ्गीकारे दूषणस्य प्रागेवावेदितत्वात् । अतएव 'हर्षाल्लग्ना ( मन्ये ) ललिततनु ते पादयोः पद्मलक्ष्मीः' इति हेतूत्प्रेक्षामुदाहृतवतः प्रकाशकृतोऽपि तत्र हर्षहेतुकलगनतादात्म्यसम्भावनमेव स्वाभाविके लगनेऽभिमतम् । अस्मदुक्तरीत्या तु लक्ष्मीरूपे विषये यथोक्तहर्षहेतुकलगनतादात्म्यसम्भावनमुचितम् । लगनस्य धर्म्युपसर्जनत्वेन सम्भावनायामन्वयायोगादिति ध्येयम् । एवं त्वन्मुखाभेच्छया इत्यसिद्धविषयहेतूत्प्रेक्षायामपि बोध्यम् । विषयसिद्धत्वासिद्धत्वाभ्यां बोधे विशेषाभावात् । मध्यः किमित्यादिफलोत्प्रेक्षास्थले फलं चतुर्थ्यर्थः । तत्र चामेभेदेन प्रकृत्यर्थान्वयः पूर्ववत् । फलस्य च प्रयोजकत्वसंसर्गेण बद्धत्वे तद्द्वारकेण तेनैव बद्धे वान्वयस्तत्तादात्म्यसंसर्गकसम्भावनाया मध्ये विषयतया । एवंच कुचधारणाभिन्नफलककनकदामकरणकबद्धत्वाश्रयसम्भावनाविषयो मध्य इति बोधः । एवं प्रायोऽब्जमित्यादावपि फलं तुमुनोऽर्थ इति पूर्ववदेव बोधः फलोत्प्रेक्षात्वं चोपदर्शितरीत्योपपादनीयमिति बहुवक्तव्येऽपि विस्तरभयादुपरम्यते ॥ बालेन्दुवक्राणीति ॥ न विद्यते विकासो येषां तान्यविकासानि तेषां भावाद्विकासरहितत्वाद्धेतोर्बालेन्दुवत्
द्वितीयाचन्द्रवद्वक्त्राणि तथातिशयेन लोहितान्यारक्तानि पलाशानि पलाशकुसुमानि वसन्तेन नायकेन समागमं प्राप्तानां वनस्थलीनामङ्गनानां सद्यस्तत्कालसं-
बालेन्दुवक्राण्यविकासभावाद्
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥
अत्र पलाशकुसुमानां वक्रत्वलोहितत्वेन सम्बन्धेन निमित्तेन सद्यःकृतन
[commentary]
हेतोश्च स्वप्रयोज्याश्रयत्वसम्बन्धेन रक्तत्वविशिष्टे तस्य प्रकारतासंबन्धेन सम्भावनायां तस्याश्च विषयतया चरणयोरन्वयः । तथाच भूम्यधिकरणकविक्षेपणाभि
द्वितीयाचन्द्रवद्वक्त्राणि तथातिशयेन लोहितान्यारक्तानि पलाशानि पलाशकुसुमानि वसन्तेन नायकेन समागमं प्राप्तानां वनस्थलीनामङ्गनानां सद्यस्तत्कालसं-